________________ बंध 1184 - अमिधानराजेन्द्रः - भाग 5 बंध वि चत्तारि भंगा, णवरं कण्इपक्खियपढमततियभंगा। तेउलेस्से पुच्छा? गोयमा ! बंधी, ण बंधइ, बंधिस्सइ / सेसेसु सव्वत्थ / चत्तारि भंगा, एवं आउक्काइयवणस्सइकाइयाणवि णिरवसेसं ते उक्काइयवाउकाइयाणं सव्वत्थ वि पढमततिया भंगा बेइंदियतेइदियचउरिदियाणं पिसव्वत्थ वि पढमततिया भंगा, णवरं सम्मत्ते आभिणिबोहियणाणे सुयणाणे ततिओ भंगो।। पंचिदियतिरिक्खजोणियाणं कण्हपक्खिए पडमततिया भंगा, सम्मामिच्छत्ते ततियचउत्थो भंगो, सम्मत्ते ण्णाणे आभिणिबोहियणाणे सुअणाणे ओहिणाणे, एएसु पंचसु बितियविहूणा भंगा, सेसेसु चत्तारि भंगा! मणुस्साणं जहाजीवाणं, णवरं सम्मत्ते ओहियणाणे सुयणाणे ओहियणाणे एएसु बितियविहूणा भंगा, सेसं तं चेव। वाणमंतरजोइसियवेमाणिया। जहा असुरकुमारा। णामगोयं अंतराइयं च एयाणि जहा ण्णाणावरणिज्जं सेवं भंते! भंते! त्ति० जाव विरहइ। (चउभंगो ति) ता प्रथमोऽभव्यस्थ, द्वितीयो यश्चरमशरीरो भविष्यति तस्य, तृतीयः पुनरुपशमकस्य, स ह्ययुर्वद्धवान् पूर्वमुपशमकाले न बध्नाति, तत्प्रतिपतितस्तु भन्त्स्यति, चतुर्थस्तु क्षपकस्य / स ह्यायुबद्धवान्न बध्नाति, न च भत्स्यतीति। "सलेसे" इह यावत्करणात्कृष्णलेश्याऽऽ दिग्रहः / तत्रयो न निर्वास्यति तस्य प्रथमो, यन्तु चरमशरीर तयोत्पत्स्यते तस्य द्वितीयः, अबन्धकाले तृतीयः चरमशरीरस्य च चतुर्थः, एवमन्यत्राऽपि। (अलेस्से चरिमो ति) अलेश्यः-शैलेशीगनः सिद्धश्च, तस्य च वर्तमान भविष्यत्काल योरायुषोऽबन्धकत्वाचरमो भङ्गः, कृष्णपाक्षिकस्य प्रथमस्तृतीयश्च सम्भवति। तत्र च प्रथमः प्रतीत एव, तृतीयस्त्वायुष्काबन्धकाले नबध्नात्येवोत्तरकाले तु तद्भत्रयतीत्येव स्यात्। द्वितीयचतुर्थो तुतस्य नाभ्युपगम्येते कृष्णपाक्षिकत्वे सति सर्वथा तद्भत्स्यमानताया अभाव इति विवक्षणात् शुक्लपाक्षिकस्य सम्यग्दृष्टश्च चत्वारस्तत्रा बद्भवान् पूर्व बध्नातिच बन्धकाले भत्स्यति चाबन्धकाल स्योपरि इत्येकः, बद्धवान, बध्नाति, न भत्स्यति चरम शरीरत्वे इति द्वितीयः / तथा बद्धवान्न बध्नात्यबन्धकाले उपशमाऽवस्थायां वा भत्स्यति च पुनर्बन्धकाले प्रतिपतितो वेति तृतीयाः चतुर्थस्तु क्षपकस्येति, मिथ्याद्दष्टिस्तु द्वितीय भड़के नभत्स्यति चरमशरीरप्राप्ती तृतीये न बध्नात्यबन्धकाले, चतुर्थे न बध्नात्यबन्धकाले न भत्स्यति च चरमशरीरप्राप्तविति। (सम्मामिच्छेत्यादि)। सम्यग्मिथ्यादृष्टिरायुर्न / बध्नाति, चरमशरीरत्वे च कश्चिन्न भत्स्यत्यपि इति कृत्वाऽन्त्यावेवेति ज्ञानिना चत्वारः प्राग्वद्भावयितव्याः, मनःपर्यायज्ञानिनो द्वितीयवर्जाः, तत्रासौ पूर्वमायुर्बद्धवानिदानीं तु देवऽऽयुर्बध्नाति, ततो मनुष्याऽऽयुभेत्स्यतीति प्रथमः, बद्धवा न भत्स्यतीति न सम्भक्त्यवश्य देवत्ये मनुष्याऽऽयुषो बन्धनादिति कृत्वा द्वितीयो नास्ति। तृतीय उपशमकस्य, स हि न बध्नाति, प्रतिपतितश्च भंत्स्यति, क्षपकस्य चतुर्थः / एतदेव दर्शयति-(मणपजवेत्यादि) (केवलनाणे