________________ बंभ 1257 - अभिधानराजेन्द्रः - भाग 5 बंभ राः सञ्जात इत्यादिपुराणप्रसिद्धम् / हा० 1 अष्ट० / अभिजिलक्षणस्य बहा देवता / चं० प्र० 10 पाहु० 12 पाहु० पाहु० / अनु० / ब्रहालोकाऽभिधानपञ्चमदेवलोकस्येन्द्र, स०६० सम०। आव०। स्था०। दो बम्हा। स्था०२ ठा०३ उ०। स०। औ०। जम्बूद्वीपे भारत वर्षेऽस्यामवसर्पिण्यां जाते द्वितीयबलदेव-वासुदेवमातरि, स० / स्था० / आव०। दशाश्रुतस्कन्धस्य जनहितानाम्नीवृत्तैः कारके स्वनामख्याते सूरौ, दशा० 1 अ०। अहोरात्रस्य नवमे मुहूर्ते. चं० प्र० 10 पाहु०। स०। कल्पाद्वा० 1 मैथुनविरतौ, जं०२ वक्ष०। स०। उत्त० / कुशलानुष्ठाने, “ब्रह्म तत्वं तपो ज्ञानं, ब्रहा विप्रः प्रजापतिः।" आव०६ अ०। ब्रह्मनिक्षेपः-- बंभम्मी य चउकं, ठवणाए होइ बंभणुप्पत्ती। सत्तण्हं बण्णाणं, नवण्ह वण्णंतराणं च / / 18 // तत्रा ब्रह्म नामाऽऽदि (भेदाद) चतुर्दा, ता नामब्रह्म-ब्रह्येत्यभिधानम्, असद्भावस्थापना अक्षाऽऽदौ, सद्भावस्थापना प्रतिविशिष्ट्यज्ञोपवीताऽऽद्याकृतिमृल्लेप्याऽऽदौ द्रव्ये, अथवा-स्थापनायां व्याभृयायमानायां ब्राहाणोत्पत्तिर्वक्तव्या, तत्प्रसङ्गेनचसप्तानां वर्णानां नवानाच वर्णान्तराणामुत्पत्ति भणनीयेति। यथाप्रतिज्ञातमाह - एका मणुस्सजाई, रजुप्पत्तीइ दो कया उसभे। तिपणेव सिप्पवणिए, सावगधम्मम्मि चत्तारि।।१६।। यावन्नाभेयो भगवान्नाद्यापि राजलक्ष्मीमध्यास्ते, तावदेकैव मनुष्यजातिः, तस्यैव राज्योत्पत्तौ भगवन्तमेवाऽऽश्रित्यये स्थितास्ते क्षत्रियाः, शेषाश्च शोचनाद्रोदनाच शूद्राः, पुनरनयु त्पत्तावयस्काराऽऽदिशिल्प - वाणिज्यवृत्या वेशनाद्वैश्याः, भगवतो ज्ञानोत्पत्तौ भरतकाक (कि) णीलाञ्छनाच्छावका एव ब्राह्मणा जज्ञिरे, एते शुद्धास्त्रयश्चान्ये गाथान्तरितगाथया प्रदर्शयिष्यन्ते। साम्प्रतं वर्णवर्णान्तरनिष्पन्नं संख्यानमाहसंजोगे सोलसर्ग, सत्त य वण्णा उनव य अंतरिणो। एए दो वि विगप्पा, ठवणा बंभस्स णायव्वा / / 20 / / संयोगेन षोडश वर्णाः समुत्पन्नाः, ता सप्त वर्णा नवतु वर्णान्तराणि, एतच वर्णवर्णान्तरविकल्पद्वयं स्थापनाब्रोति ज्ञातव्यम्। साम्प्रत पूर्वसूचितं वर्णत्रयमाह / यदि वा-प्रागुद्दिष्टान् सप्त वर्णानाहपगई चउक्कगाणंतरे य ते हुंति सत्त वण्णा उ। आणंतरेसु चरमो, वण्णो खलु होइ णायव्वो / / 21 / / प्रकृतयश्चतसः ब्राह्मणक्षत्रियवैश्यशूद्राऽऽख्या आसमिव चतसृणा मनन्तरयोगेन प्रत्येकं वर्णत्रायोत्पत्तिः / तद्यथा-द्विजेन क्षत्रिययोषितो जातः प्रधानक्षत्रियः सङ्करक्षत्रियो वा। एवं क्षत्रियेण वैश्ययोषितो वैश्येन शुद्रयाः प्रधानसङ्करभेदो वक्तव्यावित्येवं सप्त वर्णा भवन्ति, अनन्तरेषु भवा आनन्तरास्तेषु योगेषु