________________ तित्थयर 2268 - अभिधानराजेन्द्रः - भाग 4 तित्थयर सयगुणवन्ना) 'पक्षाधिकसार्द्धद्वादशवर्षः' त्रीणि शतान्येकोनपञ्चाशत् 346 पारणकानि विहितानि। इति गाथाऽर्थः।।१७८।। सत्त० 64 द्वार। (67) तीर्थकरयक्षाःजक्खा गोमुह महजक्ख तिमुह ईसर सतुंबुरू कुसुमो। मायंगो विजयाऽजिय, बंभो मणुओ सुरकुमारो // 375 / / छम्मुह पायाल किन्नर, गरुडो गंधव्व तह य जक्खिदो। कूबर वरुणो भिउडी, गोमेहो वामण मयंगो // 376|| यक्षा भक्तिदक्षास्तीर्थकृतामिमे यथा प्रथमजिनस्य गोमुखो यक्षः सुवर्णवर्णो गजवाहनश्चतुर्भुजो वरदाक्षमालिकायुक्तदक्षिणपाणिद्वयो, मातुलिङ्गपाशकान्वितवामपाणिद्वयश्च / अजितनाथस्य महायक्षाभिधो यक्षश्चतुर्मुखः श्यामवर्णः करीन्द्रवाहनोऽष्टपाणिर्वरदमुद्राक्षसुत्रपाशकान्वितदक्षिपाणिचतुष्टयो, बीजपूरकाभयाङ्कुशशक्तियुक्तवामपाणिचतुष्कश्व / श्रीसम्भवजिनस्य त्रिमुखो नाम यक्षरित्रवदनस्विनेत्रः श्यामवर्णो मयूरवाहनः षड् भुजो नकुलगदाभययुक्तदक्षिणकरकमलत्रयो, मातुलिङ्गछागाक्षसूत्रवामपाणिपात्रयश्च / श्रीअभिनन्दनस्य ईश्वरो यक्षः श्यामकान्तिर्गजवाहनश्चतुर्भुजो मातुलिङ्गाक्षसूत्रयुक्तदक्षिणकरकमलद्वयो, नकुलाङ कुशान्वितवामपाणिद्वयश्च / श्रीसुमतेस्तुम्बुरुर्यक्षः श्वेतवर्णो गरुडवाहनश्चतुर्भुजो वरदशक्तियुक्तदक्षिणपाणिग्रयो, गदानागपाशयुक्तवामपाणिद्वयश्च 1 श्रीपद्मप्रभस्य कुसुमो यक्षो नीलवर्णः कुरङ्गवाहनश्चतुर्भुजः फलाभययुक्तदक्षिणपाणिद्वयो, नकुलाक्षसूत्रयुक्तवामपाणिद्वयश्च / सुपार्श्वस्य मातङ्गो यक्षो नीलवर्णो गजवाहनश्चतुर्भुजो विल्वपाशयुक्तदक्षिणपाणिद्वयो, नकुलाशयुक्तवामपाणिद्वयश्च / श्रीचन्द्रप्रभस्य विजयो यक्षो हरितवर्णस्त्रिलोचनो हंसवाहनो द्विभुजः कृतदक्षिणहस्तचक्रो, वामहस्तधृतमुद्रश्च / श्रीसुविधिजिनस्याऽजितो यक्षः श्वेतवर्णः कूर्मवाहनश्चतुर्भुजो मातुलिङ्गाक्षसूत्रयुक्तदक्षिणपाणिद्वयो, नकुलकुन्तकलितवामपाणिद्वयश्च। श्रीशीतलस्य ब्रहा यक्षश्चतुमुखरित्रनेत्रः श्वेतवर्णः पद्मासनोऽष्टभुजो मातुलिङ्ग मुद्रपाशकाभययुक्तदक्षिणपाणिचतुष्टयो, नकुलगदाङ्कुशाक्षसूत्रयुक्तवामपाणिचतुष्टयश्च / श्रीश्रेयांसस्य मनुजो यक्षो, मतान्तरेण ईश्वरो, धवलवर्णस्त्रिनेत्रो वृषभवाहनश्चतुर्भुजो मातुलिङ्गगदायुक्तदक्षिणपाणिगयो, नकुलकाक्षसूत्रयुक्तवामपाणिद्वययश्च / श्रीवासुपूज्यस्य सुरकुमारो यक्षः श्वेतवर्णो हंसवाहनश्चतुर्भुजो बीजपूरकबाणान्वितदक्षिणकरद्वयो, नकुलकधनुर्युक्तवामपाणिद्वयश्च / श्रीविमलस्यषण्मुखो यक्षः श्वेतवर्णः शिखिवाहनो द्वादशभुजः फलचक्रबाणखङ्गपाशकाक्षसूत्रयुक्तदक्षिणपाणिषट् को, नकुलचक्रधनुः फलका कुशाभययुक्तवामपाणिषट् कश्च / श्रीअनन्तस्य पातालो यक्षस्त्रिमुखो रक्तवर्णो मकरवाहनः षड्भुजः पद्मखड्गपाशयुक्तदक्षिणपाणित्रयो, नकुलफलकाक्षसूत्रयुक्तवामपाणित्रयश्च / श्रीधर्मास्य किन्नरो यक्षस्त्रिमुखो रक्तवर्णः कूर्डवाहनः षड् भुजो बीजपूरकगदाभययुक्तदक्षिणपाणित्रयो, नकुलपद्माक्षमालायुक्तवामपाणिवयश्च। श्रीशान्तिनाथस्य गरुडो यक्षो वराहवाहनः क्रोडवदनः श्यामरुचिश्चतुर्भुजो बीजपूरकपद्यान्वितदक्षिणकरद्वयो, नकुलाक्षसूत्रयुक्तवामपाणिद्वयश्च / श्रीकुन्थोर्गन्धर्वयक्षः श्यामवर्णो हंसवाहनश्चतुर्भुजो वरदपाशकान्वितदक्षिणपाणिद्वयो, मातुलिङ्गाङ्कुशाधिष्ठितवामकरद्वयश्वा श्रीअरजिनस्य यक्षेन्द्रो यक्षः षण्मुखस्त्रिनेत्रः श्यामवर्णः(शङ्क)शिखिवाहनो द्वादशभुजो बीजपूरकबाणखड्गमुद्रपाशकाभययुक्तदक्षिणकरषट् को, नकुलधनुः फलकशूला कुशाक्षसूत्रयुक्तवामपाणिषट् कश्च / श्रीमल्लिजिनस्य कूयरो यक्षश्चतुर्मुख इन्द्रायुधवर्णो गजवाहनोऽष्टभुजो वरदपरशुशूलाभययुक्तदक्षिणपाणिचतुष्टयो, बीजपूरकशक्तिमुद्गराक्षसूत्रयुक्तवामपाणिचतुष्टयश्च / अन्ये कूबरस्थाने कुबेरमाहुः। श्रीमुनिसुव्रतस्य वरुणो यक्षश्चतुर्मुखस्विनेत्रः सितवर्णो वृषवाहनो जटामुकुटभूषितोऽष्टभुजो बीजपूरकगदाबाणशक्तियुक्तदक्षिणकरकमलचतुष्को, नकुलपद्मधनुःपरशुयुतवामपाणिचतुष्टयश्च / श्रीनमिजिनस्य भृकु टिर्यक्षश्चतुर्मुखस्त्रिनेत्रः सुवर्णवर्णो वृषभवाहनोऽष्टभुजो बीजपूरकशक्तिमुद्गराभययुक्तदक्षिणकरचतुष्टयो, नकुलपरशुवजाक्षसूत्रयुक्तवामकरचतुष्टयश्च / श्रीनेमिजिनस्य गोमेधो यक्षरित्रमुखः श्यामकान्तिः पुरुषवाहनः षड् भुजो मातुलिङ्ग परशुचकान्वितदक्षिणकरत्रयो, नकुलशूलशक्तियुक्तवामपाणित्रयश्च। श्रीपार्श्वजिनस्य वामनो यक्षो, मतान्तरेण