________________ बंभचेर 1267 - अभिधानराजेन्द्रः - भाग 5 बंभचेरगुत्ति इमायमाहाराए सया भवइ 6, नो पुव्वरयं पुव्वकीलियं सरित्ता भवइ७, नो सद्दाण्णुवाई नो रुवाणुवाई नो सिलोगाणुवाई भवइ 8, नो सायासुक्खपडिबद्धे आवि भवइ / स्था०६ ठा०। स०। प्रव० / ध०। आ० चू०। आव०। सूत्रा०। (अनन्तरमेव 'बंभचेरसमाहिट्ठाण' शब्दे व्याख्यास्यामि) बंभचेरपराइय त्रि० (ब्रह्मचर्यपराजित) ब्रह्मचर्य वस्तिनिरोधस्तेन पराजितः। उपस्थसंयमपराभग्ने, सूत्रा०१ श्रु०३ अ०१ उ०। बंभचेरपोसह पुं० (ब्रहाचर्यपौषध) चरणीयं चर्यम् / "अचो यत् / / 3 11 / 67 / / '' इत्यारयाधिकारात् 'गदमदचरयमश्चाऽनुप सर्गे / / 3 11 / 100 / / " इति यत्। ब्रहा कुशलाऽनुष्ठानं, तच्च चर्य चेति तत्पौषधः। आव० 6 अ०। पौषधभेदे, स च देशतो दिवैव रात्रावेव सकृदेव द्विरेव वा स्त्रीसेवा मुक्तवा ब्रह्मचर्यकरणम्। सर्वतस्तु अहोरात्र वा ब्रह्मचर्यकरणम्। ध०२ अधि०। बंभचेराभट्ठ पु० (ब्रह्मचर्यभ्रष्ट) अगपतब्रह्मर्य, ब्रह्मचर्यशब्दो मैथुनविरति- / वाचकः / तत्रौघतः संयमवाचकश्च। आव०३ अ०। बंभचेररय पुं० (ब्रह्मचर्यरत) ब्रह्मचर्याऽऽसक्ते, "बंभचेररएसया।" उत्त / 16 अ०। बंभचेरवसाऽऽणयण न० (ब्रह्मचर्यवशाऽऽनयन) ब्रह्मचर्य मैथुनविरतिरुप वशमानयत्यात्माऽऽयत्तं करोति दर्शनाऽऽक्षेपाऽऽदिनेति ब्रह्मचर्यवशाऽनयनम्। ब्रह्मचर्यभ्रंशके, दश०। न चरे (ज) वेससामंते,बंभचेरवसाणए। बंभयारिस्स दंतस्स, हुजा तत्थ विसोत्तिआ II || न चरेद्वेश्यासामन्ते न गच्छेद्रणिकागृहसमीपे / किंविशिष्ट ? इत्याहब्रह्मचर्यवशाऽऽनये -- ब्रह्मचर्य मैथुनविरतिरुपं वशमान यत्यात्माऽऽयत्त करोति दर्शनाऽऽक्षेपऽऽदिनेति ब्रह्मचर्यवशाऽऽ नयनं तस्मिन् / दोषमाह - ब्रह्मचारिणः साधोर्दान्तस्य इन्द्रियनो इन्द्रियदमाभ्यां भवेत्। अत्रा वेश्यासामन्ते विस्त्रोतसिका तद्पसंदर्शनस्मरणापध्यानकचवरनिरोधतः ज्ञानश्रद्धाजलोज्झनेन संयमशस्यशोषफला चित्तविक्रियेति सूत्रार्थः / दश०५ अ०१उ०। बंभचेरवास पुं० (ब्रह्मचर्यवास) ब्रह्मचर्ये मैथुनविरमणे तेन वा वासो ब्रह्मचर्यवासः / स्था० 5 ठा० 1 उ०। ब्रह्मचर्येणब्रह्म विरमणेन वासोरात्रौ स्वापः तत्रौव वा वासो निवासो ब्रहाचर्य वासः / ब्रहाचर्येणवस्थाने, स्था० 2 ठा०१ उ०। बंभचेरबिम्ब पुं० (ब्रह्मचर्यविघ्न) मैथुनविरमणव्याघाते, प्रश्न० 4 आश्र० द्वार। बंभचेरसाहिट्ठाण न० (ब्रह्मचर्यसमाधिस्थान) ब्रह्मचर्यस्थैर्यस्य हेतो, उत्त०१६ अ०। दश ब्रह्मचर्यसमाधिस्थानानि। संप्रति-सूत्रानुगमे सूत्र-मुचारणीयम्।। तचेदम् - सुयं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्ठाणा पन्नता / जेभिक्खू