________________ पच्चक्ख 54 - अभिधानराजेन्द्रः - भाग 5 पच्चक्खणाण नमः स्वातन्त्र्येण पूर्वं निराकृतः / एवं मानसस्य प्रत्यक्षस्याविद्यमानोपलम्भकस्य सद्भावान्न प्रसङ्गसाधने व्याप्तिसिद्धिः। तथा सर्वस्यैव स्थपत्यादेः क्रियमाणवरतुग्रहणं प्रत्यक्षसिद्धमेव। किं च-कथं जैमिनीयाः स्थिरग्रहणवादिनो वर्तमानविषयमेव प्रत्यक्ष संचक्षते, स्थिरग्रहणं हि वस्तुन एव भवति। यदि वर्तमानविशिष्टस्यैबातीतानागतकालविशिष्टग्रहणम्, अन्यथा स्थिरग्रहणाभावः। तथा चोक्तम्- "रजतं गृह्यमाणं हि, चिरस्थायीति गृह्यते।" ततः परस्परव्याहतार्थाभिधानाद्यत् किश्चित् तत्तदेव न प्रत्यक्षस्यातीन्द्रियार्थग्रहणनिषेधः, पूर्वोक्कनीत्या संभाव्यते चातीन्द्रियार्थग्रहणमध्यक्षस्य यथा संभवति तथा सर्वज्ञसिद्धौ प्रतिपादितमिति न पुनरूच्यते / किञ्च- सत्संयोगत्वाऽऽद्यविद्यमानोपलम्भत्वमुच्यते, तत्र सतासीत (?) साधुना सद्भिर्वेत्येतान् पक्षान व्युदस्याभिमतपक्षस्थापनं कृतम् / सति संप्रयोगे प्रयोगश्च श्विद्विता(?) प्रदर्शितोऽपीन्द्रियाणां व्यापारो, योग्यता वा। ननु नैयायिकाभ्युपगत एव योगाऽऽदिः, स द्विविधोऽप्यतीतानागताऽऽदिलवणेऽर्थतः करणवास्यादिना इव कार्येऽर्थेन वार्यते। अथाविद्यमाने कथं करणव्यापारः करणत्वेनाभ्युपगतायाः चोदनाथा अपि कथं कार्येऽर्थे, ततो नान्तः करणस्थ विशेषः, तत्प्रमेयस्य त्रिकालावच्छिन्नत्वात् भाविरूपस्यापि वा तद्रूपत्वेन सतो वर्तमानत्वाऽऽपत्तिः। तथा चोक्तं व्यासेन- 'अवश्यं भाविनं नाशं, विद्धि संप्रत्युपस्थितम्। अयमेव हि ते कालः पूर्वमासीदनागतः।।१।।" यत्पुनः कार्य कालत्रयापरामृष्टं शशशृङ्गाऽऽणयं तत्र कथं प्रेरणाऽऽख्यकरणव्यापारः / अथाबाधितप्रतीतिजनकत्वेन प्रेरणायास्तत्र व्यापारः, तन्तिः करणेऽप्येतत्तुल्यं, ततोऽविद्यमानोपलम्भस्य मानसाध्यक्षस्य सद्भावान्न प्रसङ्गामानसाध्यक्षस्य सद्भावान्न प्रसङ्गसाधने व्याप्तिसिद्धिरिति न प्रथमा व्याख्या। द्वितीयव्याख्याने तत्सतो व्यत्ययेऽपि च न संशयज्ञानव्युदासः / तत्र ह्ययमों व्यवतिष्ठतेयद्विषयं विज्ञानं तेनैव संप्रयोगे इन्द्रियाणां प्रत्यक्षं प्रत्वक्षाभासं त्वन्यसंप्रयोगजमिति / तत्र संशयज्ञानं सम्यगज्ञानवत् यत्प्रतिभासि तेनैव संयोगे भवति। ननूभयाऽऽलम्बनत्वादुभयप्रतिभासिसंशयज्ञानम्, न चोभयाऽऽत्मकेनेन्द्रियसंबन्धः / यद्यपि नोभयाऽऽत्मकेन तेनेन्द्रियसंबन्धस्तथापि तत्त्वतः सामान्यवान् पुरोऽवस्थितोऽधसि प्रतिभासमानाऽन्यतरविशेषाऽऽश्रयोऽतो यत्प्रतिभ्राति तेन सहेन्द्रियस्य संयोगे संशयज्ञानमुदेति / न चैतद्यवच्छेदाय किञ्चित्पदमुपात्तमिति नैतल्लक्षणात् तद्व्युदास इति न जैमिनीयमतेऽपि प्रत्यक्षलक्षणमनवद्यम् न चाकिस्तु प्रत्यक्षमपि तत्त्वतः प्रमाणमप्युपगम्यत इति न तद्विचार प्रयासः सफल इत्यक्षपादविचारितमेव प्रत्यक्षलक्षणमनवद्यमिति नैयायिकाः / असदेतत् / तदभ्युपगमेनेन्द्रियार्थसन्निकर्पोत्पन्नत्वाऽऽदेरघटमानत्वात्। तथा हि- इन्द्रियं यदि चक्षुर्गोलकाऽऽ-दिकमवयविरूपमभ्युपगम्यते, तदा तस्य स्वविषयेण व्यवहित देशेन पर्वताऽऽदीना संनिककर्षोऽसिद्धः / न ह्यत्यन्तव्यवहितयोहिमवद्विन्ध्ययोरिव चक्षुर्गोलके तदर्थयोः सन्निकर्षसंयोगाऽऽदिलक्षणः सिद्धः / न चावयविलक्षण गोवालकाऽऽदिवस्तुसंबद्धं, तद् ग्राहकाभिमतप्रमाणस्य निषिद्धत्वात् / न च तदाधारः संयोगाऽऽदिकः संबन्धः समस्ति, पराभ्युपगतस्य तस्य निषिद्धत्वात्, निषेत्स्यमानत्वाच / योऽपि कथञ्चित्पदार्थाव्यतिरिक्तं संश्लेषणकाष्ठजतुनोरिव संबन्धः प्रसिद्धः, सोऽव्यवहितेन पर्वताऽऽदिना स्वविषयेण सह चक्षुर्गालकस्यानु- पपन्नः, तत्प्रसाधकप्रमाणाभावात् / अथास्ति तत्प्रसाधक प्रमाणम, ननु तत्किं प्रत्यक्षमुतानुमानम् ? न तावत् प्रत्यक्षमत्र विषये प्रवर्तितुमुत्सहते। न हि देवदत्तचक्षुस्तद्विषयेण पर्वताऽऽदिना सबद्धमित्यस्मदादेरक्षप्रभवा प्रतिपत्तिः / अथानुमानं तत्सन्निकर्षप्रसाधनाय प्रवर्तते / ननु किं तदनुमानमिति वक्तव्यम् ? चक्षुः प्राप्तर्थप्रकाशक बाह्यत्वात त्वगादिवदित्येतदनुमानं तत्सन्निकर्षप्रसाधनं न चक्षुर्गोलकतदर्थयोरध्यक्षेणैवासन्निकृष्टयोः प्रतिपत्तेरध्यक्षे बाधितकर्मनिर्देशानन्तरप्रयुक्त त्वेनास्य हेतोः कालात्ययायपदिष्टत्वात्। अवयविलक्षणस्य च चक्षुषोः सिद्धेराश्रयासिद्धश्च हेतुः / अत एव स्वरूपासिद्धश्च / नाविद्यमानस्यावयविनो बाहोन्द्रियत्वमुपपन्नम्, त्वगादिवदिति निदर्शनमपि साध्यसाधनविकलम्। अथचक्षुःशब्देनात्र तद्रश्मयोऽभिधीयन्त इति न प्रागुक्तदोषावकाशः / न / तेषाम-सिद्धेः / इतरथाऽस्यानुमानस्य वैफल्याऽऽपत्तेराश्रयासिद्धो हेतुः। अथात एवानुमानात् तत्सिद्देनीयं दोषः, न इतरेतराश्रयदोषप्रसक्तेः / तथाहि-तद्रश्मिसिद्धावाश्रयासिद्धत्वदोषपरिहारः, तस्मिश्च