________________ बंभचेर 1265 - अभिधानराजेन्द्रः - भाग 5 बंभचेर कहेउं नाऽवि य सुमरिलं जे एवं पुव्वरयपुव्वकीलियविरतिसमिइ जोगेण भाविओ भवइ अंतरप्पा आरयमणविरयणामधम्मे जितिंदिए बंभचेरगुत्ते / (8) (चउत्थं ति) चतुर्थ भावनावस्तु यत्कामोदयकारिवस्तुदर्श नभणनस्मरणवर्जनम् / तचैवम्-पूर्वरतं गृहस्थावस्थाभाविनी कामरतिः, पूर्वक्रीडितं गृहस्थावस्थाऽऽश्रयं द्यूताऽऽदिक्रीडम, तथा पूर्वेपूर्वकालभाविनः सग्रन्थाः श्वशुरकुलसंबन्ध सम्बद्धाः शालक-शालिकाऽऽदयः ग्रन्थाश्च शालकाऽऽदिसम्बन्धा स्तद्भार्यास्तत्पुत्राऽऽदयः संश्रुताश्च दर्शनभाषणाऽऽदिभिः परिचिता येते तथा, तत एतेषां द्वन्द्वः। तत एतेन श्रमणेन लभ्याः न द्रष्टुं न कथयितुं नाऽपि स्मुर्तमिति सम्बन्धः। तथा(जे ते त्ति) ये एते वक्ष्यमाणाः केष्वित्याह- (आवाहविवाहचोलएसु य त्ति) आवाहो-वध्वा वरगृहाऽऽ नयनम्, विवाहः पाणिग्रहणम् / चोलकेति-"विहिणा चूलाकम्मं बालाणं चोलयं नाम'' इति वचनाचौलक बालचूडाकर्म, शिखाधारणमित्यर्थः ततस्तेषु. चशब्दः पूर्ववाक्यापेक्षया समुच्चयार्थः, तिथिषु मदनत्रयोदशीप्रभृतिषु, यज्ञेषु नागाऽदिपूजादिषु, उत्सवेषु इन्द्रोत्सवाऽदिषु ये स्त्रीभिः सार्द्ध शयनसम्प्रयोगास्ते न लभ्या द्रष्टुमितियोगः। किंभूताभिः? शृङ्गाररसागारभूताभिः, शोभननेपथ्याभि श्चेत्यर्थः, स्त्रीभिरिति गम्यते। किंभूताभिविभावप्रललिता विक्षेपविलासशालिनीभिः / तत्रा हावाऽऽदिलक्षणम् - "हावो मुखविकारः स्यात्, भावः स्याच्चित्तसम्भवः / विलासो नेवजो ज्ञेयो, विभ्रमो भूयुगान्तयोः // 1 // " अथवा विलासलक्षणमिदम् - "स्थानाऽऽसनगमनाना, हस्तभूनेत्रकर्मणां चैव। उत्पद्यले विशेषो, यः श्लिष्टः स तु विलासः स्यात्॥१॥" प्रललितं ललितमेव / तल्लक्षणं चेदम् - "हस्तपादाङ्ग विन्यासो, भूनेत्रो (त्रौ)ष्ठप्रयोजितः। सुकुमारो विधानेन, ललितं तत्प्रकीर्तितम्॥१।।'' विक्षेपलक्षणं त्विदम् -- "अप्रयत्नेन रचितो, धम्मिल्लश्लथबन्धनः। एकोशदेशधरणै-स्ताम्बूलवलाञ्छनः॥१॥ ललाटोकान्तलिखिता, विषमा पत्रालेखिकाम्। असमन्जसविन्यस्त-मञ्जन नयनाब्जयोः / / 2 / / तथाऽनादरबद्धत्वात्, ग्रन्थिर्जघनबाससः। वसुधालम्बितप्रान्तः, स्कन्धात् स्रस्तं तथांशुकम्।।३।। जघने हारविन्यासो, रसनायास्तथोरसि। इत्यवज्ञाकृतं यत्स्या -दज्ञानादिव मण्डनम् / / 4 / / वितनोति परां शोभां, स विक्षेप इति स्मृतः॥" एभिर्याः शालन्ते शोभन्ते तास्तथा ताभिः अनुकूलम प्रतिकूलं प्रेमप्रीतिर्यासा ता अनुकूलप्रेमिकास्ताभिः (सद्धिं ति) सार्द्ध सह अनुभूता वेदिता शयनानि च स्वापाः सम्प्रयोगाश्च सम्पर्काः शयनसम्प्रयोगाः, कथंभूताः?, क्रुतुसु खानि ऋतुशुभानि वा कालोचितानीत्यर्थः, यानि वरकुसुगानि च सुरभिचन्दनं च सुगन्धयो वरचूर्णरुपा वारसश्च धूपश्च शुभस्पर्शानि वा सुखस्पर्शानि वा वस्त्राणि