________________ तित्थयर 2265 - अभिधानराजेन्द्रः - भाग 4 तित्थयर (52) अधुना गणद्वारमाहचुलसीह पण्णणवई, विउत्तरं सोलसुत्तर सयं च। सत्तऽहियं पणनउई, तेणउई अट्ठसीई य।। एक्क सीईछावत्तरी य छावट्ठि सत्तवन्ना य। पन्ना तेयालीसा,छत्तीसा चेव पणतीसा।। तेत्तीसऽट्ठावीसा, अट्ठारस चेव तह य सत्तरसा। एकारस दस नवगं, गणाण माणं जिणिंदाणं / / भगवत आदितीर्थकरस्य चतुरशीतिर्गणाः / गणो नामेह एकवाचनाऽऽचारक्रियास्थानां समुदायो, न कुलसमुदाय इति पूर्वसूरयः / अजितस्वामिनः पञ्चनवतिर्गणाः / सम्भवनाथस्य व्युत्तरं शतम् / अभिनन्दनस्य षोडशोत्तरं शतम्। सुमतिनाथस्य परिपूर्ण शतम् / पद्मप्रभस्य सप्ताधिक शतम् / सुपार्श्वस्य पञ्चनवतिः। चन्द्रप्रभस्य त्रिनवतिः / सुविधिस्वामिनोऽष्टाशीतिः शीतलसय एका-शीतिः / श्रेयांसस्य षट्सप्ततिः / वासुपूज्यस्य षट्षष्टिः / विमलस्य सप्तपक्षाशत् / अनन्तजिनस्य पञ्चाशत् / धर्मस्य त्रिचत्वारिंशत् / शान्तिनाथस्य षट् त्रिंशत। कुन्थुनाथस्य पञ्चत्रिंशत्। अरजिनस्य त्रयस्त्रिंशत्। मल्लिस्वामिनोऽष्टविंशतिः / मुनिसुव्रतस्वामिनोऽष्टादश / नमिनाथस्य सप्तदश / अरिष्टनेमेरेकादशा पार्श्वनाथस्य दशा वर्द्धमानस्वामिनो नव। आ०म०१ अ० 1 खण्ड। “समणस्स भगवओ महावीरस्स नव गणा होत्था। त / जहागादासगणे, उत्तरवलियरस य गणे, उद्देहगणे, चारणगणे, उड्डवाइयगणे, विस्सवाइगणे, कामिड्ढयगणे, माणवगणे, कोडियगणे।" | (स्था०६ठा०) एतजिनेन्द्राणामृषभाऽऽदीनां जिनानां यथाक्रम गणानां | मानं परिमाणम्। आ०म०१ अ०१ खण्ड। सत्ता (53) संप्रति गणधरप्रतिपादनार्थमाहएक्कारस उ गणहरा, वीरजिणिंदस्स सेसयाणं तु / जावइया जस्स गणा, तावइया गणधरा तस्स / / गणधरा नाम मूलसूत्रकरिः , ते च वीरजिनस्य एकादश, गणारत नव, द्वयोर्युगलयोरेकैकवाचनाऽऽचारक्रियास्यत्वात् / शेषाणां तु जिनवरेन्द्राणां यस्य यावन्तो गणास्तस्य तावन्तो गणधराः, प्रतिगणधर भिन्नभिन्नवाचनाऽऽचार क्रियास्थत्वात्। आ०म०१अ०१ खण्ड। प्रव० / 'पासस्स णं अरहओ पुरिसादाणीयस्स अट्ठ गणा अट्ट गणहरा होत्था। तं जहा-सुभे, अजघोसे, वसिट्टे, बंभयारी, सोमे, सिरिधरे, बीरिए, भद्दजसे।" यत्त्वावश्यके तूभयेऽपि दश श्रूयन्ते, "जावइया जस्स गणा, तावइया गणहरा तस्स" इति वचनात्, तदिहाल्पत्वाऽऽदिकारणमपेक्ष्य द्वयोरविवक्षणमिति संभाव्यते। स्था०८ ठाण (54) अथ सर्वेषां जिनानां गर्भस्थितिमाहदुचउत्थ नवम बारस, तेरस पन्नरस सेस गब्भठिई। मासा अड नव तदुवरि, उसहाइकमेणिमे दिवसा / / 7 / / चउ पणवीसं छद्दिण, अडवीसं छच छञ्चिगुणवीसं। सन छव्वीसं छ च्छ य, वीसिगवीसं छ छव्वीसं // 76 / / छ पण अड सत्त अट्ठय, अट्ठऽढ छ सत्त हुंति गढभदिणा (77) | (दुचउत्थ नवम बारस तेरस पन्नरस सेस गब्भठिइत्ति) द्वितीयर चतुर्थ नवम् द्वादश १२त्रयोदश 13 पञ्चदश 15 शेषजितेषुगर्भस्थितिः (मासा अड नव त्ति) द्वितीयाऽऽदिषु जिनेषु मासा अष्टौ। शेषजिनेषु नव मासाः। (तदुवरि ति) तेषां मासानामुपरि (उसहा-इकमेणिमे दिवसा) ऋषभाऽऽदिषु क्रमेण इमे वक्ष्यमाणा दिवसा ज्ञेयाः। इति गाथार्थः / / 7 / / (चउ पणबीसं छद्दिण) दिनानीति सर्वत्र गम्यम्। चत्वारि१पञ्चविंशतिः 2 षट् 3 (अडवीसं छच्च छचिगुणवीसं) अष्टविंशतिः 4 षट् च 5 षट् 6 एकोनविंशतिः 7 (सग छव्वीस छच्छय) सप्तपदिशतिः 6 षट् 10 षट् च ११(वीसिगवीसंछ छव्वीसंग) विंशतिः 12 एकविंशतिः 13 षट् 14 षट विंशतिः 15 / इति गाथार्थः // 76 / / (छ पण अडसत्त अट्टय) षट् 16 पश्च 17 अष्टौ 18 सप्त 16 अष्ट च 20 (अट्ठट्ठ छसत्त हुतिगढभदिणा) अष्टौ 21 अष्ट 22 षट् 23 सप्त 24 भवन्ति गर्भदिनानि जिनाना गर्भस्थितयः / सत्त०२० द्वार। (55) गृहवासे ज्ञानानिमइसुयओहितिनाणा, जाव गिहे पच्छिमभवाओ। (223) मतिश्रुतावधिज्ञानलक्षणानि त्रीणि ज्ञानानि सर्वेषां जिनानां भवन्ति, पश्चिमभवादारभ्य यावन्तं कालं गृहे गृहवासे तिष्ठन्ति / सत्त० 45 द्वार। (56) तीर्थकरगोत्राणि वंशाश्च-- गोयमगुत्ता हरिवं-ससंभवा नेमिसुव्वया दो वि। कासवगुत्ता इक्खा-गुवंसजा सेस चावीसा।।१०६।। श्रीनेमिमुनिसुव्रतौ द्वौ गौतमगोत्रौ हरिवंशसंभवौ च / शेषाः तीर्थपाः द्वाविंशतिः काश्यपगोत्रा इक्ष्वाकुवंशजाश्च / सत्त० 37 द्वार / कल्प० / आवा (57) चतुर्दशपूर्विणःचउदसपुस्वि-सहस्सा, चउरो अद्धट्ठमाणि य सयाणि। वीसहिय सत्ततीसा, इगवीससया य पन्नासा // 362 / / पनरस चउवीससया, तेवीससयां य वीससय तीसा। दो सहस पनरस सया, सयचउदसतेरससयाई॥३६३।। सय बारस इक्कारस, दस नव अद्वैव छच्च सय सयरा। दसहिय छच्चेव सया, छच सया अट्ठसठ्ठऽहिया।।३६४|| सयपंच अद्धपंचम, चउरो अद्धऽहिय तिन्नि य सयाई।। उसभाइजिणिंदाणं, चउदसपुव्वीण परिमाणं // 365 / / तत्राऽऽदिजिनस्य चतुर्दशपूर्विणां चत्वारः सहस्त्राः, अर्द्धाष्टमानि च शतानि, पञ्चाशदधिकानि सप्तशतानीत्यर्थः / श्रीअजितजिनस्य विंशत्यधिकसप्तत्रिंशच्छतानि। श्रीसंभवजिनस्य एकविंशतिशतानि पञ्चाशदधिकानि। श्रीअभिनन्दनस्य पञ्चदशशतानि / श्रीसुमतेश्चतुर्विंशतिशतानि। श्रीपद्मप्रभस्य त्रयोविंशतिशतानि। श्रीसुपार्श्वस्य विंशतिशतानि त्रिंशदधिकानि। श्रीचन्द्रप्रभस्यद्वौ सहस्रौ / श्रीसुविधेः पञ्चदशशतानि। श्रीशीतलस्य शतानि चतुर्दश ।श्रीश्रेयासस्य त्रयोदशशतानि। श्रीवासुपूज्यस्य द्वादशशतानि / श्रीविमलजिनस्य एकादशशतानि। श्रीअनन्तजिनस्य दशशतानि। श्रीधर्मस्य नवशतानि / श्रीशान्तरष्टव शतानि / श्रीकु