________________ तित्थयर 2283 - अभिधानराजेन्द्रः - भाग 4 तित्थयर धाजनमाबाद दूरतः क्षिप्त रजो यत्र तत्तथा। अत एव प्रशान्तं सर्वथाऽसदिव रजो यत्र तथा। अस्यैवाऽऽत्यन्तिकतः ख्यापनार्थमाह-उपशान्तं रजो यत्र तत्तथा कुर्वन्ति, कृत्वा च क्षिप्रमेव प्रत्युपशाम्यन्ति, गन्धोदकवर्षसान्निवर्तन्त इत्यर्थः / अथासां तृतीयकर्त्तव्यकरणावसर:-एवं / गन्धोदकवर्षणानुसारेण पुष्पवादलकेन पुष्पवर्षकवादलकेन, प्रकृत्वात् तृतीयार्थे सप्तमी। पुष्पवर्ष वर्षन्तीति।। अत्रैवमित्यादिवाक्यसूचितमिदं सूत्र ज्ञेयम् 'तचं पि वेउव्वियसमुग्घाएणं समोहणंति, समोहणित्ता पुप्फवद्धलए विउव्वंति से जहाणामए मालागारदारए०जाव सिप्पोवगए एगं महं पुष्कवजिअंवा पुप्फपडलगं वा पुप्फचंगेरिअंवा गहाय रायगणं वा०जाव समता कयग्गहगहिअकरयलपब्भट्टविप्पमुक्केणं दसद्धवण्णेणं कुसुमणं चुप्फपुंजोवयारकलिअं करेजा, एवमेव ता अवि उड्डलोगवत्थव्याओ० जाव पुप्फवद्दलए विउवित्ता खिप्पामेव पतणतणायंति०, जाव जोअणपरि मंडल जलयथलयभासुरप्पभूयस्स विंटठाइरस दसद्धवण्णरस कुसुमस्स जाणुरसेहपमाणमित्तं वासं वासंति" / / 3 / / अब व्याघ्या-तृतीयवारं बैंक्रियसमुद्घातेन समवघ्नन्ति / कोऽर्थः? संवर्तकवातविकुर्वणार्थ हि यद् वेलाद्वयमपि वैक्रिय समुद् घातेन समवहनन, ततिकलैकम, एवमभ्रवादलकविकुर्वणार्थ द्वितीयम, इदं तु पुष्पवादलकविकुर्वणार्थ तृतीयम् / समवहत्य च पुष्पवादलकानि विकुर्वन्ति. स यथानामको मालाकारपुत्रः, अस्यैव प्रस्तुतकायें - च्यत्पन्नत्वात् / स्याद्यावनिपुणशिल्पोपगतः एका महतीं पुष्पछाधिका वा, छाद्यते उपरि स्थग्यते इति छाद्येव छाधिका, पुष्पै ता छाधिका पुष्पछाधिका तां, पुष्पपटलकं वा पुष्पाऽऽधारभाजनविशेषः पुष्पाचाङ्गेरिका वा प्रतीताम् / यावत् समन्तात् रतकलहे या परामुखी, तस्याः सुमुखीकरणायकेशेषु गृहणं कचग्रहणं, तत्प्रकारेण गृहीत, तथा करतलाद्विप्रमुक्तं सत् प्रभ्रष्ट करतलप्रभृष्ट विप्रभुक्तं, प्राकृतत्वात पदव्यत्ययः, ततो विशेषणसमासः / तेन कचग्रहगृहीतकरतलप्रभ्रष्टविप्रमुक्तेन दशार्द्धवर्णकेन पञ्चवर्णन कुसुमेन, जात्यपेक्षया एकवचनम, कुसुमजातेन, पुष्पपुजोपचारो वलिप्रकारः, तेन कलितं कुर्यात्. एवमेता अपि ऊर्द्धलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः "पुप्फवद्धलए विउव्वित्ता" इत्यादिक योजनपरिमण्डलान्तं प्राग्वद् व्याख्येयम् / वाल्ययोजना तु-योजनपरिमण्डलं यावत् दशार्द्धवर्णस्य कुसुमस्य वर्ष वर्षन्तीति / कथंभूतस्य कुसुमस्य? जलजस्थलजभासुरप्रभुतस्यजलज पद्माऽऽदि, स्थलजं विचकिलाऽऽदि, भास्वरं दीप्यमानं प्रभूतमतिप्रचुरम् / ततः कर्मधारयः / भास्वरं च तत् प्रभूतं च भास्वरप्रभूतम्, जलजस्थलजं च तद्भास्वरप्रभूतं च तत्तथा। तथा वृन्तस्थायिनः-- वृन्तेनाधो भागवर्तिना तिष्ठतीत्येवंशीलस्य, तथा वृन्तमधो भागे पत्राण्युपरीत्येवं स्थानशीलस्येत्यर्थः / कथम्भूतं वर्षम? जान्ववधिक उच्चायो जानत्सेधः, तस्य प्रमाणं द्वात्रिंशदङ्गुललक्षणं, तेन सदृशी मात्रा यस्य स तथा तं, द्वाविंशदङ्गुलानि चैवम्-चरणस्य चत्वारि, जड्डायाश्चतुर्विंशतिः, जानुतश्चत्वारीति / एवमेव सामुद्रिके चरणावसानस्य