________________ बंभदत्त 1272 - अभिधानराजेन्द्रः - भाग 5 बंभदत्त त्येवमुक्तः, यता-जातिभिर्दासाऽऽदिनीचस्थानोत्पत्ति भिरुपर्युपरि जाताभिः पराजित इति पराभवं मन्यमानः अहो! अहमधन्यो यदित्थं नीचास्वेव जातिषु पुनः पुनरुत्पन्न इति।खलुक्यालङ्कारे, स चैवंविधः, किमित्याह-(कासि त्ति) अफार्षीत्, किमित्याह-निदान चक्रवर्तिपदावाप्तिर्मम भवेदित्येवमात्मकं, तुः पूरणे, क्वेदं कृतवानित्याह(हत्थिणपुरसिम्म त्ति) हस्तिनागपुरे चुलन्यां ब्रह्मदत्तः (उववण्णो त्ति) उत्पन्नः पद्मगुल्मादिति नलिनगुल्मविमानात्, च्युत्त्वेति शेषः इति सूत्राक्षरार्थः / / भावार्थस्त्वयम्-स हि ब्रह्मदत्तः पूर्वजन्मनि वाराणस्या संभूतनामा चाण्डालश्चित्राश्च तज्जयेष्ठ आसीत्, तत्र च नमुचिनामा ब्राह्मणो ममान्तः पुरमपधर्षितमनेनत्युत्पन्नकोपेन राज्ञा समर्पितो मारणनिमित्तं मातङ्गाधिपस्य तत्पितुः, उक्तश्चायमेतेनयदि मत्सुतौ सकलकलाकुशलौ विधत्से ततोऽस्ति ते जीवितमन्यथा नेति, ग्रारब्धं च तदर्थिनाऽनेन तद्गृह एवातिगुप्तस्थानस्थितेन त्तदध्यापन, ग्राहिती तौ व्याकरणवीणापुरःसराः सकला अपिकला, अन्यदा च शुश्रूषापराया तन्मातरि मोहोदयादय मुपपतित्वमाजगाम, ज्ञातस्तजनकेन, इष्टश्य मारयितुं, ज्ञातं सत्ताभ्यां, ज्ञापितं चास्मै, उपाध्यायोऽयमावयोस्ततो मा भूदस्याऽऽपदिति, तदवगमाच पलायितोऽसौ ततः स्थानात्, प्राप्तो हस्तिनागपुरं, कृतः सनत्कुमारचक्रवर्तिना मन्त्री। इतश्च ती चिासंभूती सातिशयगीतकलाऽऽक्षिप्ततरुणीज नात्यासक्तिहेतुतया त्याजितस्पृश्यास्पृश्यविभागौ जनेन राज्ञे निवेदितौ, यथा विनाशित नगरमाभ्या, निषिद्धस्तेन नगरस्यान्तस्तत्प्रचारः, कदाचिक तावतिकुतूहलतया कौमुदीमहविलोकनार्थमागती, दृष्टौ जनेन, कदर्थितावत्यर्थ , प्रवव्रजतुश्च तत एवोत्पन्नवैराग्यो, जातौ विकृष्टतपोनिष्टप्तदेही, प्राप्ताश्चाभ्यां तेजोलेश्याऽऽदिलब्धयः, समापतितश्चाग्रतो हस्तिनागपुरं, प्रविष्टो भासपारणके तत्र भिक्षार्थ सम्भूतयतिर्दृष्टश्च नमुचिना, जातोऽस्य चेतसि दुरध्य वसायोमदुश्चरितमयं प्रकाशयिष्यतीति निर्भसितो धिग् मुण्ड! चाण्डाल! व नगरस्यान्तः प्रविष्टोऽसीत्यादि निष्ठुरवचोभिः, प्रहत इष्टिकोपलशकलाऽऽदिभिस्तत्परिजनेन, तदनु च समस्तलोकेन, कुपितश्चासौ तेभ्यः समस्तजन दहनक्षमामसह्यतेजोलेश्या मोक्तुमुपचक्रमे, तच च मुखविनिर्यद्व हलधूमपटलान्धकारितदिक्चक्रवाले व्याकुलितः सान्तःपुरः सतत्कुमारचक्रवर्ती सकलो नगरलोकश्च समायातस्तत्पाचे, तवृत्तान्तश्रवणतश्चिाश्च, प्रारब्धस्तैरनेकधा सान्त्वनवचनै रुपशमयितुं, तथापि तत्राऽऽत्मानस्मरत्यतिकोपवशमे भगवति मा भूदस्माकस्माद्भस्मीभवनमिति स्त्रीरत्नसहितो महीपतिस्तं क्षमयांबभूव, यथा-भगवन् ! क्षमितव्यमस्माकमिदमिति, अस्मिंश्चान्तरे स्त्रीरत्नकोमलाऽऽलापसमुत्पन्नतदभिलाषो विगलितानुशयश्चाण्डालजातिरेव ममैवमनेकधा कदर्थनाहेतुरिति चिन्तयश्चिायतिना निवार्यमाणोऽपि यदि ममास्यतपसः फलमस्ति तदाऽन्यजन्मनि चक्रवर्तित्वमेव मम भूयादू येनाहमप्येव ललितललनाविलासाऽऽस्पदसुत्तम जातिश्च भवामीति निदानवशगोऽनशनं प्रपेदे। ततः स तपोऽनुभावतो नलिनगुल्मविमाने