________________ बंधण 1166 - अभिधानराजेन्द्रः - भाग 5 बंधण आवरणाण चउद्धा, तिहा य अह पंचहा विग्घे // 25 // (जति) यत्-कर्मदलिकं सर्वघातिप्राप्त केवलज्ञानाऽ ऽवरणीयाऽऽदिरुपसर्वघातिप्रकृतिषु गतं तत् स्वकर्मप्रदेशानाम नन्ततमो भागः स्वकीयाया ज्ञानाऽऽवरणाऽऽदिरुपाया मूल प्रकृतयों मौलो भागस्तस्यानन्तमो भाग इत्यर्थः / काऽत्रयुक्तिरिति चेदुच्यते-इहाष्टानामपि मूलप्रकृतीनां प्रत्येक ये स्निग्धतराः परमाणवस्ते स्तोकाः ते च स्वस्वमूलप्रकृति परमाणूनामनन्ततमो भागः। तएव च सर्वघाति प्रकृतियोग्या इति यत्सर्वघातिप्राप्तं तत् स्वस्वमूलप्रकृतिप्रदेशानामन्ततमो भागः। तस्मिंश्चानन्ततमे भागेऽपसारिते शेष यद्दलिकं तत्सर्वघातिप्रकृतिव्यतिरित्केभ्यः तत्कालबध्य मानेभ्यः स्वस्वमूलप्रकृत्यवान्तरभेदेभ्यो विभज्य विभज्य दीयते। तथाहि-(आवरणेत्यादि) आवरण्योः -ज्ञानाऽऽवरणदर्शनाऽऽ वरणयोः प्रत्येक सर्वघातिप्रकृतिनिमित्तमन्ततमे भागेऽपसारिते सति शेषस्य दलिकस्य यथाक्रमं चतुर्धा त्रिधा च विभागः क्रियते, कृत्वा च शेषदेशघातिप्रकृतिभ्यो दीयते / तथा विघ्नान्तराये यो मूलभागः स समग्रोऽपि पञ्चधा कृत्वा दानान्तरायाऽऽदिभ्यो दीयते। इयमत्रा भावनाज्ञानाऽऽवरणीयस्य स्थित्यनुसारेण यो मूलभाग आभजति, तस्या ऽनन्ततमो भागः केवलज्ञाना ऽऽवरणाय दीयते। शेषस्य चत्वारो भागाः क्रियन्ते ते च मतिज्ञानाऽऽवरणश्रुतज्ञानाऽऽवरणाऽवधि ज्ञानाऽऽवरणमनः, पर्यवज्ञानाऽऽवरणेभ्यो दीयन्ते / दर्शनाऽऽवरणीयस्याऽपि यो मूलभाग आभजित तस्याऽनन्ततमं भागं षोढा कृत्वा निद्रापञ्चककेवलदर्शनाऽऽवरणाभ्यां सर्व घातिभ्यां प्रयच्छति (जीवः)। शेषस्य च त्रायो भागाः क्रियन्ते, तेच चक्षुर चक्षुरवधिदर्शनाऽऽवरणेभ्यो दीयन्ते। अन्तरायस्य पुनर्यो मूलभाग आभजति समग्रोऽपि सर्वघात्यवान्तरभेदाऽभवात् पञ्चधा कृत्वा दानाऽन्तरायाऽऽदिभ्यो दीयते / / 25 / / मोहे दुहा चउद्धा, य पंचहा वा वि वज्झमाणीणं / वेयणियाउयगोए-सु वज्झमाणीण भागो सिं॥२६|| (मोहे त्ति) मोहे-मोहनीये स्थित्यनुसारेण यो मूलभाग आभजति तस्याऽनन्ततमो भागः सर्वघातिप्रकृतियोग्यो द्विधा क्रियते, अर्धे दर्शनमोहनीयस्य, अर्ध चारित्रामोह नीयस्य। तत्राऽर्धदर्शनमोहनीयस्य सत्कं समग्रमपि मिथ्यात्वमोहनी यस्य ढोकते / चारित्रामोहनीयस्य तु सत्कमर्ध द्वादशधा क्रियते तेच द्वादशभागा आद्येभ्यो द्वादशकषायेभ्यो दीयन्ते / सम्प्रति शेषदलिकभागविधिरुच्यते (मोहे दुहेत्यादि) शेषस्य च मूलभागस्य द्वौ भागौ क्रियते एकः कषायमोहनीयस्य, अपरो नोकषायमोहनीयस्य / तत्रा कषायमोहनीयस्य भागः पुनश्चतुर्धा क्रियते, ते च चत्वारोऽपि भागाः संज्वलनक्रोधाऽऽदिभ्यो दीयन्ते नोकषायमोहनीयस्य तु भागः पञ्चधा क्रियते, ते च पञ्चाऽपि भागा यथाक्रमं त्रयाणा वेदानामन्यतमस्मै वेदाय बध्यमानाय हास्यरतियुगलाऽरतिशोकयुगलयोरन्यतरस्मै युगलायभयजुगुप्साभ्यां च यन्ते / नाऽन्येभ्यः, बन्धाऽभावात् / न हि नवाऽपि नोकषाया युग द्वन्धमायान्ति, किं तु | यथोक्ताः पञ्चैव / तथा वेदनीयाऽऽयुर्गोत्रोषु यो मूलभाग