SearchBrowseAboutContactDonate
Page Preview
Page 1122
Loading...
Download File
Download File
Page Text
________________ पोग्गलपरियट्ट 1114 - अभिधानराजेन्द्रः - भाग 5 पोग्गलपरियट्ट णशरीरलक्षणपदार्थसप्तकभावेन यथास्व परिणमय्य मुञ्चति स | तावत्प्रमाणः कालो द्रव्यतो बादरः पुद्रलपरावर्तो भवतीति तात्पर्यम् / इत्यभिहितो बादरो द्रव्यपुद्गलपरावर्तः / इदानीं सूक्ष्मद्रव्यपुद्रलपरावर्तमाह-(सुहुमो सगन्नयर त्ति) सूक्ष्मो द्रव्यपुरलपरावर्तो भवतीति सम्बन्धः / कथमित्याह-सप्तकान्यतरस्मात्-सप्तकान्यतरेण, विभक्तिव्यत्ययश्च प्राकृतत्वात्। इदमत्रा हृदयम् सप्तानामौदारिकवैक्रिय तैजसभाषा प्राणापानमनः कार्मणमध्यादन्यतरेण पुनरेकेन केनचिदौदारिकादिना पूर्वप्रदर्शितप्रकारेण सकललोकवर्तिपुद्रलाना स्पशने औदारिकाऽऽदिशरीरतया गृहीत्वा मोचने सूक्ष्मद्रव्यपुद्गलपरावर्ता भवति / विवक्षितभेदा विशेषैः षड् भिर्भेदैः परिणमिता अपि न गृह्यन्त इति / एके त्वाचार्य एवं द्रव्यपुदगलपरावर्तस्वरूप प्रतिपादयन्ति / तथाहि-यदैको जीवोऽने कैर्भव ग्रहणैरोदारिकशरीरवैक्रियशरीर तैजसशरीरकार्मणशरीरच तुष्टयरुपतया यथास्वं सकललोकवर्तिनः सर्वान् पुगलान परिणमय्य मुञ्चतितदा बादरो द्रव्यपुदलपरावर्तो भवति। यदा पुनरौदारिकाऽऽदिचतुष्टयमध्यादेकेन केनचिच्छरीरेण सर्वपुदगलान् परिणमय्य मुञ्चति शेषशरीरपरिणमितास्तु पुदला न गृह्यन्ते एव तदा सूक्ष्मो द्रव्यपुरलपरावर्तो भवतीति॥८७॥ उक्तो द्वेधाऽपि द्रव्यपुद्रलपरावर्तः। सम्प्रति क्षेत्राकालभावपुद्गलपरावर्तान् बादर - सूक्ष्मभेदभिन्नान्निरूपयन्नाह - लोगपएसोसप्पिणि-समया अणुभागवंधठाणा य जह तह कममरणेणं, पुट्ठा खित्ताइ थूलियरा // 8 // लोकस्य-चतुर्दशरज्जवात्मक क्षेत्रखण्डस्य प्रदेशानिर्विभागा भागा लोकप्रदेशाः / तथोत्सर्पिणीशब्देनावसर्पिण्य प्युपलक्ष्यते, दिनग्रहणे रात्र्युपलक्षणवत्, तयोः समयाः परमनिकृष्टकालविशेषा उत्सर्पिपिण्यवसर्पिणीसमयाः, समयस्वरुपं च पट्टशाटिकापाटनदृष्टान्तादुत्पलपत्रशत भेदोदाहरणा चावसेयम्। ततो लोकप्रदेशाश्चोत्सर्पिण्यवसर्पिणी समयाश्चेति द्वन्द्वः। तथाऽनुभागस्यरसस्य बन्धो बन्धनं तस्य निमित्तभूतानि अनुभागबन्धाऽध्यवसायस्थानानीत्यर्थः / चः समुच्चये। ततश्चैते प्रत्येकं त्रयोऽपि पदार्था यदा मरणशब्दस्य प्रत्येकमभिसम्बन्धाद्यथा तथा मरणेनक्रमोत्क्रमाभ्यां प्राणपरित्यागलक्षणेन स्पृष्टाव्याप्ता भवन्ति तदा (खित्ताइथूत्ति) क्षेत्रपुद्गलवपरावर्तकाल पुगलपरावर्तभावपुद्रलपरावर्ताः स्थूलाबादरा भवन्ति। यदा पुनस्त एव लोकाऽऽकाशप्रदेशा उत्सर्पिण्यवसर्पिणीसमया अनुभागबन्धाध्यवसायस्थानानि चेति प्रत्येक त्रयोऽपि पदार्थाः क्रममरणेन पूर्वस्पृष्टाऽऽकाशप्रदेशाऽऽ दिभ्योऽव्यवधानतः प्राणपरित्यागलक्षणेन स्पृष्टा भवन्ति तदा क्षेत्रपुद्गलपरावर्तकालपुगल परावर्तभावपुद्रलपरावर्ताः (इयर त्ति) इतरेसूक्ष्मा भवन्तीति गाथाऽक्षरार्थः / भावार्थः पुनरयम्-यदाऽनन्तभवभ्रमणशीलो जन्तुरनन्तरेषुव्यवहितेषु चापरापराऽऽकाशप्रदेशेषु नियमाणः सर्वानपि चतुर्दशपरावती भवति, नवर यष्वपरप्रदेश वृद्धिरहितेषु पूर्वावगाढेष्वेव नमःप्रदे शेषु मृतस्तेन गण्यन्तेऽपूर्वास्तुदूरव्यवहिता अपि स्पृष्टा गण्यन्त एवेति। कालतस्तु यदोत्सर्पिण्यवसर्पिणीसमयेषु सर्वेष्वपि क्रमेणोत्क्रमेण