चरमोत्ति) केवली हि आयुर्न बध्नाति, न च मंत्स्यतीति कृत्वा, नोसंज्ञोपयुक्तस्य भङ्ग कायं द्वितीयवर्जे मनःपर्यववद्भावनीयम्। एतदेवाऽऽह-(एवं एएणं इत्यादि) (अवेदए इत्यादि) अवेदकोऽकषायी च क्षपक उपशमको वा, तयोश्च वर्तमानबन्धो नारत्यायुष उपशकश्च प्रतिपतितो भत्स्यति, क्षपकस्तु नैव भत्स्यतीति कृत्वा, तयोस्तृतीययुक्त 4 सवेद 1 स्त्रीवेदाऽऽदि 3 सकषाय 1 क्रोधाऽऽदिकषाय 4 सयोभि 1 मनोयोग्यादि 3 साकारोपयुक्ता ऽनाकारोपयुक्त लक्षणेषु चत्वार एवेति / नारकदगुडके - (चत्तारि भंग ति) तत्र नारक आयुर्बद्धवान्, बध्नातिबन्धकाले भत्स्यति भवान्तरे इत्येकः, प्राप्तव्यसिद्धिकस्य द्वितीयः, बन्धकालाऽऽभाव भाविबन्धकालं चोपेक्ष्य तृतीयः / बद्धपरभविकाऽऽयुषोऽनन्तरं प्राप्तव्य घरमभवस्य चतुर्थः एवं सर्वत्रा / विशेषमाह - (नवरमित्यादि) लेश्यापदे कृष्णलेश्येषु नारकेषु प्रथमतृतीयौ। लथाहि-कृष्णलेश्यो नारको बद्धवान, बध्नाति, भंत्स्यति चेति प्रथमः प्रतीतएव। द्वितीयस्तुनास्ति, यतः कृष्णलेश्यो नाहकस्तियल्पद्यते मनुष्येषु वा चरमतरीरेषु, कृष्णलेश्या हि पञ्चमनरकपृथिव्यादिषु भवति, न च ततः उदवृत्तः सिद्धयतीति। तदेवमसौ नारकस्तिर्यगाद्यायुर्बद्धवा पुनर्भेत्स्यति, अचरमशरीरत्वादिति / तथा कृष्णलैश्यो नारक आयुष्काबन्धकाले तन्न वध्नाति, बन्धकाले तु मंत्स्यतीति तृतीयः / चतुर्थस्तु तस्य नास्ति, आदुबन्धकत्वस्थाऽमावादिति। तथा कृष्णपाक्षिकनारकस्य प्रथमः प्रतीत एव, द्वितीयो नास्ति, यतः कृष्णपाक्षिको नारक आयुर्वद्धवा पुनर्न भवत्स्यतीत्येतन्नास्ति, तस्य चरमभवाऽभावात् तृतीयस्तु स्यात्, चतुर्थो ऽपि नोक्तयुक्तेरेवेति / (सम्मामिच्छते तइयचउत्थ त्ति) सम्यग्मिथ्यादृष्टेरायुषो। बन्धाभावादिति, असुरकुमारदण्डके (कण्हलेस्से वि चत्तारि भंग ति) नारकदण्डके कृष्णलेश्यनारकस्य किल प्रथमतृतीयावुक्तासुरकुमारस्य तु कृष्णलेश्यस्यापि चत्वार एव, तस्य हि मनुष्यमत्यवाप्तौ सिद्धिसम्भवेन द्वितीयचतुर्थयोरपि भावादिति, पृथिवीकायिकदण्डके-(कण्हपक्खिए पढ़मतइया भंग ति) इह युक्तिः पूर्वोक्तैवानुसरणीया, तेजोलेश्यापदे तृतीयो भङ्गः, कथं? कश्चिद्देवस्तेजोलेश्यः पथिवीकायिकेषु उत्पन्नः, सचाऽपर्याप्तकाऽवस्थायां तेजोलेश्यो भवति, तजोलेश्याऽद्धायां चापगतायामायुर्बध्नाति, तस्मात् / तेजोलेश्यः पृथिवीकायिक आयुर्बद्धवान् देवत्वेन बध्नाति, तेजोलेश्याऽवस्थायां भत्स्यति च, तस्यामपगतायमित्येवं तृतीयः। (एवं आउकाइयवणस्सइकाइयाण विति) उक्तन्यायेन कृष्णपाक्षिकेषु प्रथमतृतीयभडौ, तेजोलेश्यायां च तृतीयभङ्गसम्भवस्तेष्वित्यर्थोऽन्या तु चत्वारः (तेउकाइ-एत्यादि) तेजस्कायिकवायुकायिकानां सर्वत्र एकादशस्वपि उवृत्तानामनन्तरं मनुष्येष्वनुत्पत्या सिद्धिगमनाऽभावेन द्वितीय-चतुर्थाऽसम्भवात मनुष्येष्वनुत्पत्ति श्चैतेषां"सत्तममहिनेरइया, तेऊवाऊअणुतरुव्वट्टा / न य पावे माणुस्सं तहेव संखाऽऽउया सव्ये॥१॥" इति वचनादिति। (वेइदिएत्यादि) विकलेन्द्रियाणां