पार्श्वनामा, गजमुख उरगफणामण्डितशिराः श्यामवर्णः कूर्मवाहनश्चतुर्भुजो बीजपूरकोरगयुक्तदक्षिणपाणिद्वयो, नकुलभुजगयुक्तवामपाणियुगश्च / श्रीवीरजिनस्य मतङ्गो यक्षः श्यामवर्णो गजवाहनो द्विभुजो नकुलयुतदक्षिणभुजो, वामकरधृतबीजपूरकश्च ! प्रव० 26 द्वार। (68) तीर्थकरदेव्यःदेवीओ चक्केसरि, अजिआ दुरितारि कालि महकाली। अचुय संता जाला, सुतारयाऽसोय सिरिवच्छा।।३७७॥ पवर विजयंऽकुसा पन्नग त्ति निव्वाण अञ्चुया धरणी। वइरुट्टाछुत्त गंधारि अंब पउमावई सिद्धा॥३७८।। तत्राऽऽद्यजिनस्य चक्रेश्वरी देवी, मतान्तरेणाऽप्रतिचक्रा, सुवर्णवर्णा गरुडवाहनाऽष्टकरावरदबाणचक्रपाशयुक्तदक्षिणपाणिचतुष्टया, धनुर्वजचक्राड कुशयुक्तवामपाणिचतुष्टया चेति / श्रीअजितस्याजिता देवी गौरवर्णा लोहासनाधिरूढा चतुर्भुजा वरदपाशकाधिष्ठितदक्षिणकरद्रया, बीजपूरकाङ्कुशालड् कृतवामपाणिद्वया च / श्रीसम्भवस्य दुरितारिदेवी गौरवण्र्णा मेघवाहना चतुर्भुजा वरदाक्षसूत्रभूषितदक्षिणभुजद्वया, फलाभयान्वितवामकरद्वया च। श्रीअभिनन्दनस्य काली नाम देवी श्यामकान्तिः पद्मासना चतुर्भुजा वरदपाशाधिष्ठितदक्षिणकरद्वया, नागाङ् कुशालड् कृतवामपाणिद्वया च / श्रीसुमतेमहाकाली देवी सुवर्णवण्णा पद्मासना चतुर्भुजा वरदपाशाधिष्ठितदक्षिणकरद्वया, मातुलिङ्गाकुशयुक्तवामपाणिद्वया चेति / श्रीपद्मप्रभस्याऽच्युता, मतान्तरेण श्यामा, देवी श्यामवर्णा नरवाहना चतुर्भुजा वरदबाणान्वितदक्षिणकरद्वया, कार्मुकाभययुक्तवामपाणिद्वयाच। श्रीसुपार्श्वस्य शान्ता देवी सुवर्णवर्णा गजवाहना चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणकरद्वया, शूलाभययुक्तवामहस्तद्वया च। श्रीचन्द्रप्रभस्य ज्वाला; मतान्तरेण भृकुटिः, देवी पीतवर्णा वरालकाख्यजीवविशेषवाहना चतुर्भुजा खङ्गभूषितदक्षिणकरद्वया, फलकपरशुयुतवामपाणिद्वया च। श्रीसुविधेः सुतारा देवी गौरवर्णा वृषभवाहना चतुर्भुजा वरदाक्षसूत्रयुक्तदक्षिणभुजद्वया, कलशाड्कुशाश्चितवामपाणिद्वया च। श्रीशीतलस्य अशोका देवी नीलवर्णा पद्मासना चतुर्भुजा वरदपाशयुक्तदक्षिणपाणिद्वया, फलाकुशयुक्तवामपाणिद्वया च। श्रीश्रेयांसस्य श्रीवत्सा देकी, मतान्तरेण मानवी, गौरवर्णा सिंहवाहना चतु