चानन्तानन्तैर्भवैरेको जन्तुम॒तो भवति तदा बादरकालपुनलपरावर्ता भवति, केवलं येषु समयेष्वेकदा मृतोऽन्यदाऽपि यदि तेष्वेव समयेषु म्रियते तदा ते नगण्यन्ते, यदा पुनरेकद्वितीयाऽऽदिसमयक्रममुल्लङ्यापि अपूर्वेषु समयेषु मियते तदा ते व्यवहिता अपि समया गण्यन्त इति / भावतः पुरलपरावर्त उच्यते-अनुभागवन्धाध्यवसायस्थानानि मन्दप्रवृद्धप्रत्तराऽऽदिभेदेनाऽसंख्येयानि वर्तन्ते, एतेषां चासंख्येयत्वप्रमाणमुत्तरत्रा वक्ष्यामः। ततो यदैकेकस्मिन्ननुभाग बन्धाध्य वसायस्थाने क्रमेणोत्क्रमेण य नियमाणिन जन्तुनाऽसंख्येयलोकाऽऽकाशप्रदेशमियमाणेन जन्तुनाऽसंख्येयलोकाऽऽकाशप्रदेश प्रामाणानि सर्वाण्यपि तानि स्पृष्टानि भवन्ति तदा बादरो भावपुद्गलपरावर्तो भवति; अत्राऽपि यदध्यवसायस्थानमे कदा मरणेन स्पृष्ट त देवान्यदाऽपि यदि स्पृशति तदा तन्न गण्यते, अपूर्व तु दूरव्यवहितमपि स्पृष्ट गण्यत एवेति भाविता बादराः क्षेत्रपुद्रलपरावर्तकालपुद्गल परावर्तभावपुद्रलपरावर्ताः / साम्प्रतमेत एव सूक्ष्मा भाव्यन्ते-इह येष्वा काशप्रदेशेष्ववगाढो जन्तुरेकदा मृतस्तेभ्योऽनन्तरव्यवस्थितेष्वेव नमःप्रदेशेष्वन्यदाऽपि यदि मियतेऽपरस्यां वेलायां तेषामप्यनन्त व्यवस्थितेष्वाकाशप्रदेशेष्वन्यस्यां वेलायाम् तेषामप्यनन्तरव्यवस्थितेष्वाकाशप्रदेशेष्वन्यस्यांतुवेलायाम् तेषामप्यनन्तरेष्वन्येष्वेवं तावन्नेयं यावदित्थमपरापरेषु नैरन्तर्यव्यवस्थितेषु नभःप्रदेशेषु क्रमेण नियमाणो जन्तुः सर्वानपि लोकाऽऽकाशप्रदेशान् स्पृशति, ये चापरप्रदेशवृद्धिरहिताः पूर्वावगाढा एव दूरव्यवस्थिता वाऽऽकाशप्रदेशा मरणेन स्पृष्टास्ते च न गण्यन्ते तदा सूक्ष्मः क्षेत्रपुद्गलपरा-वर्त इति / पञ्चसंग्रहाशास्त्रे तु सूक्ष्मबादरभेदतो द्विविधोऽपि क्षेत्रापुद्गल-परावर्तः इत्थं व्याख्यातः-यथा-चतुर्दशरज्जवात्मकलोकस्य सर्वप्रदेशेषु प्रत्येक यावता कालेनैकजीवो मृतो भवति / कोऽर्थः?यावन्तो लोकाऽऽकाशप्रदेशास्ते प्रदेशे प्रदेशे क्रमोत्क्रमाभ्यां मरणं कुर्वाणेन यदा सर्वे व्याप्ता भवन्ति तदा बादरः क्षेत्रापुद्गल परावर्तः, सूक्ष्मस्तुयावता कालेन प्रथमप्रदेशानुवद्धप्रदेशक्रमेण मृतो भवति, कोऽर्थः?-- यत्राऽऽकाशप्रदेशे मृतस्तदनन्तरप्रदेशक्रमेण यदा सर्वेऽपि लोकाऽऽकाशप्रदेशा मरणेन व्याप्तां भवन्ति तदाऽसौ भवति, व्यवहितेषु च मरणं न गण्यते। यद्यपि जीवस्यैकप्रदेशेऽवस्थानमेव नास्ति तथाऽपि जीवावगाहनावस्थानानां प्राधान्येनैकः परिकप्यते, तस्माद्गणनाप्रवृत्तिः, अमुना च प्रकारेण प्रभूतकालख्यापनं कृतं भवतीति / सूक्ष्मस्तु कालपुद्गलपरावर्तस्तदा भवति यदोत्सर्पिण्या अवसर्पिण्या वा प्रथमसमये कश्चिन्मृतस्ततः पुनरपि समयोनविंशतिकोटीकोटी भिरतिक्रान्ताभिर्भूयोऽपि स एव जन्तुः कालान्तरेण तस्या एव द्वितीयसमये म्रियते पुनरपि कदाचित्तथैव ताभिरतिक्रान्ताभिस्तस्याएव तृतीयसमये, एवं चतुर्थपञ्चमषष्ठाऽऽदिसमयक्रमणानन्तानन्तैर्भवैर्यावत्सर्वेऽऽप्युत्सर्पिण्यवसर्पिण्योविंशतिसाग...... .141: या मरणाच्याता भवान्ताय तु प्रथमाऽ5दिसमयक्रममुल्लडण्य व्यवहितसमयाः पूर्वस्पृष्टा वा मरणेनव्याप्तास्ते तु
SR No.016147
Book TitleAbhidhan Rajendra Kosh Part 05
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1636
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy