________________ पुत्त 1001- अभिधानराजेन्द्रः - भाग-५ पुत्तणत्तुपरियालपणयबहुल पुत्त पुं०(पुत्र) पुनाति पितुराचारानुवर्तितया ऽऽत्मानमिति पुत्रः। उत्त०१ अ०। सुते, सूत्रा०१ श्रु०२१०१ उ० / स्था०। अनु०। औरसे, सूत्र०१ श्रु०६ अ०। अङ्गजे, उत्त० 16 अ०स० अपत्ये, सूत्र०१ श्रु०१० 2 उ० पुानिरूपणायाऽऽहदसपुत्ता पण्णता। तं जहा–अत्तए, खित्तए, दिण्णए, विण्णए, ओरसे, मोहरे, सोंडीरे, संबड्डे, ओववाइए, धम्मंतेवासी।। (दस पुत्तेत्यादि) पुनाति पितरं पाति वा पितृमर्यादामिति पुत्रः सूनुः तत्र आत्मनः पितृशरीराजात आत्मजोयथा भरतस्याऽऽदित्ययशाः 1 / क्षेत्रों भाया, तस्यां जातः क्षेत्राजो, यथा पाण्डोः पाण्ड्याः, लोकरूढ्या तद्भर्यायाः कुन्त्या एव तेषां पुत्रत्वान्न तुपाण्डोः, अदित्याऽऽदिभिर्जनितत्वादिति 2 / (दिण्णए त्ति) दत्तकः पुत्रतया वितीर्णो यथा बाहुबलिनाऽनिलवेगः श्रूयते, स च पुत्रवत् पुत्राः, एवं सर्वत्रा 3 / (विण्णए त्ति) विनयित्तः शिक्षा ग्राहितः 41 (ओरसेत्ति) उपगतो जातो रसः पुत्रास्नेहलक्षणो यस्मिन्, पितृस्नेहलक्षणो वा यस्यासावुपरसः, उरसि वा हृदये स्नेहाद्वर्त्तते यः औरसः 5 / मुखर एव मौखरो मुखरतया चाटुकरणतो य आत्मानं पुत्रतया अभ्युपगमयति स मौखर इति भावः 6 शौण्डीरः यः शौर्यवता शूर एव रणकरणेन वशीकृतः पुत्रतया प्रतिपद्यते, यथा कुवलयमालाकथायां महेन्द्रसिंहाभिधानो राजसुतः श्रूयते / (अथवाऽऽत्मज एवं गुणभेदाद्भिद्यते तत्र (विण्णए त्ति) विज्ञकः पण्डितोऽभयकुमारवत् 4 / (ओरसे त्ति) उरसा वर्तते इति औरसो बलवान्, बाहु बलीव 5, शौण्डीरः शूरो वासुदेववत् गर्वितो वा शौण्डीरः "शौण्ड गर्वः" इति वचनात्७।) (संवड्ढेत्ति) संवर्द्धितो भोजनदानाऽऽदिनाऽनाथपुत्रकः पा(ओववाइय त्ति) उपयाचिते देवताऽऽराधने भव औपयाचितकः अथवा अवपातः सेवा, सा प्रयोजनमस्येति आवपातिकः सेवक इति हृदयम् / तथा अन्ते समीपे वस्तुंशीलमस्येति, अन्तेवासी धर्मार्थमन्तेवासी धर्मान्तेवासी, शिष्य-इत्यर्थ 10 / स्था० 10 ठा०। ''इदं तत्स्नेहसर्वस्व, सममाढ्यदरिद्रयोः। अचन्दनमनौशीर, हृदयस्यानुलेपनम्। 1 // यत्तच्छपनिकेत्युक्तं, बालेनाव्यक्तभाषिणा। हित्वा सौख्यं च योगं च,तन्मे मनसि वर्तते // 2 // " सूत्र०१ श्रु० 4 अ० 2 उ०।"अपुत्रस्य गति स्ति।'' इति न युक्तियुक्तम्, "बहुपुत्रो डुपी गोधा, ताम्रचूडस्तथैव च। तेषां च प्रथम स्वर्गः, पश्चालोको गमिष्यति / / 11 / उक्त० 14 अ० वरं कूपशताद् वापी, वरं वापीशताद्क्रतुः वरं क्रतुशतात्पुत्र सत्यं पुत्रशताद्वरम् / / 1 / / " स्था० 4 ठा० 3 उ० / पुरुषाऽस०सर्गऽपि स्त्री गर्भम् धरति। बृ०३ उ० पुत्र इव पुत्रः। शिष्ये, उत०१अ०। एकस्य पितुः कतिपुत्राः एगजीवे णं भंते ! एगभवग्गहणेणं केवइयाणं पुत्तत्ताए हव्वमागच्छइ ! गोयमा ! जहन्नेणं इक्कस्स वा दोण्हस्स