________________ बंधणुम्मुक्क 1240 - अभिधानराजेन्द्रः - भाग 5 बंधमोक्खसिद्धि बंधणुम्मुक्क त्रि० (बन्धनोन्मुक्त) स्नेहाऽऽत्मकेन कर्माऽऽत्मकेन वा / बन्धनेन प्राबल्येन मुक्ते, सूत्रा० 1 श्रु०३ अ० 4 उ०। बंधणोवक्कम पुं० (बन्धनोपक्रम) बन्धन कर्मपुद्रलानां जीवप्रदेशानां च परस्परं सम्बन्धनमिदं च सूत्रमात्रबदलोहश लाकासंबन्धोपममवगन्तव्यं तस्योपक्रम उक्तार्यो बन्धनोपक्रमः। आसकलितावस्थस्य वा कर्मणो बद्धावस्थीकरण संबन्धनम् / तदेवोपक्रमो वस्तुपरिकर्मरुपो बन्धनोपक्रमः। उपक्रमभेदे, स्था०। बंधणोवक्कमे चउव्दिहे पण्णत्ते / तं जहा-पगइबंधणोवक्कमे, ठिइ बंधणोवक्कमे, अणुभावबंधणोवक्कमे, पएसबंधणोवक्कमे / / बन्धनोपक्रमो-बन्धनकरणं चतुर्दा, ता प्रकृतिबन्धन स्योपक्रमा जीवपरिणामो योगरुपस्तस्य प्रकृतिबन्धहेतुत्वादिति। स्थितिबन्धनस्याऽपि स एव, नवर कषायरुपः स्थितेः कषायहेतु कत्वादिति। अनुभागबन्धनोपक्रमोऽपि परिणाम एव, नवरं कषायरुपः, प्रदेशबन्धनोपक्रमस्तु स एव योगरुप इति / यत उक्तम् - "जोगा पयडिपएस, ठिइअणुभागं कसायओ कुणइ / " इति / प्रकृत्यादिबन्धनानामान्तर्माहूर्तानान्तः कोटीकोटी रुपाऽऽरम्भा वा उपक्रमा इति। स्था० 4 ठा०२ उ०। बंधदसा स्वी० (बन्धदशा) दशाध्ययनप्रतिबद्धे श्रुतभेदे, स्था०। बंधदसाणं दस अज्झयणा पण्णत्ता / तं जहा-"बंधे मुक्खे य देवड्डी, दसारे मंडले इय" / आयरियविप्पडिवत्ती उवज्झाय विप्पडिवत्ती भावणा विमुत्ती सातोकम्मे। बन्धदशानामपि बन्धाऽऽद्यध्ययनानि श्रौतेनार्थेन व्याख्या तव्यानि। स्था०१० ठा०1 बंधपय न० (बन्धपद) देहिनां कुवासनाहेतुत्वात्परसभय पदे प्रकृतिस्थि त्यनुभागप्रदेशलक्षणभेदभिन्नस्य प्रतिपादके, अनु० / बंधप्पमोक्ख पुं० (बन्धप्रमोक्ष) बन्धात्सकाशादात्मनः पृथग् बन्धने, आचा०१ श्रु०५ अ०२ उ०। बंधभेय पुं०(बंधभेद) मूलप्रकृतिबन्धरुपस्याष्टविधस्योत्तर प्रकृतिबन्ध स्वभावस्य च सप्तनवतिप्रमाणस्य प्रज्ञापने, ध०१ अधि०। बंधमोक्खसिद्धि स्त्री० (बन्धमोक्षसिद्धि) बन्धमोक्षसिद्धी, विशे०। मण्डिकगणधरवक्तव्यताकिं मन्ने बंधमोक्खा, संति न संति त्ति संसओ तुज्झ। वेयपयाण य अत्थं, न याणसी तेसिमो अत्थो।।१८६४॥ मण्डिक! त्वमित्थं मन्यसे-किं बन्ध मौक्षौ स्तो, न वा? इति / अयं | चानुचितस्तव संशयः, विरुद्धवेदपदश्रुतिनि बन्धनन्वात्। तथाहि-"स एव विगुणो विभुर्न बध्यते संसरतिवा० न मुच्यते मोचयति वा, न वा एष बाह्यमभ्यन्तरवा वेदा' इत्यादीनि वेदपदानि; तथा-"नह वैसशरीरस्य प्रियाऽप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाऽप्रियेन स्पृशतः।" इत्यादीनि च / एतेषां चार्थ त्वं न