________________ तित्थयर 2258 - अभिधानराजेन्द्रः - भाग 4 तित्थयर ऽभिषिशति, निगमनसूत्रत्वान्न पौनरुक्त्यम् / अभिषिच्य च करतलपरिगृहीत, यावत्पदसंग्राह्यं प्राग्वत्। मस्तके अजलि कृत्वा जयेन विजयेन प्रागुक्तस्वरूपेण वर्द्धयत्याशिषं प्रयुड् क्ते, पद्धयित्वा च ताभिर्विशिष्टगुणोपेताभिरिष्टाभिः श्रोतृणां वल्लभाभिर्यावत् करणात्"कंताहिं पिआहिं मणुण्णाहिं वगूहि" इति ग्राह्यम् / अत्र व्याख्या च प्राग्वत् / वाग्भिर्जयजयशब्दं प्रयुड़क्ते, संभ्रमे द्विर्वचन जयशब्दस्य। अत्र जयेन विजयेन वर्द्धयित्वा पुनर्जयविजयशब्दप्रयोगो, मड़ लवचने पुनरुक्तिर्न दोयायेत्यभिहितः / अथाभिषेकोत्तरकालीनं कर्त्तव्यमाह-- (पउंजित्ता इत्यादि) प्रयुज्य च / यावच्छब्दात- 'तप्पढमयाए'' इति ग्राह्यम् / अत्र व्याख्यातेष्वभिषेकोत्तरकालीनकर्तव्येषु प्रथमतया आद्यत्वेन पक्ष्मलसुकुमारया सुरभ्या गन्धकाषायिक्या गन्धकषायद्रव्यपरिकर्मितया, लघुशाटिकयेति गम्यम् / गात्राणि रूक्षयति. एवमुक्तप्रकारेण, यावत् कल्पवृक्षमिवालड्कृत वस्त्रालङ्कारेण आभरणालङ्कारण विभूषितं करोति / यावत्करणात- "लूहित्ता सरसेण गोसीसचंदणेणं गायाई अणुलिंपइ अणुलिंपइत्ता नासानीसासवायबोज्झं चक्खुहरं वाण्णफरिसजुत्तं हयलालापेलवाइरेगं धवल कणगखचि अंतकम्म देवदूसजुअलं निअंसावेइ, निसावेइत्ता'' इति ग्राह्यम् / अत्र व्याख्या प्राग्वत्। नवरं देवदूष्ययुगलं परिधानोत्तरीयरूपं निवासयति, परिधावयतीति कृत्वा चायावत्करणात-''सुमिणदामं पिनद्धावेइ" इति ग्राह्यम्। नाट्यविधिमुपदर्शयति। उपदर्थ्य च अच्छ: लक्ष्णः रजतमयैरच्छरसतण्डुलैः भगवतः स्वामिनः पुरतोऽष्टाष्टमङ्गलकान्यालिखति। तद्यथा"दप्पणे" इति पद्यं सुगमम् / मङ्गलोल्लेखनोत्तरकृत्यमाह--(लिहिऊण त्ति) अनन्तरोक्तान्यष्टमङ्गलानि लिखित्वा करोत्युपचारमित्याद्यारभ्य कडुच्छुकग्रहणपर्यन्त सूत्रं चक्ररत्नपूजाधिकारलिखितव्याख्यातो व्याख्येयम्। ततः प्रयतः सन् यथा बालभट्टारकस्य धूपधूमाकुले अक्षिणी नभवतस्तथा प्रयत्नवान् धूपं दत्वा जिनवरेन्द्राय। सूत्रे षष्ठी आपत्वात् / अङ्गपूजार्थ प्रत्यासेदुषा मया निरुद्धो भगवद्दर्शनमार्गोऽतोऽहं मां परेषां दर्शनामृतपानविघ्नकारी स्यामिति सप्ताष्टानि पदान्यपसृत्य दशाङ् गुलिक मस्तकेऽञ्जलिं कृत्वा प्रयतो यथास्थानमुदात्ताऽऽदिस्वरोच्चारेषु प्रयत्नवानष्टशतैरष्टोत्तरशतप्रमाणेर्विशुद्धेन ग्रन्थेन पाठेन युक्तैर्महावृत्तैमहाकाव्यैर्यथा महाचरित्रैरपुनरुक्तैरर्थयुक्त श्चमत्कारिव्यङ्गययुक्तः संस्तौति। संस्तुत्य च वामं जानुम् अञ्चति उत्पाटयति, अश्चित्वा च यावत् पदात्-"दाहिणं जाणुं धरणिअलंसि निवाडेइ'' इति ग्राहाम्। अत्र व्याख्या प्राग्वत् / करतलपरिगृहीत मस्तकेऽञ्जलिं कृत्वा एवं वक्ष्यमाणमवादीत्। यदवादीत्तदाह(णमोऽत्थुते सिद्ध ! बुद्धा०इत्यादि) नमोऽस्तु ते तुभ्यं हे सिद्ध! एवं बुद्धत्यादिपदानि संबन्धनीयानि। तत्र हे बुद्ध / ज्ञाततत्त्व ! हे नीरजः कर्मरजोरहित ! हे श्रमण ! तपस्विन् ! हे समाहित ! अनाकुलितचित्त ! हे समाप्त ! कृतकृत्यत्वात्। अथवा-सम्यक प्रकारेणाऽऽप्त ! अविसंवादविचनत्वात् / हे समयोगिन ! कुशलमनोवाकाययोगित्वात्। शल्यकर्तन! निर्भय ! नीरागद्वेष ! निर्मम ! निस्सड ग ! निर्लेप ! निःशल्य ! (मानमूरण !) मानमर्दन ! गुणेषु रत्नमुत्कृष्ट यच्छीलं ब्रह्मचर्य तस्य सागर ! अनन्तज्ञानाऽऽत्मकत्वात् / अप्रमेय ! | प्राकृतज्ञानापरिच्छेद्य ! अशरीरजीवस्वरूपस्य छदास्थैः परिछेत्तुमशक्यत्वात् इति। अथवाऽप्रमेय ! भगवद् गुणानामनन्तत्वेन संख्यातुमशक्यत्वात्। भव्य ! मुक्तिगमनयोग्य ! अत्यासवभवसिद्धत्वात्। धर्मेणधर्मरूपेण वरेण प्रधानेन भाषप कत्वात् चतुरन्तेन चतुर्गत्यन्तकारिणा चक्रेण वर्तत इत्येवंशीलः, तस्य सम्बोधन हे धर्मवरचतुरन्तचक्रवर्तिन् ! नमोऽस्तु तुभ्यम् अर्हते जगत्पूज्याय, इति कृत्वेति संस्तुत्य, वन्दते, नमस्यतीत्यादि सूत्रं प्राग्वत्। यचात्र विशेषणवर्णकस्याऽऽदौ नमोऽस्तुते' इत्युक्त्वा पुनरपि 'नमोऽस्तु ते' इत्युक्तं, तन्न पुनरुक्तये, प्रत्युत लाघवाय, यतो जगत्त्रयप्रतिस्रोतश्चारित्रिणो जगत्त्रयपतेस्तत्तदसाधारणैकैकविशेषणविभावनात् समुदभूतप्रणामपरिणामेन हरिणा प्रतिविशेषणं 'नमोऽस्तु ते' इति न प्रयुक्तमिति / इमानि च सर्वाणि विशेषणानि भव्यपदवर्जानि 'भाविनि भूतवदुपचारात्। अन्यथाऽभिषेकसमये जिनानामेतादृशविशेपणमयुक्तम्, असंभवादिति। (30) अथावशिष्टानामिन्द्राणां वक्तव्यं लाघवादाहएवं जहा अचुअस्स तहा०जाव ईसाणस्स भाणिअव्वं / एवं भवणवइवाणमंतरजोइसिआ य सूरपज्जवसाणा सएणं सएणं परिवारेणं पत्ते पत्तेअं अभिसिंचंति / तए णं ईसाणे देविंदे देवराया पंच ईसाणे विउव्वइ, विउव्वइत्ता एगे ईसाणे भगवं तित्थयरं करयलसंपुडेणं गिण्हइ, गिण्हइत्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसपणे; एगे ईसाणे पिट्ठओ आयवत्तं धरेइ; दुवे ईसाणा उभओ पासिं चामरुक्खेवं करें ति; एगे ईसाणे पुरओ मूलपाणी चिट्ठइ। (एवं जहा इत्यादि) एवमुक्तविधिना यथाऽच्युतेन्द्रस्याऽभिषेककृत्य तथा प्राणतेन्द्रस्य यावदीशानेन्द्रस्यापि भणितव्यं, शक्राभिषेकस्य सर्वतश्वरमत्वात्। एवं भवनपतिव्यन्तरज्योतिष्काश्चन्द्राः सूर्यपर्यवसानाः स्वकेन 2 परिवारेण सह प्रत्येक प्रत्येकमभिषिञ्चन्ति। (तएणमित्यादि) ततरित्रषष्टीन्द्राभिषेकानन्तरमीशानो देवेन्द्रो देवराजा पोशानान् विकुर्वति, एक ईशानः पञ्चधा भवति। एतदेव विभजतितत्र एक ईशानो भगवन्तं तीर्थकर करतलसम्पुटेन गृह्णाति, गृहीत्वा च सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः। एक ईशानः पृष्ठतः आतपत्रं धरति / द्वावीशानावुभयोः पार्श्वयोः चमोत्क्षेपं कुरुताः / एक ईशानः पुरतः शूलपाणिस्तिष्ठत्यूर्द्धस्थो भवति। (31) अथावशिष्टशक्रस्याभिषेकावसरः-- तएणं से सक्के देविंदे देवराया आभिओगे देवे सद्दावेइ, सद्दावेइत्ता एसो वि तह चेव अभिसेआणमादिसइ, ते वि तह चेव उवणेति / तए णं से सक्के देविंदे देवराया भगवओ तित्थयरस्स चउद्दिसिं चत्तारि धवलवसभे विउव्वइ, सेए संखदलविमल निम्मलदघिघणगोखीरफेणरययणिगरप्पगासे पासाइए दरसणिजे अभिरूवे पडिरूवे / तए णं तेसिं चउण्हं धवलवसभाणं अट्ठहिं सिंगेहिं तो अट्टतोयधाराओ णिग्गच्छंति। तएणं ताओ अट्ठ तोयधाराओ उड्ढे वेहासं समुप्पयंति, समुप्पयंतित्ता एगओ मिलायंति, मिलायंतित्ता भगवओ तित्थयरस्स मुद्धाणंसि निवयंति / तए णं से सक्के