वा तिण्हस्स वा, उक्कोसं सयपुहत्तस्स जीवाणं पुत्तत्ताए हव्वमागच्छई। एगजीवस्स णं भंते ! एगभवग्गहणेणं केवइया जीवा पुत्तत्ताए हव्वमागच्छंति ! गोयमा ! जहन्नेणं इक्को वा दो वा तिण्णि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवाणं पुत्तत्ताए हव्वमागच्छंति। से केणटेणं भंते ! एवं वुच्चइ० जाव हव्वमागच्छइ ? गोयमा ! इथिए य पुरिसस्स य कम्मकडाए जोणीए मेहुणवत्तिए। नामं संजोए समुप्पजइ, ते दुहओ सिणेहं संचिणंति; तत्थ णं जहन्नेणं इक्को वा दो वा तिणि वा, उक्कोसेणं सयसहस्सपुहत्तं जीवाणं पुत्तत्ताए हव्वमागच्छइ, से तेण?णं० जाव हव्वमागच्छइ। मनुष्याणां तिरश्वां च बीजं द्वादश मुहूर्तान्यावद् योनिभूतं भवति. ततश्व गवादीनां शतपृथक्त्वस्यापि बीजं गवादि योनिप्रविष्टं बीजमेव, तत्र च बीजसमुदाये एको जीव उत्पद्यते, स च तेषां बीजस्वामिनां सर्वेषां पुत्रो भवलियत उक्तम् (उक्कोसेणं सयपुहत्तस्सेत्यादि) सयसहस्सपुहत्तंति) मत्स्याऽऽदीनामेकसयोगेऽपि शतसहस्त्रपृथक्त्वं गर्भ उत्पद्यते निष्पद्यते चेत्येकस्य एकभवग्रहणे लक्षपृथक्त्वं पुत्राणां भवतीति / मनुष्ययोनौ पुनरुत्पन्ना अपि बहवो न निष्पद्यन्ते इति / (इथिए पुरिसस्स य इति) एतस्य ''मेहुणवत्तिए नाम संयोगे समुप्पज्जइ'' इत्यनेन संबन्धः। कस्यामसावुत्पद्यते? इत्याह-(कम्मकडाए जोणीए त्ति) नामकर्मनिर्वर्तितायां योनौ / अथवा-कर्म मदनोद्दीपको व्यापारस्तत् कृतं यस्यां कर्मकृता, अतस्तस्यां मैथुनस्य वृत्तिः प्रवृत्तिर्यस्मिन्नसौ मैथुनवृत्तिको, मैथुनं वा प्रत्ययो हेतुर्यस्मिन्नसौ स्वार्थिक कप्रत्यये मैथुनप्रत्ययिकः / (नाम ति) नामनामवतोरभेदोपचारादेतन्नामेत्यर्थः / संयोगः सम्पर्कः। (ते इति) स्त्रीपुरुषौ। (दुहओ त्ति) उभयतः स्नेहं रेतः शोणितलक्षणं संचिनुतः संबन्धयत इति (मेहुणवत्तिए नाम संजोए त्ति) प्रागुक्तम्। भ० 2 श०५ उ० श्रीभगवत्युक्ता एकपुत्रस्य नवशतपितरः कथं संभवन्ति ? इति प्रश्ने, उत्तरम्-द्वादश मुहूर्तान् यावतीर्यमविनष्ट स्यात् तावत्कालावधि नवशतमितवृषभाऽऽदिभिर्मुक्त गवादौ यो गर्भ उत्पद्यते, सतावतां पुत्रो भवतीति। 172 प्र०। सेन०२ उल्ला०। "तस्सणं अज्जगस्सनत्तुए होत्था इट्टे कते।'' इति राजप्रश्नीयोपाने आर्यको नतृक उक्तः, श्राद्धविधिवृत्तौ तु आर्यकः पुत्र कथं प्रोक्तः? इति प्रश्ने उत्तरम्-पुत्रो नप्ताऽप्यतीव वल्लभत्वात्पुत्रत्वेन लोकैर्व्यवह्रियते, तेनात्रापि, नप्तृशब्दः पुत्रत्वेन व्यवहतः संभाव्यते / 250 प्र०सेन०३ उल्ला०। पुत्तकारण न० (पुत्रकारण) सुतनिमित्ते, सूत्र 1 श्रु 4 अ० 2 उ०। पुत्तजीवय पुं० (पुत्रजीवक) देशविशेषप्रतिबद्धे एकास्थिकवृक्षभेदे, प्रज्ञा० 1 पद। पुतणत्तु परियालपणयबहुल त्रि० (पुत्रनप्त परिवारप्रणयपबहुल) पुत्राः सुताः, नप्तारः दौहित्राश्च, एतल्लक्षणो यः परिवा