सत्यतो हेतोस्तत्सिद्धिरिति व्यक्तमितरेतराश्रयत्वम् / अत एव स्वरूपासिद्धिरपि हेतोः, तेषामसिद्धौ तदाश्रयबाह्येन्द्रियत्वासिद्धेः / यदि पुनर्गोलकाद्वर्हिभूता रश्मयश्चक्षुःशब्दवाच्यार्थप्रकाशयकास्तर्हि गोलकस्याञ्जनाऽऽदिना संस्कार उन्मीलनाऽऽदिकश्व व्यापारो वैयर्थ्यमनुभवेत् / अथ गोलकाऽऽश्रयास्त इति तन्निमीलिने असंस्कारे वा तेषामपि स्थगनमसंस्कृतिश्चेति विषयं प्रति गमन तत्प्रकाशनं च न स्यादतस्तदर्थतदुन्मीलनं तत्संस्कारश्च / न च वैयर्थ्यमनुभवेत् तर्हि गोलकानुषक्तकामलाऽऽदेः प्रकाशकत्व तेषां स्यात् / न हि प्रदीपः स्वलन शलाकाऽऽदिकं न प्रकाशयतीति दृष्टम् / यैरपि गोलकान्तर्गतं तेजो द्रध्यमस्ति तदा (?) तास्त इत्यभ्युपगतं तेषामपदि दूषणं समानम् / न हि काचकूपिकान्तर्गताः प्रदीपाऽऽदिरश्मयस्ततो निर्गच्छंस्तद्योगिनमर्थन प्रकाशयन्ति / तदेवं रश्मीनामसिद्धेन ते चक्षुः शब्दाभिधेयाः / अथ रसनाऽऽदयो बाह्ययेन्द्रियत्वात्प्राप्तार्थप्रकाशका उपलब्धा बाह्येन्द्रियं च चक्षुः, ततस्तदपि प्राप्तार्थप्रकाशकं न च गोलकस्य बाह्यार्थप्राप्तिः संभविनीति पारिशेष्यात्तद्रश्मीना तप्तिप्तिरिति रश्मिसिद्धिः / नात्यासन्नमलाञ्जनशलाकाऽऽदिप्रकाशप्रसक्तेः / किं च - यदि गोलका निर्गत्य बाह्यार्थेनाभिसंबन्ध्य तद्रशमयोऽर्थ प्रकाशयन्ति, नार्थ प्रत्युपसर्पन्तस्त उपलभ्येरन्। रूपस्पर्शविशेषवतां तैससानां बयादिवत् सतामनुपलम्भे निमित्ताभावात्, नचोपलभ्यन्त इत्युपलब्धिलक्षणप्राप्तानामनुपलम्भादसत्त्वम् / अनुभूतरूपस्पर्शत्वाद उपलभ्यास्त इति चेत्, किं पुनरनुभूतरूपस्पर्शतजो द्रव्यमुपलब्धं येनैवं कल्पना भवेत्? अथ दृश्यते सतोरपि तैजसरूपस्पर्शयोनीरहेम्नोरनुभूतिः, न स्वर्णतप्तोदकयोस्तेजस्त्वासिद्धेः दृष्टानुसारेण चानुपलप्स्यमानभावः प्रकल्पनाः प्रभवन्ति। अन्यथाभास्करकराः सन्तोऽपि नोपलभ्यन्ते, अनुभूतरूपस्पर्शत्वान्नयनेन रश्मिवदित्यपि कल्पनाप्रसक्तेः / सम्भ०२ काण्ड। अवधिमनःकेवलाऽऽख्ये स्वयं दर्शनलक्षणेव व्यवसायभेद, स्था०३ ठा०३ उ० / स्वयं करणे, "पच्चक्खं संयमे च करेंति।" अहवाराज्ञा समक्ष प्रत्यक्षम्। नि०चू०४ उ० / प्रत्यक्षकरणचक्षुषे, आ०म०१ अ०। पञ्चक्खणाण न० (प्रत्यक्षज्ञान) अवधिमनःपर्यायके वलऽऽत्मके प्रत्यक्षस्वरूपे ज्ञानभेदे, नं०। ('णाण' शब्दे चतुर्थभागे 1638 पृष्ठ विशेषः)