चरमवर्णव्यपदेशो भवति ब्राह्मणेन क्षत्रियायाः क्षत्रियो भवतीत्यादि, सच स्वस्थाने प्रधानो भवतीति भावः। इदानीं वर्णान्तराणां नवानां नामान्याह - अंबटुग्गनिसाया, य अजोगवं मामहा य सूया य। खत्ता य विदेहा वि य, चंडाला नवमगा हुंति / / 22 // अम्बष्ठः 1, उग्रः 2, निषादः 3, अयोगवं 4, मागधः 5, सूतः 6, क्षत्ता 7, विदेहः 8, चाण्डालश्चेति / / कथमेते भवन्तीत्याहएगंतरिए इणमो, अंबट्ठो चेव होइ उग्गो य। बिइयंतरिअ निसाओ, परासरं तं च पुण वेगे // 23 // पडिलोमे सुद्दाई, अजोगवं मागहो य सूओ अ। एगंतरिए खत्ता, वेदेहा चेव नायव्वा / / 24 / / वितियंतरेय नियमा, चंडालो सोऽवि होइ णायव्वो। अणुलोमे पडिलोमे, एवं एए भवे भेया // 25 / / आसामर्थो यन्त्रकादवसेयः। तचेदम्ब्रह्मपुरुषः वैश्या स्त्री अम्बष्ठः / क्षत्रियः पुरुषः शूद्री स्त्री उग्रः / ब्राह्मणः पुरुषः शूद्री स्त्री निषादः, पारासरो वा। शूद्रः पुरुषः वैश्या स्त्री अयोगवम्। वैश्यपुरुषः क्षत्रिया स्त्री मागधः / क्षत्रियः पुरुषः ब्रहास्त्री सूतः। शूद्रः पुरुषः क्षत्रिया स्त्री क्षप्ता। वैश्यपुरुषः ब्राह्मस्त्री वैदेहः 1शूद्रपुरुषः बाह्यस्वीचाण्डालः। एताति नव वर्णान्तराणि / इदानी वर्णान्तराणां संयोगोत्पत्तिमाह - उग्गेणं खत्ताए, सोवागो बेणवो बिदेहेणं। अंबट्ठीए सुद्दीऍ, चुक्कसो जो निसाएणं / / 26 / / सूएण निसाईए, कुक्करओ सो वि होइ णायव्यो। एसो बीओ मेओ, चउव्विहो होइ णायव्वो॥२७॥ अनयोरप्यर्थो यन्त्रकादवसेयः तचेदम्-उग्रपुरुषः क्षत्ता स्त्री श्वपाकः / विदेहः पुरुषः क्षत्ता स्त्री वैणवः / निषादः पुरुषः अम्बष्ठी स्त्री, शूद्री स्त्री वा वुकसः। शूद्रः पुरुषः निषादस्त्री कुक्कुरकः / गतं स्थापनाब्रह्म। इदानीं द्रव्यब्रह्मप्रतिपादनायाऽऽह - दव्वं सरीरभविओ, अन्नाणी वत्थिसंजमो चेव। भावे उ वत्थिसंजम, णायव्वो संजमो चेव / / 28 / / ज्ञशरीरभव्यशरीव्यतिरिक्तं शाक्यपरिव्राजकाऽऽदीनामज्ञा नानुगतचेतसा वस्तिनिरोधमात्र विधवाप्रोषितभर्तृकाऽऽदीनां च कुलव्यवस्थाऽर्थ कारितानुमतियुक्त द्रव्यबह्म, भावब्रह्म तु साधूनां वस्तिसंयमः अष्टादशभेदरूपोऽप्ययं संयम एव, सप्तदशविध-संयमाभिन्नरूपात्वादस्येति / अष्टादश भेदास्त्वमी-"दिव्यात्कामरतिसुखात्, त्रिविध त्रिविधेन विरतिरिति नवकम्। औदारिकादपि तथा, तद् ब्रह्माऽष्टादशविकल्पम् / / 1 // " चरणनिक्षेपार्थमाहचरणम्मि होइ छक्कं गमाहारो गुणो व चरणं च। खित्तम्मि जम्मि खित्ते, काले कालो जहिं जो उ / / 29 / / चरणं नामाऽऽदि षोढा व्यतिरिक्त द्रव्यचरणं त्रिधा भवति, गतिभक्षणगुणभेदात्, तत्रा गतिचरणं गमनमेव, आहारचरणं मोदकाऽऽदे: गुणचरणं द्विधा-लौकिकं , लोकोत्तरं च