________________ पचक्खाण 62 - अभिधानराजेन्द्रः - भाग 5 पच्चक्खाण अथवा अन्यथा त्रिकालोपसंग्रह इत्याहसव्वं पञ्चक्खामि, त्ति वा तिकालोवसंगहोऽभिमओ। अभिसद्दांओ तस्से-व कत्तकिरियाऽभिहाणं ति।।३५५२।। अथवा-सर्व सावधं योग प्रत्याख्यामि इत्यनेन सामान्याभिधानेन त्रिकालसंग्रहोऽभिमतः, अस्मादेव सामान्याभिधानादतीते संप्रति भविष्यति च काले सर्व सावद्ययोग प्रत्याख्यामीति गम्यत इत्यर्थः। इदानीं तु "करेंतं पि अन्नं'' इत्यत्रापिशब्दात्तस्यैव कालत्रयस्य संबन्धे कर्तृक्रियाऽभिधानमभिहितं, यथा वर्तमानकाले अहं न करोमि, न कारयामि, कुर्वन्तमन्यं न समनुजानामि तथा अपिशब्दादतीते भविष्यति च कालेन करोमिन कारयामि कुर्वन्तमन्यं न समनुजानामीति प्रत्यकमवगन्तव्यमिति / / 3552 / / अत्राऽऽक्षेपं परिहारं चाऽऽहएवं सव्वस्सासे-सविसयओऽतीयणागएसं पि। पावइ सव्वनिसेहो, भण्णइ तं नाववायाओ॥३५५३।। नन्वेवमुक्तप्रकारेणातीऽतेनागते च सर्वस्मिन्नपि काले आसेवितस्याऽऽसेविष्यमाणस्य च सर्वस्यापि सावधयोगस्य निषेधः प्राप्नोति / कुतः? इत्याह- (सव्वस्सेत्यादि) सर्वस्य सर्वशब्दस्याशेषविषयत्वादशेषविषयत्वेन पूर्वमिहैव व्याख्यातत्वादित्यर्थः / न चेतद्युक्तम्अतीतसावद्ययोगस्याऽऽसेवितत्वाद्, आसेवितस्य प्रत्याख्याने मृषावादाऽऽदिदोषप्रसङ्गाद् , भविष्यतश्च तस्य सर्वस्याऽपि प्रत्याख्यानदाषानुषङ्गादिति / भण्यतेऽत्रोत्तरम्-तदेतन्न प्राप्नोति / कुतः? इत्याहअपवादाद् अपवादबाधितत्वादिति / / 3553 / / तर्मेव चापवादं दर्शयतिभूयस्स पडिक्कमणाऽ-भिहाणओऽणुमइमेत्तमागहिया जावजीवग्गहणा, एस्सस्स य मरणमञ्जाया।।३५५४।। 'तस्स भंते ! पडिकमामि'' इत्यादिना प्रस्तुत एवं सामायिकसूत्रे प्रतिक्रमणस्याभिधानतो भूतस्यातीतसावद्ययोगरयानुमतिमात्रमेव प्रत्याख्येयत्वेनागृहीत नपुनः, सर्वोऽपि सावद्ययोगः, तदनुमतेश्य प्रत्याख्याने न कश्चिन्मृषावाद इत्यनन्तरमेव प्रागुक्त यावजीवग्रहणात्पुनरेष्यतोऽपि सर्वसावद्ययोगस्य प्रत्याख्याने मरणमर्यादाऽपवादः, यावज्जीवमेव तं प्रत्याचक्षे न परत इति / / 3554|| अथवाऽस्मिन्नेव सामायिकसूत्रे निरवशेषवचनोऽपि सर्वशब्दः प्रतिनियतविषयत्वेन व्यवस्थापित इति दर्शयत्राहअहवा जावजीव-ग्गहणाओऽणागयावरोहोऽयं। संपइ कालग्गहणं, न करोमिच्चाइगहणाओ॥