________________ पुरिसवि(च)जयविभंग 1040- अभिधानराजेन्द्रः - भाग-५ पुरिसवि(च)जयविभंग कूला सदनुष्ठानप्रतिघातिकां ते अनायोंविप्रतिपन्ना विद्या सेवन्ते, ते च यद्यपि क्षेत्राऽऽया भाषास्तिथाऽपि मिथ्यात्वोपहतबुद्धयोऽनार्यकर्मकारित्वादनार्या एव द्रष्टव्याः तेव स्वाऽऽयुषः क्षये कालमासे कालं कृत्वा यदि कथञ्चिदेवलोकगामिनो भवन्ति ततोऽन्यतरेषु आसुरीयकेषु किल्विषिकाऽऽदिषु स्थानेषूत्स्यन्ते, ततोऽपि विप्रमुक्ताश्चयुताः, यदि वा-मनुष्येषूत्पद्यन्ते, तत्रा च तत्कर्म शेषतयैडमूकत्वेनाव्यक्तभाषिणस्तमत्वेनान्धतया मूकतयावा प्रत्यागच्छन्ति, ततोऽपि नानाप्रकारेषु यातनास्थानेषु नरकतिर्यगादिषूत्पद्यन्ते। साप्रतं गृहस्थानुद्दिश्या धर्मपक्षसेवनमुच्यतेसे एगइओ आयहेउं वा णायहेउं वा अगारहेउं वा परिवारहे वानायगंवा सहवासियं वाणिस्साए अदुवा अणुगामिए 1, अदुवा उवचरए 2, अददा पडिपहिए 3, अदुवा संधिच्छेदए 4, अदुवा गंठिच्छेदए 5, अदुवा उरडिभए 6, अदुवा सोवरिए 7, अदुवा वागुरिए , अदुवा साउणिए 6, अद्वा मच्छिए 10, अदुवा गोधायए 11, अदुवा गोवालए १२,अदुवा सोवणिए 13, अदुवा सोवणियंतिए 14 / (से एगइओ इत्यादि) स एकः कदाचिन्नित्रिशः सांप्रतापेक्षी अपगतपरलोकध्यवसायः कर्मपरतया भोगलिप्सुः संसारस्वभावानुवयात्मनिमित्तं वेत्येतान्यनुगामुकाऽऽदीन्यन्य कर्तव्यहेतुभूतानि चतुर्दशाऽसदनुष्ठानानि विधत्ते, तथा-ज्ञातयः स्वजनास्तन्निमित्तं तथाऽगारनिमित्तंगृहसंस्करणार्थ सामान्येन वा कुटुम्बार्थपरिवारनिमित्तं वा दासीदासकर्म कराऽऽदिपरिकस्कृते, तथा ज्ञात एव ज्ञातकः परिचितस्त समुद्दिश्य, तथा सहवासिक वा प्रातिवेश्मिकं निश्रीकृत्यैतानि वक्ष्यमाणानि कुर्यादिति संबंन्धः। तानि च दर्शयितुमाह - (अदुवेत्यादि) अथवेत्येवंवक्ष्यमाणपेक्षया पक्षान्तरोपलक्षणार्थः, गच्छन्तमनुगच्छतीत्यनुगामुकः, स चाऽकार्याध्यवसायेन विवक्षितस्थानकालाऽऽद्यपेक्षया विरूपकर्त्तव्यचिकीर्षुस्तं गच्छन्तमनुगच्छति अथवा-तस्यापकर्त्तव्य स्यापकारावसरापेक्ष्युपचरको भवति, अथवा-तस्य प्रातिपथिको भवति , प्रतिपथं संमुखी नमागच्छति, अथवा आत्मस्वजनार्थ सन्धिच्छेदको भवति चौर्य प्रतिपद्यते, अथवोरभैर्मषैश्चरत्यौरभ्रिकः / अथवा- सौकरिको भवति, अथवा शकुनिभिः-पक्षिभिश्चरतीति शाकुनिकः, अथवा-वागुरया मृगाऽऽदिबन्धनरज्ज्वा चरति वागुरिकः, अथवा-मत्स्यैश्चरति मात्स्यिकः, अथवा-गोपालभावं प्रतिपद्यते, अथवा गोघातकः स्याद्, अथवा-श्वभिश्चरति शौवनिकः, शुना परिपालको भवतीत्यर्थः, अथवा-(सोधणियं ति) श्वभिः पापर्द्धि कुर्वन्मृगाऽऽदीनामन्तं करोतीत्यर्थः / तदेवमेतानि चतुर्दशाऽप्युद्दिश्य प्रत्ये कमादिः प्रभृति विवृणोतिएगइओ आणुगामियभावं पडिसंधाय तमेव अणुगामिया- 1 णुगामियं हंता छेत्ता भेत्तालुंपइत्ता विलुपइत्ता उद्दवइत्ता आहारं / आहारेति, इति से महया पावहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ / / 1 / / से एग्गओ उवचरयभावं पडियसंधाय तमेव उवचरियं हंता छेत्ता भेत्तालुंपइत्ता विलुंपइत्ता उद्दवइत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ / / 2 / / तत्रैकः कश्चिदात्माऽऽद्यर्थमपरस्य-गन्तुग्रामान्तर किश्चिद् द्रव्याजातमवगम्य तदादित्सुस्तस्यैवानुगामुकभावं प्रतिसंघाय सह गन्तृभावेनाऽऽनुकूल्य प्रतिपद्य विवक्षितवञ्चनावसर कालाऽऽद्यपेक्षी तमेव गच्छन्तमनुव्रजति, तमेव चाभ्युत्थानविनयाऽऽदिभिरत्यन्तोपचारैरुपचर्यानुव्रज्य च विवक्षितमवसरं लब्ध्वा तस्याऽसौ हन्ता दण्डाऽऽदिभिः, तथा छेत्ता खगाऽऽदिना हस्तपादाऽऽदेः, तथा भेत्ता वज्रमुष्टयादिना, तथा लुम्पयिता केशाऽऽकर्षणाऽऽदिकदर्थनतः, तथा-विलुम्पयिता कशाप्रहाणऽऽदिभिरत्यन्तदुःखोत्पादनेन, तथाऽपद्रावयिता जीविताद् व्यरोपणतो भवतीत्येवमादिक कृत्वा ऽऽहारमाहारयत्यसौ / एतदुत्कं भवति-गल कर्त्तकः कश्चिदन्यस्य धनवतोऽनुगामुकभावं प्रतिपद्य तं बहुविधैरुपायै विश्रम्भे पातयित्वा भोगार्थीमोहान्धः साम्प्रतक्षितया तस्य रिक्थवतोऽपकृत्याऽऽहाराऽऽदिकां भोगक्रियां विधत्ते / इत्येवमसौ महद्भिः क्रूरैः कर्मभिः-अनुष्ठानैर्महापातकभूतैर्वा तीव्रानुभावैर्दीर्घस्थितिकैरात्मानमुपाख्यापयिता भवति, तथा ह्ययमसौ महापापकारीत्येवमात्मानं लोके ख्यापयति, अष्टप्रकारैः कर्मभिरात्मानं तथा बन्धयति यथा लोके तद्विपाकाऽऽपादितनावस्थाविशेषण सता नारकतिर्यडनरामररुपतयाऽऽख्यात इति / / 1 / / तदेवमेकः कश्चिदकर्त्तव्यामिसन्धिना परस्य स्वापतेयवतस्तद्वञ्चनार्थमुपचरकभावं प्रतिसंधाय प्रतिज्ञाय पश्चातं नानाविधैर्विनयोपायैरुपचरित, उपचर्य च विश्रम्भे पातयित्वा तद्रव्यार्थी तस्य हन्ता छेत्ता भेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं महद्भिबृहद्भि पापैः कर्मभिः उपाख्यापयिता भवतीति // 2 // से एगइओ पाडिपहियभावं पडिसंघाय तमेव पडिपहे द्विचा हंता छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ / / 3 / / से एगइओ संधिच्छे दगमावं पडिसंधाय तमेव संधि छेत्ता भेत्ता०जाव इति से महया पावेहि कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ||४|| अथैकः कश्चित्प्रतिपथेन अभिमुखेन चरतीति प्रातिपथिकस्तद्भावं प्रतिपद्यापरस्यार्थवतस्तदेव प्रातिपथिकत्वं कुर्वन प्रतिपथे स्थित्वा तस्यार्थवतोविश्रम्भतोहन्ताछेता यावदपद्रावयिता भवतीत्येवमसा-वात्मान पापैः कर्मभिः ख्यापयतीति / / 3 / अथैकः कश्चिद्विरुपकर्मणा जीवितार्थी संधिच्छेदकभावखत्राखननत्वं प्रतिपद्याऽनेनोपायेनाऽऽत्मानमहं कर्तयिष्यामि इत्येवं प्रतिज्ञां कृत्वा तमेव प्रतिपद्यते, ततोऽसौ सन्धिं छिन्दन् खत्रं खनन प्राणिनां छेता भत्ता विलुम्पयिता भवतीति, एतच कृत्वाऽऽहारमाहारयतीति। एतच्चोपलक्षणभन्यांश्च कामभोगान् स्वतो भुक्तेऽन्यदपि ज्ञातिगृहादिक पालयतीत्येवमसौ महद्भिः पापैः कर्मभिरात्मानमुपख्यापमति / /