________________ पुलागभत्त 1061- अभिधानराजेन्द्रः - भाग-५ पुलिश सां कुर्यात्, धान्यपुलाके पुनराहारिते वायुकायः प्रभूतो निर्गच्छति, ततो यदि भिक्षार्थ प्रविष्टा तस्य निरोधं करोति तदा ग्लानत्वं भवेत्, अथ वायुकायं करोति तत उड्डाहो भवेत् उड्डाहिता च लज्जया प्रतिगमनाऽऽदीनि कुर्यात, एवं रसपुलाकेऽपि क्षीराऽऽदी पीते भिक्षां प्रविष्टा यदि संज्ञामागच्छती निरुणद्धि ततो ग्लानत्वम्, अथ न निरुणद्धि ततो व्युत्सृजन्ती केनाऽपि दृष्टा लज्जया प्रतिगमनाऽऽदीनि कुर्यात्। किंचवसहीए विगरहिया, किं पुण इत्थी बहुजणम्मि सक्खीवा। लाहुक्कं पेल्लणया, लज्जानासो पसंगो य / / 370 / / स्त्री निर्ग्रन्थी सक्षीया मद्यमदयुक्ता वसतावपि वसन्ती गर्हिता, किं पुनर्बहुजने पर्यटन्ती। तथाहि-तां भदविकलाम् आपतन्ती प्रपतन्तीमालमालाभिव प्रलपन्तीं दृष्ट्वा लोकः प्रवचनस्य लाधुक्यं लाघवं कुर्यात् / अहो मतं बालं पाखण्डमिदमित्यादि। मदेन वाऽचेतना संजाता सती प्रार्थनीया सा भवति, तत उद्भ्रामकाऽऽदयस्तस्याः प्रेरणं कुर्युः, मदवशेन यदपि तदपि प्रलपन्त्या लज्जानाशो भवेत्, ततः प्रति सेवना ऽऽदावपि प्रसङ्ग स्यात्। घुन्नइ गई सदिट्ठी, जहा य रत्ता सि लोयणकवोला। अरहइ एस धुताई, णिसेवई सज्झए गेहे // 371 / / तां तथा मदभाविता दृष्टवालोको यात-यथाऽस्था गतिः सदृष्टियक्ता घूर्णते, यथा चाऽस्या लोचनकपोला रक्ता दृश्यन्ते, तथा नूनमर्हत्येषा धुताकी देशीवचनत्वादुभ्रामिकी, ईद्दशी विडम्बनामनुभवितुं या सध्वजनि गेहानि कल्पपालगृहाणि निषेवते / त्रिविधेऽपि पुलाके यथायोगममी दोषाः। छक्कायाण विराहणा, वाउभय निसग्गओ अवन्नो अ। उज्झावणमुज्झंती, सइ असइ दवम्मि उड्डाहो / / 372 / / मदविह्वला षण्णामपि कायानां विराधनां कुर्यात् धान्यपुलाकेन क्षीरेण वा भुक्तेन वायुकायः, उभयं च संज्ञाकायिकी रूपं न सा गच्छेत्, ततो भिक्षा हिण्डमाना यदि तेषां निसर्ग करोतिततः प्रवचनस्यावा भवेत्, परावग्रहे वा व्युत्सृष्ट पुरीषाऽऽदिकमवग्रहस्वामिनस्तस्याः पार्वात् उज्झापयन्ति, स्वयमेव वा ते गृहस्था उज्झन्ति। (सइ आसइदवम्मि उड्डाह त्ति) अस्तिद्रव परकलुषं स्तोकं वा, नास्तिवामूलत एव द्रवं, तत उभयथाऽपि प्रवचनस्योड्डाहो भवेत्।। कल्ले अह सक्खीवा, आसी णं संखवाइभज्जा वा। भग्गा णाए सुविही, दुट्ठि कुलं सि गरिहा य॥३७३।। कल्ये- अन्यस्मिन् दिने, अथेत्युपदर्शने, इयं सक्षीवा मद्यमदयुक्ता आसीत्, णमिति वाक्यालङ्कारे एवं गन्धपुलाकत्युत्कवतीं जना उपहसन्ति। वायुकायशब्दं च श्रुत्वा ब्रवीरन् अहो इयंशवादकस्य भार्या पूर्वमासीत्। यद्वा--भग्ना अनया इत्थं वायुकायेनाश्रान्तं पूरयन्त्या सुविही अङ्गण मण्डपिका एवं प्रपञ्चयेयुः / (दुहिट्ठकुलं सि गरिहा य ति) दुदृष्टिधर्माणोऽमी, कुलगृहं चैताभिरात्मीयं मलिनीकृत मेवं ग्रर्हा भवति / ततश्च प्रतिगमनाऽऽदयो दोषाः। यत