जानासि, यतोऽयमेतदर्थस्तव चेतसि वर्त्तते, तद्यथा-स एषः-अधिकृतो जन्तुः, विगुणः-सत्व-रजस्- | तमोगुण-रहितः, विभुः-सर्वगतः, न बध्यते-पुण्य-पापाभ्यां न युज्यत इत्यर्थः, संसरति वा 'न' इत्यनुवर्तते. न मुच्यते--न कर्मणा वियुज्यते, बन्धस्यैवाऽभावात्, मोचयति वा नान्यम्, इत्यनेनाऽकर्तृकस्व माहनवा एष बाह्यम् आत्मभिन्न महदहङ्काराऽऽदि, अभ्यन्तरं निजस्वरुपमेव, वेदविजानाति, प्रकृतिधर्मत्वाज्झानस्य, प्रकृतेचाचेतनत्वात्। ततःच्चामूनि किल बन्धमोक्षाऽभावप्रति पादकानि। तथा 'न ह वै-नैवेत्यर्थः, सशरीरस्य प्रियाऽप्रिय योरपहतिस्तीतिबाह्याऽऽध्यात्मिक नादिशरीरसन्तान युक्तत्वात् सुख-दुःखयोरपहतिः संसारिणोनास्तीत्यर्थः, अशरीरंवा वसन्तम्-अमूर्त्तमित्यर्थः, प्रियाऽप्रिये नस्पृशतः, तत्कारणभूतस्य कर्मणोऽभावादिस्वर्थः / अमूनि च बन्धमोक्षा ऽभिधायकानीति। अतः संशयः / तत्र "स एष विगुणो विभुः" इत्यादीनां नायमर्थः, किन्त्वयं वक्ष्यमाणलक्षण इति // 1803 / / अाभाष्यम् - तं मन्नसि जइ बंधो, जोगो जीवस्स कम्मुणा समयं / पुव्वं पच्छा जीवो, कम्मं व समं वं ते होजा? ||1805 / / "वेयपयाण य'' इत्यत्र चशब्दाद् युक्तिं च त्वं न जानासि / कुतः? यस्मादायुष्मन्! मण्डिक! त्वमेवं मन्यसे-जीवस्य बन्धो यदि कर्मणा समक-सार्ध योगः-संयोगोऽभिप्रेतः सखल्वादिमान्, आदिरहितोवा? यद्यादिमान्, ततः कि पूर्व जीवः प्रसूयेत पश्चात् कर्म, पूर्व वा कर्म पञ्चाजीवः प्रसूयते, समं वा युगपद वा तौ द्वावपि प्रसूर्ययाताम्? इति पक्षायमिति // 1805|| अत्राऽऽद्यपक्षस्य दूषणमाहन हि पुव्वमहेऊओ, खरसंगं वाऽऽयसंभवो जत्तो। निकारणजायस्स य, निकारणउ चिय विणासो।।१८०६।। 'पूर्व जीवः पश्चात्कर्म' इत्येतदयुक्तम्, यतो न कर्मणः पूर्व (खरसंग वायसंभवो जुत्तो) खरशृङ्गस्येवाऽऽत्मनः सम्भवो युक्तः, अहेतुकत्वात्, इह यदहेतुक तद्न जायते, यथाखरशृङ्गम्, यच जायते तद् निर्हेतुकमपि न भवति, यथा घटः, निष्कारणस्य च जातस्य निष्कारण एव विनाशः स्यादिति // 1806 // अमुमेव विकल्पं दूषयितुमाहअहवाऽणाइ च्चिय सो, निक्कारणओ न कम्मजोगो से। अह निकारणओ सो, मुक्तास्स वि होहिइस भुञ्जो॥१८०७।। अथ चेत् कर्मणः पूर्वमात्माऽनादिकालसिद्ध एव, इति किं तस्य सहेतुक-निर्हेतुकचिन्तया? इति। अत्रोच्यते-(निक्कारणओ इत्यादि) यद्येवम्, ततः (से) तस्य जीवस्य कर्मयोगः कर्मबन्धो न प्राप्नोति, अकारणत्वात, नभस इव। अथ निष्कारणोऽप्यसो भवति, तर्हि मुक्त, स्याऽपि भूयः स भविष्यति, निष्कारणत्वा ऽविशेषात्, ततश्च मुक्तावप्यनाश्वास इति / / 1807 // यदिवाहोज स निचं मुक्को, बंधाभावम्मि को ब से मोक्खो?