________________ बंधण 1227 - अभिधानराजेन्द्रः - भाग 5 बंधण शशतान्यष्टादशस्यापि क्षुल्लकभवग्रहणस्य तत्रा भवन्तीति, तत्र यः पृथिवीकायिकरित्रसमयेन विग्रहेणाऽऽगतः स तृतीयसमये सर्वबन्धकः शेषेषु देशबन्धको भूत्वा आक्षुल्लकभवग्रहणं मृतोः, मृतश्च सन्नविग्रहेणाऽऽगतो यदा सर्वबन्धक एव भवतीति, एवं च येते विग्रहसमयास्रयस्तैरुन क्षुल्लकभवग्रहणमित्युच्यते / (उकोसेणं वावीसमित्यादि) भावितमेवेति / (देसबंधो जेसिं नत्थीत्यादि) अयमर्थः-अप्तेजोवनस्पतिद्वित्रिचतुरिन्द्रियाणां क्षुल्लक भवग्रहणं त्रिसमयोनं जघन्यतो देशबन्धो यतस्तेषा वैक्रिय शरीरं नास्ति, वैक्रियशरीरे हि सत्येकसमयो जघन्यत औदारिकदेशबन्धः पूर्वोक्तयुक्त्या स्यादिति। (उक्कोसेणं जाजस्सेत्यादि) तत्राऽयं वर्षसहस्राणि सप्तोत्कर्षतः स्थितिः, तेजसामहोरात्राणि त्रीणि, वनस्पतीनां वर्षसहस्राणि दशद्वीन्द्रियाणां द्वादशवर्षाणि, त्रीन्द्रियाणामेकोनपञ्चाशदहोरात्राणि, चतुरिन्द्रियाणां षण्मासास्तत एषां सर्वबन्धसमयोना उत्कृष्टतो देशबन्धस्थिति भवतीति। (जेसिं पुणेत्यादि)।तेच वायवः पञ्चेन्द्रियतिर्यचो मनुष्याश्च, एषां जघन्येन देशबन्ध एकं समय, भावना च प्रागिव। (उक्कोसेणमित्यादि) तत्र वायूनां त्रीणि, वर्षसहस्राणि उत्कर्षतः, स्थिति, पञ्चेन्द्रियतिरश्चां मनुष्याणां च पल्योपमत्रयमिय चस्थितिः सर्वबन्धसमयोना उत्कर्षतो देशबन्धस्थितिरेषां भवतीति। अतिदेशतो मनुष्याणां देशबन्धस्थितौ लब्धायामप्यन्तिमसूत्रत्वेन साक्षादेव तेषां तामाह-(जावमणुस्साणमित्यादि) उक्त औदारिकशरीरप्रयोग बन्धस्यकालः। अथ तस्यैवाऽन्तरं निरुयन्नाह - ओरालियसरीरप्पओगबंधंतरे णं भंते! कालओ के वचिरं होइ? गोयमा! सव्वबंधंतरं जहण्णेणं उक्कोसेणं खुड्डागभवग्गहणं तिसमयऊणं उक्कोसेणं तेत्तीसं सागरोवमाई ठिई पुव्यकोडिसमयाहियाइं देसबंधतरं जहण्णेणं एवं समयं, उन्कोसेणं तेत्तीसं सागरोवमाइं तिसमयाहियाइं। (ओरालिय इत्यादि) सर्वबन्धान्तरं जघन्यतः क्षुल्लकभवग्रहणं त्रिसमयोनं कथं त्रिसमयविग्रहेणौदारिकश रीरिष्वागतस्तत्राद्वौ समयौ अनाहारकस्तृतीयसमये सर्वबन्धकः क्षुल्लकभवं च स्थित्वा मृत औदारिकशरीरिष्वेवोत्पन्नस्तत्राच प्रथमसमये सर्वबन्धकएवं सर्वबन्धस्य सर्वबन्धस्य चान्तर क्षुल्लकभवो विग्रहगति-समयायोनः (उक्कोसेणमित्यादि) उत्कृष्टतस्त्रयस्त्रिंशत्सागरोपमाणि पूर्वकोटिसमयाभ्यधिकानि सर्वबन्धान्तरं भवतीति, कथं मनुष्याऽऽदिष्वविग्रहेणाऽऽगतस्तत्र च प्रथमसमय एव सर्वबन्धको भूत्वा पूर्वकोटिं च स्थित्वा त्रयस्त्रिंशत्सागरोपम स्थिति रकः सर्वार्थसिंद्धको वा भूत्वा त्रिसमयेन विग्रहेणौदा रिकशरीरी सम्पन्नस्तत्र च विग्रहस्य द्वौ समयावनाहारक स्तृतीये च समये सर्वबन्धकयोः औदारिकशरीरस्यैव च यौ तौ द्वावनाहारकसमययोरेकः पूर्वकोटीसर्वबन्धसमयस्थाने