________________ पोग्गल 1068- अभिधानराजेन्द्रः - भाग-५ पोग्गल पण्णत्ता। दसगुणाकालगा पोग्गला अणंता पण्णत्ता / एवं वण्णेहिं गंधेहिं रसेहिं फासेहिं० जाव दसगुणलुक्खा पोग्गला अणंता पण्णत्ता। 'दसेत्यादि'' सूत्रावृन्द, सुगमंच, नवरं दशप्रदेशा येषां ते तथा, त एव दशप्रदेशिका दशाणुकाः स्कन्धाः समुच्चया इति द्रव्यतः पुद्गलचिन्ता, तथा दशप्रदेशेष्वाकाशस्यावगाढा आश्रितादशप्रदेशावगाढा इति क्षेत्रतः तथा दशसमयान स्थितिर्येषां ते तथेति कालतः, तथा दशगुण एकगुणकालापे क्षया दशाभ्यस्तः कालोवर्णविशेषो येषां ते दशगुणकालकाः, एवमन्यैश्चतुर्भिर्वर्णाभ्यां गन्धाभ्यां पञ्चभी रसैरष्टाभिः स्पर्शविशेषिताः पुद्गला अनन्तावाच्याः। अतएवाऽऽह-(एवमित्यादि)". जाव दसगुणलुक्खा पोग्गला अणंता पण्णत्ता / 'इत्यनेन भावतः पुगलचिन्तायां विंशतितम आलापको दर्शितः। इह चानन्तशब्दोपादानेन वृद्ध्यादिशब्देन चानन्तमङ्गलभिहितमयं चानन्तशब्द इह सर्वाध्ययनानामन्तेपठित इति सर्वेष्वप्यन्तमगलतया बोद्धव्य इति तदेवं निगमित मनुगमद्वारांशभूतं सूत्रस्पर्शकनियुक्तिद्वाराणि तु सर्वाध्यनेषु प्रथमाध्ययनवदनुगमनीयानि। स्था० 10 ठा०। द्वाभ्यां स्थानाभ्यां पुद्गलाः भिद्यन्ते परिशटन्तिदोहिं ठाणेहिं पोग्गला साहन्नति / तं जहा-सयं वा पोग्गला साहन्नति, परेण वा पोग्गला साहन्नति / दोहिं ठाणेहिं पोग्गला भिजंति। तं जहा-सयं वा पोग्गला भिजंति, परेण या पोग्गला भिजंति / दोहिं ठाणेहिं पोग्गला परिसडति / तं जहा--सयं वा पोग्गला परिसडंति, परेण वा पोग्गला परिसडंति, एवं परिवडंति, विद्धंसंति। (दोहीत्यादि) सूत्रपञ्चकं कण्ठ्यं, नवरं स्वयं चेति स्वभावेन वा अभ्राऽऽदिष्विव पुद्गलाः संहन्यन्ते-सम्बध्यन्ते कर्मकर्तृप्रयोगोऽयं परेण वा पुरुषाऽऽदिना वा संहन्यन्तेसंहताः क्रियन्ते कर्मप्रयोगोऽयम्, एवं भिद्यन्ते विघटन्ते यथा परिपतन्ति पर्वतशिखराऽऽदेरिवेति परिशटन्ति कुष्ठाऽऽदेनि मित्तादगुल्यादिवत् विध्वस्यन्ते-विनश्यन्ति घनपटलवदिति // 5 // पुगलानेव द्वादशसूत्राणि निरुपयन्नाह - दुविहा पोग्गला पण्णत्ता / तं जहा-भिन्ना चेव, अभिन्ना चेव। दुविहा पोग्गला पण्णत्ता / तं जहा-मिउरधम्मा चेव, नो मिउरधम्मा चेव / दुविहा पोग्गला पण्णत्ता / तं जहा परमाणुपोग्गला चेव, नो परमाणुपोग्गला चेव / दुविहा पोग्गला पण्णत्ता / तं जहा-सुहुमा चेव, बायरा चेव / दुविहा पोग्गला पण्णत्ता / तंजहा-बद्धपासपुट्ठा चेव, नो बद्धपासपुट्ठा चेवा दुविहा पोग्गला पण्णत्ता / तं जहा परियादितचेव, अपरियादितचेव / दुविहा पोग्गला पण्णत्ता। तं जहा–अत्ताचेव, अणत्ता चेव। दुविहा पोग्गला पण्णत्ता / तं जहा-इट्ठा चेव, अणिट्ठा चेव / एवं कंता, पिया, मणुन्ना, मणामा। (दुविहेत्यादि) भिन्नाः- विघटिता इतरे त्वभिन्नाः स्वयमेव भिद्यन्ते / इति भिदुराः, भिदुरत्वं धर्मो येषां ते भिदुरधर्माणः, अन्तर्भूतभावप्रत्ययोऽयम्। प्रतिपक्षः प्रतीत एवेति। परमाश्च तेऽणवश्चेति परमाणवः नो परमाणवः स्कन्धाः सूक्ष्माः येषां सूक्ष्मः परिणामः शीतोष्णस्निग्धरूक्षलक्षणाश्चत्वार एव स्पर्शास्ते च भाषाऽऽदयः। बादरास्तु येषां बादरः परिणामः पञ्चाऽऽदयश्च स्पर्शाः ते चौदारिकाऽऽदयः 4 पार्श्वेन स्पृष्टाः देहत्वचा छुप्ताः रेणुवत् पार्श्वस्पृष्टाः ततो बद्धाः गाढतरसंश्लिष्टास्तनौ तोयवत् पार्श्वतः स्पृष्टाश्च ते बद्धाश्चेति राजदन्ताऽऽदित्वात् बद्धपार्श्वस्पृष्टाः। आह च-'"पुट्ट रेणु व्व तणुम्मि बद्धमप्पोकयं पएसेहिं / ' इति। एते च घ्राणेन्द्रियाऽऽदि ग्रहणगोचराः तथा नो बद्धाः किं तुपार्श्वस्पृष्टा इत्येकपदनिषेधे श्रोत्रेन्द्रियग्रहणगोचराः। यत उत्कम् - "पुढे सुणेइ सई, रूवं पुण पासई अपुढे तु / गंधं रसं च फासं, बद्धं पुढे वियागारे // 1 // " इति / उभयपदनिषेधे श्रोत्राऽऽद्यविषयश्चुर्विषयाश्चेति / इयमिन्द्रियापेक्षया बद्धापार्श्वस्पृष्टता पुद्गलानां व्याख्याता; एवं जीवप्रदेशापेक्षया परस्परापेक्षया च व्याख्येयेति / (परियाइय त्ति) विवक्षितपर्यायमलीताः पर्याप्ता वा सामस्त्यगृहीताः कर्मपुद्गलवत् प्रतिषेधः सुज्ञातः। आत्ता गृहीताः स्वीकृता जीवेन परिग्रहमात्रतया शरीराऽऽदितया वा इष्यन्ते स्म अर्थ क्रियार्थिभिरितीष्टाः कान्ताः-कमनीयाः विशिष्टवर्णाऽऽदियुक्ताः प्रियाः प्रीतिकरा इन्द्रियाऽऽह्वादका मनसा ज्ञायन्ते शोभना एत इत्येवं विकल्पमुत्पादयन्तः शोभनत्य प्रकर्षाऽऽद्येते मनोज्ञाः-मनसो मताः वल्लभाः सर्वस्याप्युपभो तुः सर्वदा च शोभनत्वप्रकर्षादव निरुक्तिविधिना - (मणामा इति 12) व्याख्यानान्तरं त्वेवम्--इष्टावल्लभाः सदैव जीवानां सामान्येन कान्ताःकमनीयाः सदैव तद्भावेन प्रिया अद्वेष्याः सर्वेषामेव मनोज्ञाः-कथयाऽपि मनोरमाः मन आमामनःप्रियाश्चिन्तयाऽपीति विपक्षः सुज्ञातः सर्वति स्था०२ टा०३ उ०। त्रिभिः प्रकारैः स्थानैरच्छिन्नाः पुद्गलाश्चलन्तितिहिं ठाणेहिं अच्छिन्ने पोग्गाले चलेजा / तं जहा–आहा रिजमाणे वा पोग्गले चलेजा, विउव्वमाणे वा पोग्गले चलेज्जा, ठाणाओ ठाणं संकामेज्जमाणे वा पोग्गले चलेजा। (तिहीत्यादि) छिन्नाः खड्गाऽऽदिनापुद्रलाः समुदायात् चलन्त्येवेत्यत आह-"अण्छिन्नपुद्गल इति।" (आहारिज्जमाणेत्ति) आहारतया जीवेन गृह्यमाणः स्वस्थानाचलति जीवेनाऽऽकर्षणात् एवं विक्रियमाणो विक्रियकरणवशवर्तितयेति, स्थानात् संक्रम्यमाणो हस्ताऽऽदिनेति / स्था०३टा० 130 / स्थानैरच्छिन्नाः पुद्गलाश्चलन्ति / इन्द्रियार्थाश्च पुद्गलधर्मा इति। पुद्गलस्वरूपमाहदसहिं ठाणेहिं अच्छिन्ने पुग्गले चलेजा-आहारिजमाणे वा चलेजा, परिणामिजमाणे वा चलेजा, ओस्सस्सेजमाणे वा चलेजा, परियायेजमाणे वा चलेज्जा, णिस्ससिज्जमाणे वा चलेजा, वेदिज्जमाणे वा चलेजा, निजरिजमाणे वाचलेजा, विओविजमाणे वा चलेजा, जक्खाइट्टे वा चलेजा, वातपरिगए वा चलेजा।