आभजित स / एतेषामेव एकैकस्याः प्रकृतैर्बध्यमनाया ढौकते, द्विप्रभृतीनाममीषां / युगपदबन्धाऽभावात् // 26 // पिंडपगईसु वज्झं-तिगाण वण्णरसगंधफासाणं / सव्वासिं संघाए, तणुम्मिय तिमे चउक्के वा / / 27 / / (पिंड त्ति) पिण्डप्रकृतयो-नामप्रकृतयः। यदाह चूर्णिकृत- "पिंडएगईओ नामपगईओ त्ति।'' तासु मध्ये बध्यमामानामन्य तमनतिजातिशरीरबन्धनसंघातनसंस्थानाङ्गोपाङ्गानुपूर्वीणां वर्णगन्धरसस्पर्शागुरुलधूपघातपराघातोच्छवासनिर्माण तीर्थकराणामातपोद्द्योतप्रशस्ताऽऽप्रशस्तविहायोगातित्रसस्था वरबादरसूक्ष्मपर्याप्ताऽपर्याप्त - प्रत्येकसाधारणस्थिराऽस्थिरशुभा ऽशुभसुस्वरदुःस्वरसुभगदुर्भगाऽऽदेयाऽनादेययशः कीर्व्ययशः कीर्त्यन्यतराणां च मूलभागो विभज्य समर्पणीयः / अौव विशेषमाह-(वण्णेत्यादि) वर्णरसगन्धस्पर्शाना प्रत्येकं यद्भागलब्ध दलिकमायाति तत्सर्वेभ्यस्तेषामवान्तरभेदेभ्यो विभज्य विभज्य दीयते। तथाहि-वर्णनाम्नो यद्भागलब्ध दलिकं तत्पञ्चधा कृत्वा शुक्लाऽऽदिभ्योऽवान्तर भेदेभ्योविभज्य प्रदीयते। एवं गन्धरसस्पर्शानामपि यस्य यावन्तो भेदास्तस्य संबन्धिनो भागस्य तति भागाः कृत्वा तावद्भयोऽवान्तर भेदेभ्यो दातव्याः। तथा संघाते तनौ च प्रत्येक यद्भागलब्धं दलिकमायाति तत्रिधा चतुर्धा वा कृत्वा त्रिभ्यश्चतुभ्यो वा दीयते। तत्रौदारिकतैजसकार्मणानि वैक्रियतैजसकार्मणानि वा श्रीणि शरीराणि संघातानि वा युगपद बध्नता शिधा क्रियते, वैक्रियाऽऽहारकतैजसकार्मणरुपाणि चत्वारि शरीराणि संघातानि वा बध्नता चतुर्धा क्रियते // 27 // सत्तेक्कारविगप्पा, बंधणनामाण मूलपगईणं। उत्तरसगपगईण य, अप्पबहुत्ता विसेसो सिं||२८|| (सत्ते त्ति) बन्धननाम्नां भागलब्धं यद्दलिकमायाति तस्य विकल्पाः सप्त भेदा एकादश का विकल्पाः क्रियन्ते। तत्रौदारिकौदारिक 1 औदारिकतैजस 2 औदारिकार्मण 3 औदारिक तैजसकार्मण 4 तैजसतैजस 5 तेजकार्मण 6 कार्मणकार्मण ७रुपाणि वैक्रियचतुष्कतैजसत्रिकरुपाणि वा सप्त बन्धनानि बध्नता सप्त वैक्रियचतुष्काऽऽहारकचतुष्कतैजसत्रिक लक्षणान्येकादश बन्धनानि बध्नता एकादश। अवशेषाणां च प्रकृतीनां यद्भागलब्धं दलिकमायाति, तन्न भूयो विभज्यते,तासां युगपदवान्तरद्वित्र्यादि भेदबन्धाऽभावात् / तेन तासां तदेव परिपूर्ण दलिकं भवति / इहैकाध्यवसायगृहीतस्य कर्मदलिकस्य परमाणवो विभागशः कृत्वा मूलप्रकृतिभ्य उत्तरप्रकृतिभ्यश्च दत्ताः। तत्रनज्ञायतेजघन्यपदे उत्कृष्ट - पदे उत्कृष्टपदे वा कस्याः कियान् भागस्ततो विशेषपरिज्ञानार्थमाह - (मूलपगईत्यादि) आसांमूलप्रकृतीनामुत्तरस्वप्रकृतीनां च परस्पर भागस्य विशेषो ऽल्पयबहुत्वात शास्त्रान्तरोक्तात् द्रष्टवयः। तत्रा मूलप्रकृतीना मल्पबहुत्वं दर्श्यत इह कर्मणां स्थित्यनुसारतो भाग आभजति, यस्य बृहती स्थितिस्तस्य बृहद्भागः, यस्य स्तोका तस्य स्तोक इति / तत्राऽऽयुषो भागः सर्वस्तोकाः / तस्य सर्वस्याऽ (सर्वेभ्योऽ) प्यन्येभ्यः स्तोकस्थितिकत्यात्। तत्स्थितेरुत्कर्षतोऽपि त्रायस्त्रिंशत्सागरोपमप्रमाणत्वात्। ततो नामगोत्रायोर्भागो वृहत्तरः। तयोः स्थितेर्विशु