क्षिप्तस्ततश्च पूर्णा पूर्वकोटी | जातैकश्च समयोऽतिरिक्त एवं च, सर्वबन्धस्य सर्वबन्धस्य चोत्कृष्टमन्तर यथोक्तमानं भवतीति। (देसबंधंतरमित्यादि) देशबन्धान्तरंजघन्येनैकं समय, कथं देशबन्धको मृतः सन्नविग्रहेणौवोत्पन्नस्ताचप्रथम एव समये सर्वबन्धको द्वितीयाऽऽदिषु च समयेषु देशबन्धकः सम्पन्नस्तदेवं देशबन्धस्य देशबन्धस्य चान्तरं जघन्यत एकः समयः सर्वबन्धसंबन्धीति। (उक्कोसेणमित्यादि) उत्कृष्टत स्त्रयस्त्रिंशत्सागरोपमाणि त्रिसमयाधिकानि देशबन्धस्य देशबन्धस्यान्तरं भवति, कथं देशबन्धको मृत उत्पन्नश्च त्रयस्त्रिंशत्सागरोपमाऽऽयुः सर्वार्थसिद्धादौ, ततश्चच्युत्वा त्रिसमयेन विग्रहेणौदारिकशरीर सम्पन्नस्तत्रा च विग्रहस्य समयद्वयेऽनाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशबन्धकोऽजनि, एवं चोत्कृष्टमन्तराल देशबन्धस्य देशबन्धस्य च यथोक्तं भवतीति। एगिदियओरालियपुच्छा? गोयमा! सव्वबंधंतरं जहण्णेणं खुड्डागं भवग्गहणं तिसमयऊणं उकोसेणं वावीसं वाससहस्साई समयाहियाई देसबधंतरं, जहण्णेणं एक समयं उक्कोसेणं अंतोमुहुत्तं / (एगिदिएत्यादि) एकेन्द्रियस्यौदारिकसर्वबन्धान्तरंजघन्यतः क्षुल्लकभवग्रहणं त्रिसमयोनं, कथं त्रिसमयेन विग्रहेण पृथिव्यादिष्वागतस्तत्रा च विग्रहस्य समयद्वय मनाहारकस्तृतीये च समये सर्वबन्धकस्ततः क्षुल्लकं भवग्रहणं त्रिसमयानं स्थित्वा मृत्वा अविग्रहेण च यदोत्पद्य सर्वबन्धक एव भवति तदा सर्वबन्धयोर्य थोक्तमन्तरं भवतीति / (उक्कोसेणमित्यादि) उत्कृष्टतः सर्वबन्धान्तरं द्वाविंशतिवर्षसहस्राणि समयाऽधिकानि भवन्ति, कथमविग्रहेण पृथिवीकायिकेष्वागतः प्रथम एव च समये सर्वबन्धकस्ततो द्वाविंशतिवर्षसहस्राणि स्थित्वा समयोनानि विग्रहगत्या त्रिसमययाऽन्येषु पृथिव्यादिषूत्पन्नस्ताच समयद्वयमनाहारको भूत्वा तृतीयसमये सर्वबन्धकः सम्पन्नोऽनाहारकसमययोश्चैको द्वाविंशतिवर्षसहस्रेषु समयोनेषु क्षिप्तस्ततपूरणार्थ ततश्च द्वाविंशतिवर्षसहस्राणि समयश्चैक एकेन्द्रियाणां सर्वबन्धयोरुत्कृष्टमनन्तरं भवतीति-(देसबंधंतरमित्यादि) तोकेन्द्रियौदारिकदेशबन्धान्तरं जघन्येनैक समयं कथं देशबन्धको मृतः सन्नविग्रहेण सर्वबन्धको भूत्वा एकस्मिन् समये पुनर्देशबन्धक एवजात एवं च देशबन्धयोर्जघन्यत एकः समयोऽनन्तरं भवतीति। (उक्कोसेणं अंतोमुहत्तं ति) कथं वायुरौदारिकशरीरस्य देशबन्धकः सन् वैक्रिय गतस्ततश्चान्तर्मुहूर्ते स्थित्वा पुनरौदारिकशरीरस्य सर्वबन्धको भूत्वा देशबन्धक एव जातः, एवं च देशबन्धयोरुत्कर्षतोऽन्तर्मुहूर्तमन्तरमिति। पुढवीकाइयएगिं दियपुच्छा? सवबंधं तरं जहे व एगिदियस्स तहेव भाणियव्वं, देसबंधंतरं जहण्णेणं एक समयं, उक्कोसेणं तिण्णि समया जहा पुढवीकाइयाणं एवं० जाव चउरिंदियाणं वाउकायवजाणं, णवरं सव्वबंधंतरं उक्कोसेणं जा जस्स ठिई सा समयाहिया कायव्वा, वाउका