________________ पुरिसलिंगसिद्ध 1038- अभिधानराजेन्द्रः - भाग-५ पुरिसवि(च)जयविभंग maaaaamaaman awam wwwwwwwwww पुरिसलिंगसिद्ध पुं० (पुरुषलिङ्गसिद्ध) पुंलिङ्गशरीरनिवृत्तिरुपे व्यवस्थिते सति सिद्धे, नं० / पा०। पुरिसबग्ध पुं० (पुरुषव्याघ्र) पुरुषेषु व्याघ्र इव शूरतया पुरुषव्याघ्रः / रा०। रोषे सति रौद्ररुपे पुरुष, औ०। पुरिसवयण न० (पुरुषवचन) घटः पट इत्यादिरुपे पुंवचने, आचा०२ श्रु० १चू० 4 अ० 1 उ०। पुरिसवर पुं० (पुरुषवर) पुरुषाणां मध्ये प्रधाने, औ०। स्था०। पुरिसवरगंधडत्थि(णा) पुं० (पुरुषवरगन्धहस्तिन) तीर्थकरे, भ०। पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती, यथा गन्धस्तिनो गन्धेनापि समस्तेतरहस्तिनो भञ्जन्ते तथा भगवतस्तद्देशविहरणेन ईतिपरचक्रदुर्भिक्षडमरमरकाऽऽदीनि दुरितानि नश्यन्तीति पुरुषवरगन्धहस्तीत्युच्यते इति। पुरुषातेमे, भ०१२०१ उ०। कल्प० / रा०। प्रणिपातदण्डकनवमसूत्रम् - पुरिसवरगंधत्थीणं / / 6 / पुरुषवरगन्धहस्तिभ्य इति। पुरुषाः पूर्ववदेव, ते वरगन्ध हस्तिन इव गजेन्द्रा इव क्षुद्रगजनिराकरणाऽऽदिना धर्म साम्येन पुरुषवरगन्धहस्तिनः, यथा गन्धहस्तिनां गन्धेनैव तद्देशविहारिणः क्षुद्रशेषगजा भज्यन्ते, तद्वदेतेऽपि, परचक्रदुर्भिक्षमारिप्रभृतयः सर्व एवोपद्रवगजा अचिन्त्यपुण्यानुभावतो भगवद्विहारपवनगन्धादेव भज्यन्त इति, न चैकानेकस्वभावत्वे वस्तुन एवमप्यभिधानक्रमाऽभावः, सर्वगुणानामान्योऽन्य संवलितत्वात् पूर्वाऽनुपूव्वर्याऽऽद्यभिधेयस्वभावत्वात्, अन्यथा तथाऽभिधानायप्रवत्तेः, नैवमभिधेयमपि तथाऽक्रमवदसदित्युक्तवद्, अक्रमवत्तवासिद्धेः, क्रमाऽक्रम व्यवस्थाऽभ्युपगमाच, अन्यथा न वस्तुनिबन्धना शब्दप्रवृत्तिरिति स्तववैयर्थ्यमेव, ततश्चान्धकारनृत्तानुकारी प्रयास इति, पुरुषवरगन्धहस्तिन इति / / 6 / ल०। ध०। पुरिसवरपुंडरीयन० (पुरुषवरपुण्डरीक) तीर्थकरे, वरपुण्डरीकं प्रधानधवलसहस्त्रपत्रां पुरुषो वरपुण्डरीकमिवेति पुरुषवरपुण्डरीकम्। धवलत्वं चास्य भगवतः सर्वाशुभमली मसरहितत्वात् सवैश्च शुभानुभावैः शुद्धत्वात्। अथवा पुरुषाणां तत्सेवकजीवानां वरपुण्डरीकमिववरच्छत्रमिव यः सन्तापाऽऽतपनिवारणसमर्थत्वा भूषाकारणत्वाच्च स पुरुषवरपुण्डरीकमिति। भ०१ श० 1 उ० / सूत्र० / स० / जी०। रा०। कल्प०। पुरुषो वरपुण्डरीकमिव संसारजलाऽऽसङ्गाऽऽदिना धर्मकलापेन पुरुषवरपुण्डरीकम्। 302 अधि०। प्रणिपातदण्डकाष्टमसूत्रम् --- पुरिसवरपुंडरीयाणं // 8 // यथा पुण्डरीकाणि पङ्के जातानिजले वर्द्धितानि तदुभयं विहाय वर्तन्ते, प्रकृति सुन्दराणि च भवन्ति, निवासो भुवनलक्ष्म्या आयतनं चक्षुराद्यानन्दस्य, प्रवरगुणयोगतो विशिष्टतिर्यग्नरामरैः सेव्यन्ते, सुखहेतूनि भवन्ति च, तथैतेऽपि भगवन्तः कर्मपड्के जाता दिव्यभोगजलेन वर्द्धिता उभयं विहाय वर्तन्ते, सुन्दराश्चातिशययोगेन, निवासो गुणसंपदः, हेतवो दर्शनाऽऽद्यानन्दस्य, केवलाऽऽदिगुणभाववेन