वैमानिकत्वेनाजनि, ततश्च ल्लयुमश्चुलन्यां ब्रह्मदत्तः समुत्पेदे ! क? इत्याह -(कंपिल्ले संभूओ (२+गाथा) काम्पिल्य इति पाश्चालमण्डलस्य तिलक इव काम्पिल्यनाम्नि नगरे संभूत इति पूर्वजन्मनि संभूतनामा। अमुंपादमतिक्रान्तसूत्रोत्तरपादद्वयं चैतददितार्थप्रसङ्गायार्थान्तराभिधानद्वारतः स्पृशन सूत्रास्पर्शिकनियुक्तिमाह - राया य तत्थ बमो, कडओ तइओ कणेरुदत्तो त्ति / राया य पुप्फचूलो, दीहो पुण होइ कोसलिओ / / 336 // एएपंच वयंसा, सव्वे सह दारदरिसणो भोचा। संवच्छर अणूणं, वसंति एक्केकरजम्मि।। 337 // राया य बंभदत्तो, धणुओ सेण्णावई य वरधणुओ। इंदसिरी इंदजसा, इंदुवसू चुलणिदेवीओ।। 338 / / राजा च तापाञ्चालेषु काम्पिल्ये ब्रह्म इति ब्रहानामा काशी जनपदाधिषः कटकस्तृतीयः कुरुषु गजपुराधिपतिः करेणुदत्त इति राजा च अड़ेषु चम्पास्वामी पुष्पचूलो यः किल ब्रह्मपत्न्याश्चु (ल) सिन्या भ्राता दीर्घ इति दीर्घपृष्ठः पुनर्भवति कौशलिकः साकेतपुराधिपतिः / / 336 // एतेऽनन्तरोक्ताः पञ्च वयस्याः सर्वेसमस्ताः सह दारान्पश्यन्तीत्येवंशीलाः सहदारदर्शिनः। किमुक्तं भवति?-एककालकृतकलत्रस्वीकाराः समानक्यस इति यावत्। (भोच त्ति) भुक्तवा संवत्सरं वर्षमन्यून परिपूर्ण वसन्त्यासरे, तत्कालाऽपेक्षया वर्तमानता, एकैकराज्ये एकैकसम्बन्धिनि नृपतित्वे / एष तावद्वाथाद्वयार्थः / / 337 / / तृतीयगाथा तु तात्पर्यतो व्याख्याते-ब्रह्मराजस्येन्द्रश्रीप्रमुखा श्वतस्वो देव्यस्ता च चुलन्याः पुत्रोऽजनि, धनुनाम्नः सेनापतेरपितत्रैवाहनि सुतः समुदपादि, कृतानि द्वयोरपि मङ्गलकौतुकानि, दत्तानि च दीनानाथेभ्यो दानानि, विहितं स्वसमये राजपुत्रस्य ब्रह्मदत्त इति नाम, इतरस्य तुवरधनुरिति, कालक्रमेण च जातौ कलाग्रहणोचितौ, ग्राहितौ सर्वा अपि कलाः, अस्मिश्चान्तरे मरणपर्यवसानतया जीवलोकस्य मृतो ब्रहाराजः कृतमौद्ध दैहिकमतिक्रान्तेषु च कतिपयदिनेषुतद्वयस्यैरभिषिक्तो राज्ये ब्रह्म दत्तः, पर्यालोचितं च तैर्यथैष नाद्यापि राज्यधुराधरणधौरेय इति पालयितुमुचितः कतिचित्संवत्सराणि, निरूपतस्तैस्तत्र दीर्घपृष्ठः, गताः स्वस्वदेशेषु कटकाऽऽदयो, जातश्च सर्वत्राप्रतिहतप्रवेशतया दीर्घपृष्टस्रु सह चुलन्याः संबन्धः ज्ञातं चैतदन्तः पुरपालिकया, न्यवेदिच तया धनुर्नाम्नः सेनापथिमन्त्रिाणः सकलमपि तत् वृत्तं, निरूपितस्तेन वरधनुर्यथा न कदाचित् कुमारस्त्वया मोक्तव्य इति / आरब्धश्चासौ तथैवानुष्ठातुम्, अन्यदा चायं विदितदीर्घपृष्ठचुलनीवृत्तान्तः केनचिदुपायेनामू निवारयामीति विजातिशकुनिक संग्रहणकमानीय कुमारायो पनिन्ये, तच्चातिनियमितमादायान्तः पुरस्यान्तः किलोन्याऽपि य एवंदुष्टाशीलः सोऽस्माभिरित्थं नियन्त्रणीय इति तौ स्वयं स्वसहचरैश्च डिम्भैरुद्घोषयन्ती प्रतिदिनमितश्चेतश्च भ्रमितुमारब्धौ, उपलब्धं च तत्ताभ्यामनुष्टीयमान दीर्घपृउन कुपितश्चासौ कुमाराय, भणि ता च चुलनी-यथाऽयमुपायेन केनापि विनाश्यता, यतोन विषकन्दल इवैष उपेक्षितः क्षेमंकरः अस्माक भवितेति, प्रतिपन्नं च तत्तया दुरन्ततया मोहोदयस्य, निरूपितश्च ताभ्यामुपायो यथाऽस्मै पुष्पचूलमातुलेन स्वदुहिता पुष्पचूला नाम पूर्व्वद ते