________________ पोता 1121 - अभिधानराजेन्द्रः - भाग 5 पोत्थग पोता स्त्री० (पोता) शाटिकायाम, विशे०। पोतिय न० (पौतिक) पोतमेव पौतिकम्। कार्यासिके, स्था० 5 ठा०३ उ०। ज्ञा०॥ * पोतिय पुं० वस्त्रधारिणि वानप्रस्थे, औ० / भ० / नि०। पोत्त पुं० (पौत्र) पुत्रास्यापत्ये, भ०१२ श०२ उ० / घस्त्रो बृ० 1 उ०२ | प्रक०। पोत्तअ (देशी ) वृषे, दे० ना० 6 वर्ग 62 गाथा। पोत्तखेल पुं० (पोतखेल) गोरसभावितायां तुषरवृक्षगुटिकायाम्, 'गुलति तुवररुक्खवुत्तगुलियाओ कजति गोरसभावितो पोत्तखेलो भण्णति / नि० चू०१२ उ०। पोत्ती ( देशी) कार्ये , दे० ना० वर्ग 60 गाथा। पोत्तुल्लया स्त्री० (पोतपुत्तलिका) वस्त्रामयपुत्रिकायाम्, परिधानवस्त्रे, ज्ञा० 1 श्रु०१८ अ०। पोत्थन० (पुस्त)"ओत्संयोगे"||८1१1११६। इत्युत ओत्वम्। प्रा०१ पाद / लेप्ये, विशे०। पुस्तके, ग०२ अधि०। पोत्थकर्म न० (पुस्तकर्मन्) पुस्तं ताडपत्राऽऽदि, ता कर्म। पुस्तच्छेदनिष्पन्ने रूपके, अथवा-पुस्तमिह संपुटकरूपं गृह्यते, ता कर्म / पुस्तकमध्ये वर्तिकालिखिते रूपके, अनु० / आचा० / पोत्थकार पु० (पुस्तकार) पुस्तकशिल्पोपजीविनि, अनु०। पोत्थग न० (पुस्तक) लेप्ये, स्था० / ध० / दश०नि०चू० / पं० व० / जीत०। तच्च पचविधम् - गंडी कच्छवि मुट्ठी, संपुडक फलए तहा छिवाडी य। एवं पोत्थयपणयं, पण्णतं वीयरागेहिं 1 / स्था० 4 ठा० 2 उ०। (एषां स्वरुप, स्वस्वशब्दे द्रष्टव्यम्।) अथपुस्तकपञ्चके तावद्दोषानुपदर्शयतिसंघस अपडिलेहा, भारो अहिकरणमेव अविदिन्नं / संकामणपलिमंथो, पमाएँ परिकम्मणा लिहणा / / 147 / / पुस्तकाऽऽदिकंग्रामान्तरं नयतः स्कन्धे संघर्षः स्यात, ततश्च व्रणोत्पत्यादयो दोषाः, शुषिरत्वाच तत्र प्रत्युपेक्षणा न शुद्धयति, भारो मार्ग गच्छतो भवेत्। अधिकरणं च कुन्थुपनकाऽऽदिसंरक्तिलक्षणं भवति। यद्वा-तन्पुस्तक स्तेनैरपहियेत ततोऽधिकरणं, तीर्थकरैरदत्तश्चायमुपधिः, स्थानान्तरं च पुस्तक संक्रामयतः परिमन्थः, प्रमादोनाम पुस्तके लिखितमस्तीति कृत्वा न गुणयति, अगुणनाच्च सूत्रनाशऽऽदयो दोषाः। / परिकर्मणायां च सूत्रार्थ परिमन्थो भवति / अक्षरलेखनं च कुर्वतः कुन्थुप्रभृति कासप्राणिव्यपरोपणेन कृकाटिकाऽऽदिबाधया च संयमात्मविराधना। किं चपोत्थग जिणदिर्सेतो, वागुर लेवे य जाल चक्के य। लोहिय लहुगा आणा-दि मुयणे संघट्टणा बाधे / / 418 / / पुस्तके शुषिरतया यो जन्तूनामुपघातस्तत्रा जिनैः-तीर्थकृद्भिर्वागुरया लेपेन