________________ पोरिसी 1128 - अभिधानराजेन्द्रः - भाग 5 पोरिसी सम्प्रति पौरुषीपरिमाणप्रतिपादकमेकविंशतितमप्राभृतं विवक्षुराह - पव्वे पन्नरसगुणे, तिहिसहिए पोरसीऍ आणयणे। छलसीइसयविभत्ते, जलद्धं तं वियाणाहि॥१॥ जइ होइ विसम लद्धं, दक्खिणमयणं हविज नायव्वं / अह हवइ समं लद्धं, नायव्वं उत्तरं अयणं // 2 // युगमध्ये यस्मिन् पर्वणि यस्या तिथौ पौरुषीपरिमाणं ज्ञातुमिष्ट ततः पूर्वे युगादित आरभ्य यानि पर्वाणि अतिक्रान्तानि तानि ध्रियन्ते धृत्वा च पञ्चदशभिर्गुण्यन्ते, गुणयित्वा च विवक्षितायास्तिथेः पूर्वमतिकान्तास्तिथ यस्ताभिः सहितानि क्रियन्ते, कृत्वा च षडशीत्यधिकेन तेषां भागो हियते इहैकस्मिन्नयने त्र्यशीत्यधिकमण्डलशत परिमाणे चन्द्रनिष्पादितानां तिथीनां षडशीत्यधिकं शतं भवति, ततस्तेन भागहरणं, हृते च भागे यल्लब्धं तत् विजानीहि-सम्यगवधारयेत्यर्थः। तत्रा यदि विषमं भवति, तद्यथाएककस्त्रिकः पञ्चकः सप्तको नवको वा तदा तत्पर्यन्तवति दक्षिणमयनं ज्ञातव्यम्। अथ भवति। लब्धं सम, तद्यथाद्विकश्चतुष्कः षट्कोऽष्टको दशको वा तदा तंत्पर्यन्तवर्ति उत्तरायणंमवसेयम् / तदेवमुक्ता दक्षिणायनोत्तरा यणपरिज्ञानोपायाः। सम्प्रति षडशीत्यधिकेन शतेन भागे हते यच्छेषमवतिष्ठते, यदि वा भागासम्भवे यत् शेष तिष्ठति तद्गतविधिमाहअयणगए तिहिरासी, चउग्गुणे पव्वपायभइयम्मि। जं लद्धमंगुलाणि य, खयबुड्डी पोरिसीए उ॥३॥ यो भागासंभवेन शेषत्वतोऽयनगतस्तिथिराशिर्वर्तते स चतुर्भिर्गुण्यते, गुणयित्वा व पर्वपादेन युगमध्ये यानि सर्वसंख्यया पर्वाणि चतुर्विशत्यधिकशतसंख्यानितेषां पादेनचतुर्थाशन, एकत्रिंशता इत्यर्थः / तेषां भागे हृते यल्लब्धं तान्यकुलानि, अङ्गुलांशाश्च पौरुष्याः क्षयवृद्धया ज्ञातव्यानि, दक्षिणायनपदध्रुवराशेरुपरि वृद्धौ ज्ञातव्यानि, उत्तरायणे पदध्रुवराशेः क्षय इत्यर्थः, अथैयंभूतस्य गुणकारस्य भागहारस्य वा कथमुत्पत्तिः? उच्यते-यदि षडशीत्यधिकेन शतेन चतुर्विशतिरकुलानि क्षये वृद्धौ वा प्राप्यन्ते, तत एकस्यां तिथौ का वृद्धिः क्षयो वा? | राशिकाय स्थापना-१८६, 24, 1 अत्रान्त्येन राशिना एककलक्षणेन मध्यमो राशिश्चतुर्विशतिरूपो गुण्यते, जातः स तावानेव, तत आद्येन राशिना षडशीत्यधिकशतरूपेण भागो हियते, तत्रोपरितनराशेः स्तोकत्वात् भागोन लभ्यते, ततः छेद्यछेदकराश्योः षट्केनापवर्तना, जात उपरितनो राशिश्चतुष्करूपोऽधस्तन एकत्रिंशत्, लब्धमेकस्या तिथौ चत्वार एकत्रिंशद्भागाः क्षये वृद्धौ वेति चतुष्को गुणकार उक्त एकत्रिशद्भागहार | दक्षिणायने द्विपादयोः-पदद्वयस्योपरि अडलानां वृद्धिर्ज्ञातव्या। उत्तरायणे चतुर्व्यः पादेभ्यः सकाशादडलाना हानिः। तत्रा युगमध्ये प्रथमे संवत्सरे दक्षिणायने ततो दिवसादारभ्य वृद्धिस्तन्निरूपयतिसावणबहुलपडिवए, दुपया पुण्ण पोरसी धुवं होइ। चत्तारि अंगुलाई, मासेण य वड्डए तत्तो॥५॥ एकत्तीसइभागा, तिहिए पुण अंगुलस्स चत्तारि। दक्खिणअयणे वुड्डी, जाव चत्तारि उ पयाइँ // 6 // युगस्य प्रथमे संवत्सरे श्रावणमासिबहुलपक्षे प्रतिपदि पौरुषी द्विपदापदद्वयप्रमाणाधुवराशिर्भवति, ततस्तस्याः प्रतिपद आरभ्य प्रतितिथिक्रमेण तावद्र्द्धते यावन्मासेन सूर्यमासेन सार्द्धत्रिशद-होरात्राप्रमाणेन चन्द्रमासापेक्षया एकशिता तिथिभिरित्यर्थः (एकतीसेत्यादि) यत एकस्यां तिथौ चत्वार एकत्रिशद्भागा वर्द्धन्ते, एतच्च प्रागेव भावितं, परिपूर्णे तु दक्षिणायने वृद्धिः परिपूर्णानि चत्वारि पदानि, ततो मासेनसूर्यमासेन सार्द्ध त्रिंशदहोरात्रप्रमाणेन एकत्रिंशत्तिथ्यात्मकेनेत्युत्कम्। तदेवमुक्ता वृद्धिः। सम्प्रति हानिमाह - उत्तरश्रयणे हाणी, चउहिँ पायाहिं जाव दो पाया। एवं तु पोरिसीए, वुड्डिखया होंति नायव्वा / / 7 / / युगस्य प्रथमसंवत्सरे उत्तरायणे माघमासबहुलपक्षे सप्तम्याआरम्भ चतुर्व्यः पादेभ्यः सकाशात् प्रतितिथि एकत्रिंशद्भागचतुष्टयहानिस्तावदवसेया यावदुत्तरायणपर्यन्तेद्वौपादौ पौरुषीति।एवं प्रथमसंवत्सरगतो विधिः / द्वितीये संवत्सरे श्रावणे मासि बहुलपक्षे त्रयोदशीमादौ कृत्वा वृद्धिः, माघमासे शुल्कपक्षे चतुर्थी मादिं कृत्वा क्षयः / तृतीये संवत्सरे श्रावणमासे शुल्कपक्षे दशमी वृद्धरादिः, माघमासे बहुलपक्षे प्रतिपत् क्षयस्याऽऽदिः / चतुर्थसंवत्सरे श्रावणमासे बहुलपक्षे सप्तमी वृद्धेरादिः, माघमासे बहुलपक्षे त्रयोदशी क्षयस्याऽऽदिः। पञ्चमे संवत्सरे (वुड्डिखया होति नायव्वा) एवमुक्तेन प्रकारेण पौरुष्याम्-पौरुषीविषयौ वृद्धिक्षयौ यथाक्रमं दक्षिणायने उत्तरायणे च वेदितव्यौ। तदेवमुक्तं करणम्। सम्प्रतिकरणस्य भावना कियते-- कोऽपि पृच्छति-युगे आदित आरभ्य पञ्चाशीतितमे पर्वणि पञ्चभ्यां तिथौ कतिपदा पौरुषी भवति? तत्रा चतुरशीतिर्धियते, तस्याश्चाधस्तात् पञ्चम्यां तिथौ पृष्टमिति पञ्च चतुरशीतिश्च पञ्चदशभिर्गुण्यते. जातानि द्वादश शतानि षष्टयधिकानि 1260 / तेषु मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते, जातानि द्वादशशतानि पञ्चषष्टयधिकानि 1265 / तेषां षडशी• त्यधिकेन शतेन भागो हियते, लब्धाः षट्आगतं षट् अयनानि अतिकान्तानि, सप्तममयनं वर्तते, तद्गतं च शेषमेकोनपञ्चाशदधिकं शतं तिष्ठति तत् चतुर्भिर्गुण्यते, जातानि पञ्च शतानि षण्णवत्यधिकानि 566 / तेषामेकशिता भागहरणे लब्धा एकोनविंशतिः 16, शेषाः तिष्ठन्ति सप्त, तत्र द्वादशाङ्गुलानि पाद एकोनविंशतेदशभिः पदं लब्धं, शेषाणि तिष्ठन्ति सप्ताङ्गुलानि, षष्ठं चायनमुत्तरायणं, तच गतं, सप्तमंच दक्षिणायनं वर्तते, ततः पदमेकं सप्ताङ्गुलानि पदद्वयप्रमाणे ध्रुवराशौ प्रक्षिप्यते, जाता इति। इह यल्लब्धं तान्यङ्गुलानि क्षये वृद्धौ वेत्युक्तं, तत्रा कस्मिन्नयने कियत्प्रमाणाराशेरुपरि वृद्धौ कस्मिन् वा अयने किं प्रमाणराशेः क्षये इत्येतन्निरूपणार्थमाह - दक्खिणवुड्डी दुपया-उ अंगुलाणं तु होइ नायव्वा / उत्तरअयणे हाणी, कायदा चउहि पायाहिं।।४।।