________________ पुरिसवि(च)जयविभंग 1050- अभिधानराजेन्द्रः - भाग-५ पुरिसवि(च)जयविभंग व्यामोहो न विधेय इति। ते श्रावकाः प्रतिज्ञातबन्धमोक्षस्वरूपाः सन्तो न धर्माच्च्याव्यन्ते मेरुरिव निष्प्रकम्पादृढमाईते दर्शनऽनुरक्ताः। अत्रा चार्थे सुख प्रतिपत्यर्थं दृष्टान्तभूतं कथानकम्। तचेदम-राजगृहे नगरे कश्चिदेकः परिव्राट् विद्यामन्त्रौषधिलब्धसामर्थ्यः परिवसति, स च विद्याऽऽदिबलेन पत्तने पर्यटन यां यामभिरूपतरामङ्गनां पश्यति ता तामपहरति, ततः सर्वनागरैः राज्ञे निवेदितम्। यथा देव ! प्रत्यहं पत्तनं मुष्यते केनापि, नीयते सर्वसारमङ्गनाजनोऽपि, यस्तस्यानभिमतः सोऽर केवलवमास्ते, तदेवं क्रियता प्रसादस्तदन्वेषणेनेति / राज्ञाऽभिहितगच्छत यूयं विश्रब्धा भवताऽवश्यमहं तं दुरात्मानं लप्स्ये। किंच-यदि पञ्चषैरहोभिन लभे चौर विमर्षयुक्तोऽपि च त्यक्ष्याम्यात्मानमहं ज्वाला - मालाकुले वहौ। तदैव कृतप्रतिज्ञ राजानं प्रणम्य निर्गता नागरिकाः। राजा च सविशेष नियुक्ता आरक्षकाः। आत्मनाऽप्येकाकी खड़गखेटकमतोऽन्चेष्टुमारब्धो, न चोपलभ्यते चौरः ततो राज्ञा निपुणतरमन्वेषयता पञ्चमेऽहनि भोजनताम्बूलगन्धमाल्याऽऽदिक गृहन् रात्री स्वतो निर्गतनोपलब्धः स परिवाट्तत्पृष्ठगामिना नगरोद्यानवृक्षकोटर प्रवेशेन गुहाभ्यन्तरं प्रविश्य व्यापादितः। तदनन्तर समर्पितं यद्यरय सत्कमहनाजनोऽपीति। तत्र चैका सीमन्तिनी अत्यन्तमौषधिभिर्भाविता नच्छत्यात्मीयअपि भरि, ततस्तद्विद्भिरभिहितम् यथाऽस्याः परिवाट्सत्कान्यस्थीनि दुग्धेन सह संघृष्य यदि दीयन्ते तदेयं तदागृहं मुञ्चति, ततस्ततस्वजनैरेवमेव कृत, यथा यथा चासौ तदस्थ्यभ्यवहारं विधत्ते तथा तथा तत्स्नेहानुबन्धोऽपैति, सर्वास्थिपाने चापगतः प्रेमानुबन्धः, तदानुरक्ता निजे भर्त।ि तदेवं यथाऽसावत्यन्तं भाविता तेन परिवाजा नेच्छत्यपरमेवं धावकजनोऽपि नितरां भाविताऽऽत्मा मोनीन्द्रशासने न शक्यते अन्यथा कर्तुम्, अत्यन्तं सम्यक्त्वौषधेन वासितत्वादिति। पुनरपि श्रावकान् विशिनष्टि (जाव उसियफलिहा इत्यादि) उच्छितानि स्फटिकानीव स्फटिकानि-अन्तः करणानि येषा ते तथा / एतदुक्तं भवति-मौनीन्द्रदर्शनवाप्तौः सत्यां परितुष्टमानसा इति, तथा अप्रावृतानि द्वाराणि यैस्तै तथा, उद्घाटित गृहद्वारास्तिष्ठन्ति / अचियत्तोऽन भिमतोऽन्तःपुरप्रवेशवत्परगृहद्वारप्रवेशोऽन्यतीर्थिकप्रवेशो येषां ते तथा, अनवरतं श्रमणानुद्युत्कविहरिणो निम्रन्थान् प्रासुकेनैषणीयेनाशनाऽऽदिना तथा पीठफलकशय्या संस्तारकाऽऽदिना च प्रतिलाभयन्तस्तथा शेषस्त्वनर्थो , यरमादेवं प्रतिपद्यन्ते तस्मात्ते समुच्छितमनसः सन्तः साधुधर्मे श्रावकधर्म च प्रकाशयन्तो विशेषणैकादशोपास कप्रतिमाः स्पृशन्तो विहरन्तोऽष्टमीचतुर्दश्यादिषु पौषधोपवासाऽऽदौ साधून प्रासुकेन प्रतिलाभयन्ति, पाश्चात्ये च काले संलिखितकायाः संस्ताकथमणभावं प्रतिपद्य भक्तं प्रत्याख्यायाऽऽयुषः क्षये देवेषूत्पद्यन्ते, ततोऽपि च्युताः सुमानुषभावं प्रतिपद्य तनैव भवेनोत्कृष्टतः सप्तस्वष्टसु वा भवेषु सिद्धयन्तीति। तदेतत्स्थान कल्याणपरम्परया सुखविपाकमिति कृत्वाऽऽर्यमिति / अयं विभङ्गस्तृतीयस्य मिश्रकाऽऽख्यस्याऽऽरण्यात इति / उक्ता धार्मिकाः, अधार्मिकास्तदुभयरूपाश्चाभिहिताः। साम्प्रतमेतदेव स्थानत्रिकमुपसंहारद्वारेण संक्षेपतो विभ णिषुराहअविरइं पडुच वाले आहिज्जइ, विरई पडुच पंडिए आहिज्जइ, विरयाविरई पडुच बालदिए आहिज्जइ। तत्थणं जा सा सव्वतो अविरई एस ठाणे आरंभट्ठाणे अणारिए० जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ णं जा सा सव्वतो विरई एस ठाणे अणारं भट्ठाणे आरिए० जाव सव्वदुक्खप्पहीणमग्गे / एगंतसम्म साहू, तत्यणं जा सा सव्वओ विरयाविरई एस हाणे आरंभणोआरंभट्टाणे एस ठाणे आ(य)रिए० जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू। (13 सूत्र) (अविरई इत्यादि) येयमविरतिरसंयमरूपा सम्यक्तवा भावान्मिथ्यादृष्टर्दव्यतो विरतिरप्यविरतिरेव, तां प्रतीत्य आश्रित्य बालवद्वालोऽज्ञः सदसद्विवेकविकलत्वात् इत्येसमाधीयते व्यवस्थाप्यते आख्यायते वा, तथा विरतिं च प्रतीत्य-आश्रित्य पापाड्डीनः पण्डितः परमार्थज्ञो वेत्येवमाधीयते आख्यायते वा, तथा विरताविरतिं चाऽऽश्रित्य वालपण्डित इत्येतत्प्राग्वदायोज्यमिति। किंमित्यविरतिविरत्या श्रयेण बालपण्डितपाण्डित्याऽऽपत्तिरित्याशङ्कयाऽऽह (तत्थ णमित्यादि) तत्रा पूर्वोक्तेषु स्थानेषु येयं सर्वाऽऽत्मना सर्वस्मात् अविरतिर्विरतिपरिणामाभावः, एतत्स्थानं सावधाऽऽरम्भस्थानमाश्रयः एतदाश्रित्यसर्वाण्यपि कार्याणि क्रियन्ते। यत एवमत एतदनार्य स्थानं निःशुक्रतया यत्किश्चन कारित्वाद्याव दससर्वदुःखप्रक्षीणमार्गोऽयं तथैकान्तमिथ्या रुपोऽसाधुरिति। तत्रा चेयं विरतिः सम्यक्तवपूर्विका सावद्याऽऽ रम्भानिवृत्तिः सा स्थगितद्वारत्वात् पाषानुपादानरूपेति। एतदेवाऽऽह-तदेतस्थानम् अनारम्भस्थान सावद्यानुष्ठाना हितत्वात्संयमस्थानं तथा चैतत्स्थानमार्यास्थानम्। आराद्यात सर्वहयधर्मेभ्य इत्यार्य, तथा सर्वदुःखप्रक्षीण मार्गोऽशेषकर्मक्षयपथः इति। तथैकान्तसम्यग्भूतः। एतदेवाऽऽह-साधुरिति, साधुभूतानुष्ठानात्साधुरिति। तत्रच येयं विरताविरतिरभिधीयते सैषा मिश्ररथान - भूता, तदेतदारम्भानारम्भरूपस्थामेतदपि कथञ्चिदार्यमव, पारम्पर्येण सर्वदुः खपहीणमार्गः, तथैकान्तसम्यग्भूतः साधुश्चेति / तदेवमनेकविधोऽयमधर्मपक्षो धर्मपक्षस्तथा मिश्रपक्षश्चेति संक्षेपेणामिहितः पक्षत्रायसमाश्रयणेन / सूत्र०२ श्रु०२ अ० प्रति०। न्ति स्तिष्ठन्ति। तदेव ते परमश्रावकाः प्रभूतकालमणुव्रतगुणव्रत शिक्षावतानुष्ठायिनः सधूनामौषधवस्त्र पात्राऽऽदिनोपकारिणः सन्तो यथोक्त यथाशक्ति सदनुष्ठानं विधायोत्पन्ने वा कारणेऽनुत्पन्ने वा भक्तं प्रत्याख्यायाऽऽलोचितप्रतिकान्तः समाधिप्राप्ताः सन्तः कालमासे कालं कृत्वाऽन्यतरेषु देवेषुत्पद्यन्ते इति / एतानि चाभिगतजीवाजीवाऽऽदिकानि पदानि हेतुहेतुमद्भावेन नेतव्यानि। तद्यथा यस्मादभिगतजीवाजीवास्तस्मादुपलब्धपुण्यपाषाः यस्मादुपलब्धपुण्यपापास्तरमादुच्छिदमनसः। एवप्तुत्तरत्रापि एकैकंपदं त्यजद्भिदरेकैकं चोत्तरं गृहद्भिर्वाच्यं, ते च परेण पृष्टा अपृष्टा वा एतदूचुः / तद्यथा-अयमेव मौनीन्द्रोत्को मार्ग: सदर्थः