३५५५|| भूयस्स पडिक्कमणा-इणा य तेणेह सव्वसद्दोऽयं / नेओ विसेसविंसओ, जओ य सुत्तंतरेऽभिहियं // 3556 / / अथवा सूत्र एव यावजीवग्रहणादनागतकालस्यायमवरोधः सुदीर्घोऽप्यनागतकालो यवज्जीवग्रहणाद् नैयत्यविधानेन विशेष व्यवस्थापित इत्यर्थः / "न करेभिन कारवेमि'' इत्यादिवचनात्तु साम्प्रतकालग्रहणमिति "तस्स भंते ! पडिवकमामि'' इत्यादि-सूत्रावयवे च भूतस्या- तीतस्य सावद्ययोगस्य प्रतिक्रमणाऽऽदिना, आदिशब्दान्निन्दागर्हाविधानेन च विशेषविषयतागर्भमतीतकालग्रहणमिति शेषः / येनैव, तेनेह निरवशेष वचनोऽप्ययं सर्वशब्दो विशेषविषयो ज्ञेयः / ततश्च भविष्यकालसावद्ययोग इह जीवितभवपर्यन्त एव निरवशेषसर्वशब्देन गृहीतः, अतीत-सावद्ययोगोऽप्यमुमतिमात्रक एव निरवशेषः तेन क्रीडीकृत इति भावः। पूर्वमुत्सर्गतः कालवयगतः समस्तसावद्ययोगविषयं सर्वशब्दं कृत्वा अपवादेन बाधा प्रोक्ता, इह तु सामायिकसूत्रे नियन्त्रणाद्वारेण प्रथमत एव देशतो निरवशेषविषयता सर्वशब्दस्य दर्शिता इत्येतावन्मात्रा व्याख्यादयस्य विशेषोऽवसेय इति॥३५५५।। / 3556 / / इत्थं चैतदङ्गीकर्तव्य, यतः सूत्रान्तरेऽप्यभिहितम्। किम् ? इत्याहसमईयं पडिक्कमए, पचुप्पन्नं च संवरेइ त्ति। पचक्खाइ अणागय-मेवं इहई पि वन्नेय।।३५५७|| सुबोधा, नवरमतीतप्रतिक्रमणेन तदनुमतिमात्रप्रत्याख्यानमुक्तम "पञ्चक्खाइ अणागयं'' इत्यत्र "यावज्जीवम्" इतिशेषः। ततश्च देशतो निरवशेषविषयः सवशब्दः सिद्ध इति। "तस्स भंते' इत्यादेव्याख्यानार्थमाहतस्स त्ति स संबज्झइ, जोगो सावज एव जोऽहिगओ। तमिति विइयाहिगारा-दभिधेये किमिह तस्स त्ति॥३५५८|| "तस्स'' इत्यत्रासावधिकृत एव सावद्यो योगः संबध्यते। अत्र परः प्राऽऽहननु प्रतिक्रमामीति क्रियायोगतो द्वितीयाधिकारात्तमित्यभिधेये वक्तव्ये किमिह षष्ठीनिर्देशात्तस्थान्यत्वम् ? इति॥३५५८।। गुरुराहसंबंधलक्खणाए, छट्ठीएऽवयवलक्खणाए वा। समतीयं सावजं, संबंज्झादेइन उ सेसं // 3556 / / इह संबन्धलक्षणया अवयवलक्षणया वा षष्ठ्या समतीतकालविषयमेव सावध योग संबन्धयति / इदमुक्तं भवतितस्य त्रिकालगतयोगस्य संबन्धिनं तद्वयवभूतं वा अतीत सावधयोग प्रतिक्रमामीति सामान्येन संबन्धलक्षणया अवयवलक्षणया वा षष्ट्या तस्येत्यत्रातीत सावद्ययोगं संबन्धयति सूत्रकारः। नतुशेष वर्तमानमेष्यन्तं वा, तस्य संन्नियमाणत्वात्प्रत्याख्यायमानत्वाच प्रतिक्रमणस्य चातीतविषयत्वादिति॥३५५६।। अत्र केषाञ्चिन्मतमुपन्यस्य दूषयन्नाहअविसिढ़ सावजं, संबज्झा ति केइ छट्ठीए। तन्नप्पओयणाभा-वओ तहा गंथगुरुयाओ॥३५६०।। पच्छित्तस्म पडिक्कम-णओ य पायं व भूयविसयाओ। तीयपडिक्कमणाओ, पुणरुत्ताइप्पसंगाओ॥३५६१।। इह केचनाप्यार्चार्यदेशीयास्तस्येत्यत्र षष्ठ्या अविशिष्टमेव कालिक सावद्ययोग संबन्धयन्ति / तदेतन्न युक्तं , अविशिष्टत्रैकालिकसावद्ययोगसंवन्धररोह प्रयोजनाभावात, तदभावश्चातीतस्यैव प्रतिक्रमणसंभवात् / अथ सामान्ययोग संबध्य पश्चाद् विशेषणातीतस्यैव तस्य प्रतिक्रमण व्याख्यास्यत इति आशङ्कयाऽऽह- तथा सति ग्रन्थगुरुत प्रसहादिति / किंच-(पच्छितेत्त्यादि) प्रायश्चित्तस्यैव प्रतिक्रमणरूपत्वात्प्राय