एवमत:जहिं एरिसौ आहारो, तहिं गमणे पुव्ववणिया दोसा। गहणं च अणाभोए, ओमे तह कारणेहिं गया // 37 // या विषये ईदृशं पुलाक आहारो लभ्यते तत्रा निर्ग्रन्थीभिर्नेव गन्तव्य, यदि गच्छन्ति तदा त एव पूर्ववर्णिता दोषाः / अथवा अशिवाऽऽदिभिः कारण्णैर्गता भवेयुः तत्रा चानाभोगेन पुलाकभक्तस्य ग्रहणं भवेत्। ततः किमित्याह - गद्दियमणाभोगेणं, वाइगवजं तु सेस वा भुंजे। मिच्छुप्पियं तु भुत्तं, जा गंधो ता न हिंडंती॥३७५।। यद्यनाभोगेन पुलाकं गृहीतं भवति तदा (वाइगं) विकट, तद्गर्जयित्वा शेष वा विभाषया भुञ्जीरन् / किमुक्तं भवति? यदि तदपर्याप्तमन्यच्च भक्तं लभ्यते तदान भुञ्जते, किंतु तत्परिठाप्यान्यद्भक्तं गृह्णन्ति। अथ पर्याप्त, तदा भुञ्जते, भुक्त्वा च तेनैव भक्तार्थेन पर्युषयन्ति, विकटं तु सर्वथैव न भोक्तव्यं, म्लेच्छप्रियं नामपलाण्डु, तत्पुनर्भुक्तं, यावत् तदीयो गन्ध आगच्छति तावन्न हिण्डन्ते। कारणगमणे वि तहिं, पुव्वं घेत्तूण पच्छ तं चेव। हिंडण पेल्लण बिइए, ओमे तह पाहुणट्ठा वा // 376|| अवमाऽऽदिकारणैर्गतायामपि मद्यपलाण्डुलसुनान्येकान्तेन प्रतिषिद्धानि, अथपूर्वमनाभोगाऽऽदिना गृहीतं, ततः पुलाकं गृहीत्वा पश्चात्तदेव भक्त्वा तेनैव भक्तार्थेन तदिवसमासते न भूयो भिक्षामटन्ते। द्वितीयपदे द्वितीयमपि वारं भिक्षार्थ प्रविशेत्, अवमंदुर्भिक्षं तत्रा पर्याप्तं न लभ्यते, प्राघुणका वा संयत्यः समायाताः, तनो भूयोऽपि भिक्षां हिण्डनं कुर्वाणानामिय यतना (पिल्लण ति) धान्यपुलाके आहारिते यदि वायुकाय आगच्छेत् तत्र एकं पुनः पार्श्व प्रेर्य वायुकाय निसृजन्ति, उभयलक्षणमिदम्-तेन यदा संज्ञासंभवः तदा यद्यन्यासां संयतीनामासन्ना वसतिस्तदा तत्र गन्तव्यं, तदभावे भावितायाः श्राद्धिकायाः पुरोहडाऽऽदी व्युत्सर्जनीयम्।। एसेव गमो नियमा, तिविहपुलागम्मि होइ समणाणं! णवरं पुण नाणत्तं, होइ गिलाणस्स वइयाण / / 377|| एष एव गमः-प्रकारो नियमात् त्रिविधेऽपिपुलाके श्रमणानामपि भवति, नवरं पुनरा नानात्वं,ग्लानस्य दुग्धाऽऽदिकमानेतुं व्रजिकायां साधवो गच्छेयुस्ता च गताः, संस्तरन्त आत्मयोग्य रसपुलाकंन गृह्णन्ति, अथ न संस्तरन्ति, ततः क्षीराऽऽदिकं भुक्त्वा न भूयो भिक्षामटन्ति, कारणे तुभूयोऽप्यटन्तस्तथैव यतनां कुर्वन्ति / बृ०५ उ०। पुलागलद्धि स्त्री० (पुलाकलब्धि) पुलाकत्वनिबन्धने लब्धि भेदे, प्रव० 270 द्वार। ('पुलाग' शब्दे लक्षणं गतम्) पुलागविपुलायपुं०(पुलाकविपुलाक)संयमासारताऽऽपाद कदोषरहिते, "पुल (लाग) विपुलाए कयविक्कयसंनिहिओवरए सव्वसंगावगए जे स भिक्खू।" दश० 10 अ०। पुलासिअ (देशी) अग्निकणे, दे० ना० 6 वर्ग 55 गाथा। पुलिअन० (पुलित) गतिविशेषे, औ०। पुलिंद पु० (पुलिन्द) अनार्यदशविशेषे, सूत्रा० 2 श्रु०१ अ० / ज्ञा०| प्रश्न० / रा०। प्रव० / प्रज्ञा० / आव०। नि० चू०। पुलिश पु०(पुरुष)"रसौलशो"| 25|| इति मा