जालेन चक्रेण च दृष्टान्तः कृतः (लोहियत्ति) यदि तेषां पुस्तकान्तर्गतानां जन्तूनां लोहितंरुधिरं भवेत्ततः पुस्तकबन्धनकाले अक्षराणि परिस्पर्शात् तत् रुधिरं परिगलेत्। (लहुग त्ति) यावतो वारांस्तत्पुस्तक बध्नाति मुञ्चति वा अक्षराणि वा लिखति तावन्ति चतुर्लघूनि, आज्ञाऽऽ-- दयश्च दोषाः / पुस्तकस्य मोचने बन्धे च संघट्टनम् उपलक्षणत्वात् परिनापनमपद्रावणं वा यदापद्यते, तन्निष्पन्नं प्रायश्चित्तमिति नियुक्तिगाथासमासार्थः। साम्प्रतमेनामेव विवृणोतिचउरंगवगुरापरि-बुडो वि फिट्टे ज अवि मिगोऽरण्णे। छीरखउरलेवे वा, पडिओ णउणो पलाएज्जा / / 146 / / चतुरङ्ग सेनारुपा वागुरा, तया परिवृत्तोऽपि-समन्ताद्वेष्टितोऽपि मृगोऽपीति संभावनायां, संभाव्यतेऽयमर्थोयत्तथाविधक्षताऽऽदिगुणोपेतो मृगोऽऽरण्ये तादृशादपायात्स्पिटेत्, न पुनःपुस्तकपत्रान्तरप्रविष्टा जीवाः स्फिटेयुः / तथा शकुन्तः पक्षी, स चेह मक्षिकाऽऽदिः क्षीरे वा-दुग्धे, खपुरे वा-चिक्कणद्रव्ये, लेपेवा अवश्रावणाऽऽदौ पतितोऽपि पलायेत्, न पुनः पुस्तकजीवास्ततः पलायितुं शक्नुयुः / सिद्धत्थगजालेणं, गहितो मच्छो वि णिप्फडेजाहि। तिलकीडगा व चक्के, बला पलाए न ते जीवा / / 150 / / सिद्धार्थाः सर्षपाः तेऽपियेन जालेनगृह्यन्तेतत् सिद्धार्थकजाल तेनाऽपि गृहीतो मत्स्यः कदाचिन्निस्फिटत्। तथाचक्रे तिलपीडमयन्त्रो प्रविष्टास्तिलकीटका वा निर्गच्छेयुः, न च ते जीवास्ततः पुस्तकान्निर्गन्तुं शक्नुयुः। जइ तेसिं जीवाणं, तत्थ गयाणं तु लोहियं होज्जा। पीलिज्जते धणियं, गलेज तं अक्खरे फुसितं // 151 // यदि तेषां तत्रा गतानां पुस्तकपत्रान्तरे वा स्थितानां जीवानां कुन्थुप्रभृतीनां लोहित भवेत्, ततः पुस्तकबन्धनकाले तषां 'धणियं' गाढवर पीड्यमानानां तदनन्तरोक्तं रुधिरमक्षराणि स्पृष्टवा बहिः परिगलेत। अत एवजत्तियमित्ता वारा-उ मुंचई बंधई व जति वारा। जति अक्खराणि लिहती, तति लहुगा जं च आवजो // 152 / / यावन्मात्रान् वारान् पुस्तक मुञ्चति छाटयति, यावतो वारांश्च बध्नाति / 'यति वा' यावन्ति अक्षराणि लिखति त ति त्ति' तावन्ति चतुर्लघूनि, यच्च कुन्थुपनकादीना संघट्टनपरितापनमपद्रवणं वा आपद्यते, तन्निषन्नं प्रायश्चित्तम्। बृ०३ उ०। इमं पोत्थगपणगं / गाहा - गंडी कच्छवि मुट्ठी, संपुड पिहुलो तहा छिवाडी य। साली वीही कोदव, रालओ रण्णतणाइँ पणगं व // 25 / / दीहो बाहल्लपुहत्तेण तुल्लो चउरंसो गंडी पोत्थगो, अंते