च भूषणानि चेति द्वन्द्वः तेषां योगुणस्तैरापपेता युक्तास्ते तथा, तथा रमणीयाऽऽतोद्यगेयप्रचुरनटाऽऽदिप्रकरणानि च न लभ्यानि, द्रष्टुमितियोगः / तत्र नटा नाटकानां नाटयितार: नर्तका ये नृत्यन्ति जल्ला वस्त्राखेलका मल्लाः प्रतीताः, मौष्टिका मल्ला एव ये मुष्टिभिः प्रहरन्ति (बेलवग त्ति) विडम्बका विडूषका, कथकाः प्रतीताःप्लवका ये उप्सलवन्ते नद्यादिकं वा तरन्ति, खासका ये रासकान् गत्यन्ति, जयशब्दप्रयोत्कारो भाण्डावा इत्यर्थः / आख्यायका ये शुभाशुमख्यान्ति, ससा महावंशागखेलकाः, मखाश्चिाफलकहस्ताः भिक्षाकाः, 'तूणइल्ला' तूणाभिधानवाद्यविशेषवन्तः, तुम्बवीणिका वीणावादकाः, तालाचराः प्रेक्षाकारिविशेषाः एतेषां द्वन्द्वः, तत एषां यानि प्रकरणानि प्रक्रियास्तानि च तथा बहून्येनकविधान (महुरस्सरगीयसुस्सराई ति) मधुरस्वराणांकलध्वनीना गायकानां यानि गीतानि-गेयानि सुस्वराणि शोभनखड् जादिस्वरविशेषाणि तानितथा। किंबहुना? अन्यानि च उक्तव्यतिरिक्तानि, एवमादिकानि एवंप्रकाराणि तपःसंयमब्रह्मचर्यघातोघातिकानि अनुचरता ब्रह्मचर्य (न) नैव यानि तानि कामोत्कोचकारीणि श्रमणेन संयतेन ब्रह्मचारिणेति० भावः (लब्भ त्ति) लभ्यानि उचितानि द्रष्टुं प्रेक्षितुं न कथयितु नापि च स्मुर्त 'जे' इति निपातः, निगमयन्नाह-एवं पूर्वरत पूर्वक्रीडितविरतिसमितियोगेन भावितो भवत्यन्तरात्मा आरतमनोविरतग्रामधर्मा जितेन्द्रियो ब्रह्मचर्यगुप्त इति। प्रश्न०४ संव० द्वार। अहाचरा पंचमा भावणा-णो णिग्गंथे इत्थीपमुपंडगसंसचाई सयणासणाइं से वित्तइ सिया, के वली ब्याणिग्गंथे णं इत्थीपसुपंडसंसत्ताईसयणासणाई सेवेमाणे संति भेया० जाव भंसेजा णो णिग्गंथे इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवित्तए सिय त्ति पंचमा भावणा / 5 एतावया चउत्थे महव्वए सम्मं कारणं फासेइ० जाव आराहिते यावि भवति, चउत्थं भंते! महव्वयं / आचा०२ श्रु०३ चू०। पंचमगं आहारपणीयनिद्धभोयणविवज्जए संजए सुसाहू ववगयखीरदसहिसप्पिनवणीयतेल्लगुडखंडमच्छंडिय-महुमज्ज मंसखजविगइपरिचत्तकयाहारे न दप्पणं न बहुसो न नितिकं न सायसूपाहिकं न खलु तहा भोत्तव्वं-जहा से जाया मायाए भवइ, न य भवति विब्भमो न भंसणा य धम्मस्स, एवं पणीया हारविरतिसमितिजोगेण भाविओ भवति अंतरप्पा आरयमण विरयगामधम्मे जिइंदिए बंभचेरगुत्ते / (6) पञ्चम भावनावस्तु प्रणीतभोजनवर्जनम् / एतदेवाऽऽह - आहारोऽशनादिः स एव प्रणीतोगलत्स्नेहविन्दुः, स च स्निरधभोजनं चेतिद्वन्द्वः / तस्य विवर्जको यस्स तथा, संयतः संयमवान् सुसाधुः निर्वाणसाधक योगसाधनपरः, व्यपगता अपगता क्षीरदधिसर्पिर्नवनीत - तैलगुड खण्डमत्स्यण्डिका यतः स तथा, मत्स्यण्डिका चेह खण्डशर्करा मधुसद्यमा सखाद्यकलक्षणाभिः विकृतिभिः परित्यक्तो यः स तथा, ततः पदद्वयरु कर्मधारयः, स एवंविधः, कृतो भुक्त आहारो येन स