भव्यसत्वैः सेव्यन्ते, निर्वाणनिबन्धनं च जायन्त इति नैव भिन्नजातीयोपमायोगेऽप्यर्थतो विरोधाभावेन यथोदितदोषसंभव इति, एकानेकस्वभाव चवस्तु, अन्यथा तत्तत्वासिद्धेः, सत्वामूर्त त्वचेतनत्वाऽऽदिधर्भरहितस्य जीवत्वाऽऽद्ययोग इति न्यायमुद्रा, न सत्वमेवामूर्तत्वाऽऽदि, सर्वा तत्प्रसङ्गात्, एवं च मूर्तस्वाऽऽधयोग, सत्वविशिष्टताऽपिन, विशेषणमन्तरेणातिप्रसङ्गात्, एवं नाभिन्ननिमित्तत्वाद्दते विरोध इति पुरुषवर पुण्डरीकाणि / / 8 / / ख०1०। पुरिसवरपुंडरीओ, अरहा इव सव्वपुरिससीहाणं / / (5) (पुरिसवर त्ति) पुरुषाणां मध्ये वरः पुरुषवरः, पुरुषवराणां मध्ये पुण्डरीकमिव-कमलमिव, यथा पुण्डरीकं जले जातं जले च वृद्धिमुपगत न पडून लिप्यते, नापि जलेन, किंतु जलोपरि वयैव भवति, एवमर्दापि तीर्थकरः, कामैजातो भोगैर्वृद्धिमुपगतो न कामैर्लिप्तो नापि भौगे, किंतु त्रिभुवनोपर्ये व जातः, पुण्डरीकमातपत्रां पुरुषवराणां पुण्डरीकमिव आतपत्रमिव, तद्धि आतपं निवारयति, अर्हापि कर्माऽऽतपनिवारणसमर्थत्वात्तेनोपमीयते / यदि वा-पुण्डरीकश्चित्रकः पुरुषवराणां मध्ये पुण्डरीक इव, यथा स केनापि पशुजातीयेन नपराभयूते, एवमर्दापि त्रिषष्टयधिकैरिवभिः पाषाण्डिकशतैर्न कदाऽपि पराभूयत इति। संथा० / ध०। स०। पुरिसवाइ(ण) पुं० (पुरुषवादिन्) ईश्वरवादिनि, सम्म० / अन्यस्त्वाह -- पुरुष एवैकः सकललोकस्थितिसर्गप्रलयहेतुः प्रलयेऽप्यलुप्तज्ञानातिशयशक्तिरिति / तथा चोक्तम्- "ऊण्णांनाभ इवाशूना, चन्द्रकान्त इवाम्भसाम्। प्ररोहणामिव प्लक्षः, स हेतुः सर्वजन्मिनाम् / / 1 / / " इति। तथा-''पुरुष एवेदं सर्वं यत् भतं यच्च भाव्यम् 'इत्यादि। ऊर्णनाभोऽत्र कर्मटको व्याख्यातः। अत्रा यथा सकललोकस्थितिसर्गप्रलयहेतुता ईश्वरस्यैवं पुरुषवादिभिः पुरुषस्येष्टा / विशेषस्तु समवायाऽऽद्यपरकारणसव्यपेक्ष ईश्वरोजगति वर्तयत्ययं तु केवल एव, अस्यं चेश्वरस्येव जगद्धेतुताऽसङ्गता। तथाहि-"पुरुषो जन्मिनां हेतुर्नोत्पतिविकलत्वतः। गगनाम्भोजवत् सर्वमन्यथा युगपद् भवेत् / / 1 / / " सम्म०३ काण्ड / रथा०। पुरिसवि(च)जयविभंगपुं० [पपुरुषवि(च)] जयविभङ्गबपुरुषा विचीयन्ते मृग्यन्ते विज्ञानद्वारेणान्वेष्यन्ते येन स पुरुष विचयः। पुरुषविजयो वा केषाञ्चिदत्यरात्वानां तेन ज्ञानबलेनावधिप्रयुत्केनानानुबन्धेन विजयादिति। स च विभङ्गवदवधिज्ञानविपर्यवद्विभङ्गो ज्ञानविशेषः। पुरुषविचयश्चासौ विभङ्गश्च पुरुषविचयविभङ्गः। ज्ञानविशेषे, सूत्र०। त्रयोदशसु क्रियास्थानेषु यन्नाभिहितं पापस्थानं तद्वि भणिषुराहअदुत्तरं च णं पुरिसविजयं विभंगमाइक्खिस्सामि, इह खलु णाणापण्णणं णाणाछंदाणं णाणासीलाणं णाणादिट्ठीणं णाणारुईणं णाणाऽऽरंभाणं णाणाऽज्झवसाण संजुत्ताणं णाणाविहपादसुयज्झयणं एवं भवइ। (अदुत्तरमित्यादि) अस्मालायो दशक्रि यस्थानप्रतिपादना दुत्तरं यदत्र न प्रतिपादितं तदधुनोत्तरभूतेनानेन सूत्रसंद