लक्षणत्वात। वर्षित्वा च कियत्पर्यन्तोऽयमेवमित्यादिवाक्यसूचितसूत्रसंग्रह इत्याहयावत् 'कालागुरुपवर ति / अत्र यावच्छब्दोऽवधिवाची1 (०जाव सुरवराभिगमणजोगं ति) अत्र यावत्करणात्-"कुंदुरुक्कतुरुछाडज्झतधूवमधमधलगुंधुगु आभिरामं सुगंधवरगंधिअं गंधवट्टिभूअं दिव्वं / ' इतिपर्यन्तन्तसूत्रं ज्ञेयम्। तत् कालागुरुप्रभृतिधूपधूपितम्; धूपालापकव्याख्या प्राग्वत्। अत एव सुरवराभिगमनयोग्यम्-सुरवर इन्द्रस्तस्याभिगमनायाऽवतरणाय योग्य, कुर्वन्ति, कृत्वा च यत्रैव भगवांस्तीर्थकरस्त्तीर्थकर-माता च, तत्रैवोपागच्छन्ति, उपागत्य च, यावच्छब्दात्''भगवओ तित्थयरमायाए य अदूरसामते' इति ग्राहाम् / आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति। अथ रुचकवासिनीदिक कुमारीवक्तव्ये प्रथम पूर्वरुचकस्थानामष्टानां वक्तव्यतामाहतेणं कालेणं तेणं समएणं पुरच्छिमरुअगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरिआओ सएहिं सएहिं कूडे हिं तहेव०जाव विहरंति / तं जहा "णंदुत्तरायणंदा, आणंदा णंदिवद्धणा। विजया य वेजयंती, जयंती अपराजिआ॥१॥" सेसं तं चेव०जाव तुब्भेहिं ण भाइअव्वं ति कट्ट भगवओ तित्थयरस्स तित्थयरमायाए अपुरच्छिमेणं आयंसहत्थगाओ आगायमाणीओ परिगायमाणीओ चिटुंति। (तेण कालेणं तेण समएणं इत्यादि) तस्मिन् काले तरिमन् समये पोरस्त्यरुचकवास्तव्याः पूर्वदिग्भागवर्तिरुचककूटवासिन्योऽष्टी दिक् कुमारीमहत्तरिकाः स्वकषु स्वकेषु कूटेषु तथैव यावद्विहरन्ति। तद्यथानन्दोत्तरा, चः समुचये / नन्दा, आनन्दा, नन्दिवर्द्धना, विजया / चः पूर्ववत् / वैजयन्ती, जयन्ती, अपराजिता, इत्येता नामतः कथिताः ! शेषमासनप्रकम्पावधिप्रयोगभगवद्दर्शनपरस्पराह्वानस्वस्वाभियोगिककृतयानविमानविकुर्वणाऽऽदिक तथैव, यावद्युष्माभिर्न भेतव्यमिति कृत्वा भगवतस्तीर्थकरस्य तीर्थकरमातुश्च पूर्वरुचकसमागतत्वात् पूर्वतोहस्तगत आदर्शो दर्पणो जिनजनन्योः शृङ्गाराऽऽदिविलोकनाऽऽधुपयोगी यासा तास्तथा, विशेषणस्य परनिपातः प्राकृतत्वात् / आगायल्यः परिगायन्त्यस्तिष्ठन्तीति / / अत्र रुचकाऽऽदिस्वरूपप्ररूपणेयम्एकादेशेन एकादशे, द्वितीयादेशेन त्रयोदशे, तृतीयादेशेन एकविंशे रुचकद्वीपे बहुमध्ये वलयाऽऽकारो रुचकशैलश्चतुरशीतियोजनसहखाण्युच्चः, मूले 10022, मध्ये 7023, शिखरे 4024 योजनानि विस्तीर्ण :, तस्य शिरसि चतुर्थ सहसे पूर्वदिशि मध्ये सिद्धायतनकूटः, उभयोः पार्श्वयोश्चत्वारि चत्वारि दिक्कुमारीणां कूटानि, नन्दोत्तराssधास्तेषु वसन्तीति। अथ दक्षिणरुचकवासिनीनां कर्त्तव्यम्तेणं कालेणं तेणं समएणं दाहिणरुअगवत्थव्याओ अट्ठ दिसाकुमारीमहत्तरिआओ तहेव०जाव विहरंति। तं जहा-- "समाहारा सुप्पइण्णा, सुप्पबुद्धा जसोहरा। लच्छीमई सेसवई, चित्तगुत्ता वसुंधरा / / 1 / / " तहेव० जाव तुब्भाहिं न भाइअव्वं ति कट्ट भगवओ तित्थयरस्स तित्थयरमाउए अ दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति। सम्प्रति दक्षिणरुचक वास्तव्या इति पूर्ववद्, रुचक शिररिस दक्षिण दिशि मध्ये सिद्धायतनकूटम्, तदुभयतश्चत्वारि चत्वारि कूटानि, तत्र वासिन्य इत्यर्थः / अष्टौ दिक्कु मारीमहसारिका: तथैव यावद्विहरन्ति / तद्यथा-समाहारा, सुप्रदरता, सुप्रयुद्धा,