सोचा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिं दिए गुंत्तबभयारी सया अप्पमत्ते विहरेजा / / 1 / / श्रुतं मयाऽऽयुष्मन् ! तेन भगवतैवमाख्यातं-कथितम्। कथमित्याह-- सोपस्कारत्वात् सूत्रास्य यथेति गम्यते, ततो यथेह क्षेत्रे प्रवचने वा 'खलु' निश्चयेन स्थविरैः गणधरैर्भगवद्भिः परमैश्वर्याऽऽदियुक्तैर्दश ब्रह्मचर्य समाधि स्थानानि प्रज्ञप्तानि-प्ररुपितानि। कोऽभिप्रायः-नैषा स्वमनीषिका, कि तु भगवताऽप्येवमाख्यातं मया श्रुतं ततोऽत्रा मा अनास्था कृथाः, तान्येव विशिनष्टि-ये इति यानि ब्रह्मचर्यसमाधिस्थानानि भिक्षुः श्रुत्वाऽऽकर्ण्य शब्दतो निशम्यावधार्याऽर्थतः (संजमबहुले त्ति) संयममाश्रवविरमणाऽऽदिकं वह्निति बहुसख्यं यथा भवत्येवं लाति गृह्णाति। कोऽभिप्रायः?विशुद्धविशुद्धतरं पुनः पुनः संयमंकरोतीति संयमबहुलो, मयूरव्यसकाऽऽदित्वात्समासः / यदि वा-बहुलः प्रभूतः संयमोऽस्येति बहुलसंयमः / सूत्रो पूर्वापरनिपातस्यातन्त्रत्वाद अतएव संवर आश्रवद्वारनिरोधः तद्बहुलः बहुल संवरोवा, तत एव समाधिश्चित्तस्वास्थ्यं तद्बहुलो बहुल समाधिर्वा, गुप्तो मनोवाक्कायगुप्तिभिः, गुप्तत्वादेव गुप्तानि विषयप्रवृत्तितो रक्षितानि इन्द्रियाणि श्रोत्राऽऽदीनि येन से तथा, तत एव गुप्तं नवगुप्तिसेवनात् ब्रह्मेति ब्रह्मचर्य चरितुम आसेवितुं शीलमस्येति गुप्तब्रह्मचारी सदासर्वकालम् अप्रमत्तः प्रमादविरहितो विहरेत् अप्रतिबद्धविहारितया चरेद्, एतेन संयमबहुलात्वाऽऽदिदशब्रह्मचर्यसमाधिस्थानफलमुक्तमेतद विनाभावित्वात्तस्येति सूत्रार्थः / कयरे खलु थेरेहिं भगवंते हिं दस बंभचेरसमाहिट्ठाणा पण्णत्ता? इमे खलु ते 0 जाव विहरिज्जा / तं जहा-विवित्ताई सयणाऽऽसणाई सेविज्जा से निग्गंथे णो इत्थीपसुपंडगसंसत्ताई सयणाऽऽसणाई से वित्ता हवइ से निग्गंथे, तं कहं इति चेदायरियाऽऽह-निग्गंथस्स खलु इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संकावा कंखा वा वितिगिच्छा वा समुप्पजेजा, भेयं वा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालियं वा रोगायंकं हविज्जा, केवलिपण्णत्ताओ धम्माओ वा भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीपसुपंडगसंसत्ताई सयणसणाई सेवित्ता हवइ से णिग्गंथे / / 2 / / कतराणीत्यादि प्रश्नसूत्रामिमानीत्यादि निर्वचनसूत्रां च प्राग्वत् / तान्येवाऽऽह-(तजहत्यादि) तद्यथेत्युपन्यासे, विविक्तानि स्त्री-पशुपण्डकाऽऽकीर्णत्वविरहितानि शय्यते येषु तानि शयनानि च फलसंस्तारकाऽऽदीनि आस्यते येषु तान्यास नानि च पादपीठपुज्छनाऽऽदीनि शयनाऽऽसनानि, उपलक्षणात्त्वात्स्थानानिच सेवेतमजेत्यः स निर्गन्थः