________________ पुरिमड्ड 1011- अभिधानराजेन्द्रः - भाग-५ पुरिस षण्मासिकी 6 सप्तमासिकी 7 प्रथमसप्तरात्रिदिवा 8 द्वितीयसप्तरात्रि- | न्दिवा : तृतीयसप्तरात्रिन्दिवा 10 अहोरात्रिीकी 11 एकरात्रिकी 12 चेति। एतासामश्रद्धाने विपरीतप्ररूपणा चा अभिग्रहा द्रव्यक्षेत्राकालभावमंदाभिन्नाः, तेषामग्रहणे च पुरिमाद्धम् एव प्रायश्चितम् / उत्तरार्द्ध तु (पक्खियति) उपलक्षितत्वात् पाक्षिकचातुर्मासिक सांवत्सारकेषु निर्विकृतिकाऽऽदिकं पुरुषाऽऽदिविभागतो ज्ञेयम् / अयमर्थः- पाक्षि के चामाम्लं च नित्यदिनकृत्यतपसो वाऽधिकं तपः शक्त्यनुसारेण कुर्वतः क्षुल्लकस्य वृद्धस्याऽऽपुरिक्षाए (?) उपाध्यायस्य आचार्यस्याभक्तार्थचातुर्मासिके षष्ठमन्यद्वा यथाशक्यतुवचनात् क्षुल्लकाऽऽदीनां पञ्चाऽदीनां पुरिमाध्दैकाशनाचाम्लचतुर्थषष्ठानि सांवत्सरिके चाष्टममन्यद्वा यथाशक्त्या तपः कुर्वतामेकाशनाचाम्लचतुर्थषष्ठामानि यथासंख्यं भवन्ति। फिडिए सवमुस्सारिएँ, भग्गे वेगाइवंदणुस्सगे। निव्वीइयपुरमेगा-सणाई सम्वेसु चाऽऽयामं // 52 // स्फिडित स्वयमुत्सारिते भग्ने वा एकादिवन्दनोत्सर्गे निर्विकृतिक पुरिमैकाशतानि सर्वेषु वाऽऽचाम्लमिति। अयं भावार्थ : - निद्राऽऽदिप्रमादवसतो गुरुभिः सह प्रतिक्रमणे स्फिटिते न मिलितः, एकस्मिनन्कायोत्सर्ग निर्विकृतिक, द्वयोः पुरिमार्द्ध त्रिष्वेकाशनं, तथा गुरुभिरपारितेऽपि कायोत्सर्गे स्वयमात्मना प्रथममेव पारिते भग्ने वा कायोत्सर्गे अचिन्तयित्वाऽपि सर्वविन्तनीयमन्तराल एव पारिते एकद्वित्रिसंख्येयकायोत्सर्गे यथासंख्य निर्विकृतिकपुरिमार्द्वकाशनानि, सर्वेष्वपि च कायोत्सर्गेषु स्फिटितत्वे भग्नत्वे च आचामाम्लम् / एवं वन्दनकेऽपि स्फिटितत्वपश्चात्पतितत्वे गुरोर्वन्दनके ददानस्य स्वयमग्रतः प्रदत्तः, प्रदत्ते कृतापकृतत्वेन भग्ने वा यथासंख्यमेकस्मिन् द्वयेषु त्रिषुसर्वेषु आचामाम्लम् / जीता पुरिमताल न० (पुरिमताल) उदितोदयनृपपालिते पुरविशेष, आ० क० 1 अ० या च महावलो राजाऽऽसीत् / विपा०१ श्रु०३ अ०। यत्र वा चित्रानामा महर्षिरासीत्। उत्त० 13 अ० आ० चूा आ० म०। कल्प। पुरिमपच्छिमग पुं० (पूर्वपश्चिमक) पूर्वचरमे, स्था० 5 ठा० 1 उ०। "पुरिमपच्छिमगाणं तित्थयराणा पुरिमा भरतैरावतेषु चतुर्विशतिरादिमाः तेच पश्चिमकाश्चरमाः पुरिमपश्चिमाकास्तेषां जिनानामर्हताम्। स्था०५ ठा०१ उन पुरिया स्त्री० (पुरिका) नगर्याम्, आ० म०१ अ०। पुरिल्ल त्रि०(पौरस्त्य)"डिल्लडुल्लौ भवे" ||8|2 / 163 / / इति भवेऽर्थे नाम्नः परो डिल्लप्रत्ययः। पुरोजाते प्रा० 1 पाद। बृ०। प्रवरे, दे० ना०६ वर्ग 53 गाथा। पुरिल्लदेवा ( देशी) असुरे, दे० ना० 6 वर्ग 55 गाथा। पुरिल्लपहाड़ा ( देशी) अहिदंष्ट्रायाम्, दे० ना० 6 वर्ग 56 गाथा। पुरिस पुं० (पुरुष) "पुरुषे रोः" || 8 111111 // इति रो रिः। प्रा० 1 पाद / पुरिशयनात्पूर्णः सुखदुःखाना वा पुरुषः। आचा०१श्रु०१ अ० 1 उ०। नं० / आ० म०। जीवे, विशे०। सूत्र०ा कल्प०। विशिष्टकर्मो- | दयाद्विशिष्ट संस्थानवच्छरीरवासिनि,ध०२ अधि०ामानवे, आचा०१ श्रु०५ अ०२ उ०। "मणुआ नरा मणुस्सा, मचा तह माणवा पुरिसा।'' पाइ० ना०६ गाथा। निक्षेप:दव्वाभिलाबचिंधे, वेए धम्मत्थभोगभावे या भावपुरिसो उ जीवो, भावे पगयं तु भावेणं / / 2060 // (दव्वत्ति) द्रव्यपुरुषो विस्तरेण वक्ष्यमाणस्वरूपः, अभिलप्यतेऽनेनेत्यभिलापः शब्द, ततोऽभिलापपुरुषः पुंल्लिगाभिधानमात्रापुरुष इति, घटः पट इत्यादि चिह्नपुरुषस्त्व पुरुषोऽपि पुरुषचिह्नोपलक्षितो यथा नपुंसक श्मश्रुचिह्नम् इत्यादि। स्त्र्यादिरपि पुरुषवेदकर्मविपाकानुभाव द्विदपुरुषः। धर्मार्जनव्यापाररतः साधुर्धर्मपुरुषः। अर्थार्जनपरस्त्वर्थपुरुषः। समस्तभोगोपभोगसुखभाग भोगपुरुषः। ( भावे य त्ति) भावपुरुषश्च / चशब्दो नामाऽऽद्यनुक्तभेदसमुच्चयार्थः। तत्रभावे भावद्वारे विचार्य भावपुरुषः। कः? इत्याह-भावपुरुषस्तु जीवः। इदमुक्तं भवति–पू: शरीरं, पुरि शरीरे शेते इति निरुक्तिवशाद्भावपुरुषः पारमार्थिकः पुरुषो द्रव्याभिलापपुरुषाऽऽदिसर्वोपाधिरहितो निर्विशेषणः द्धो जीव एवोच्यते। तत्रोह प्रकृतं प्रस्तुतं भावेन भावपुरुषेण शुद्धेन जीवेन, तीर्थकरेणेत्यर्थः। तुशब्दादन्यैश्य वेदाऽऽदिपुरुषैर्गण-धरैरिहाअधिकारः। सूत्रातस्तेभ्योऽपि सामायिकस्य निर्गतत्वादिति नियुक्तिगाथासंक्षेपार्थः / / 2060 / / विस्तरार्थं तु भाष्यकारः प्राऽऽहआगमओऽणुवउत्तो, इयरो दध्वपुरिसो तहा तइओ। एगभवियाइतिविहो, मूलुतरनिम्मिओ वा वि / / 2061 / / इह नामस्थापनापुरुषौ नोक्तौ, तद्विचारस्यातिप्रतीतत्वात्। द्रव्यपुरुषस्तु द्वेधा-आगमतो नोआगमतश्च। तत्राऽऽगमतः पुरुषपदार्थज्ञः, तत्र चानुपयुक्तो द्रव्यपुरुष उच्यते। इतरस्तु नाआगमत इत्यर्थः द्रव्यपुरुषो ज्ञशरीरभव्यशरीरत-व्यतिरिक्तभेदालिाधा। तत्रज्ञशरीरभव्यशरीरद्रव्यपुरुषौ द्रव्याऽऽवश्यकाऽऽदिवत सुचच्यौं। तृतीयवस्तुज्ञशरीरभव्यशरीव्यतिरिक्तो द्रव्यपुरुषः पुनरप्येक भविकबद्धाऽऽयुष्काभिमुखनामगोत्रा भेदालिविधः। अथवा-व्यतिरिक्तो द्विविधः। कथम्? मूलगुणनिर्मित्तः, उत्तरगुणनिर्मितश्च। तत्र मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तान्येव तदाकारवन्तीति / / 2061 उक्तो द्रव्यपुरुषः।। इदानीमभिलापचिह्नपुरुषौ प्राऽऽह - अभिलावो पुंलिंगा-मिहाणमेत्तं घडो व्व चिंधे उ। पुरिसागिई नपुंसो, वेओ वा पुरिसवेसो वा / / 2062 / / अभिलापः शब्दस्तद्रूपः पुरुषोऽभिलापपुरुषः, यथा पुरुष इति पुंल्लिङ्गवृत्त्यभिधानमात्र, घटः पट इत्यादिर्वा / चिह्न चिह्नविषये पुरुषश्चिह्नपुरुषः, पुरुषाऽऽकृतिर्नपुंसकाऽऽत्मा श्मश्रुप्रभृतिपुरुष चिह्नयुक्तः। अथवा-वेदः पुरुषवेदश्चिहपुरुषः, इति चिह्नयते लक्ष्यते पुरुषोऽनेनेति कृत्वा / अथवा-पुरुषस्य संबंधी वेषो यस्य स पुरुषवेषः स्त्र्यादिरपि चिह्नमात्रोण पुरुषश्चिह्नपुरुष इति।।२०६२।।