________________ तित्थयर 2254 - अभिधानराजेन्द्रः - भाग 4 तित्थयर मुत्तार इत्याह-"तएणं सक्कस्स देविंदस्स देवरण्णो'' इत्यादि व्यक्तम्। (24) अथ शक्रः किमकार्षीदित्याहतए णं से सक्के देविंदे देवराया चउरासीए सामाणिअ साहस्सीएहिं०जाव सद्धिं संपरिवुडे सव्विड्डीए०जाव दुंदुभिणिग्घोसणाइयरवेणं जेणेव भगवं तित्थयरमाया य, तेणेव उवागच्छइ, उवागच्छइत्ता आलोए चेव पणामं करेइ, करेइत्ता भगवं तित्थयरमायरं च आयाहिणं पयाहिणं करेइ, करेइत्ता करयल०जाव एवं बयासीणमोऽत्थु ते रयणकुच्छिधारिए ! एवं जहा दिसाकुमारीओ०जाव धण्णा सि पुण्णा सि तं कयत्था सि अहं देवाणु प्पिए ! सक्के णामं देविंदे देवराया भगवओ तित्थयरस्स जम्मणमहिमं करिस्सामि, तेण तुम्भेहिं ण भीइव्वं ति कटु ओसोवणिं दलयइ, दलइत्ता तित्थयरपडिरूवगं / विउव्वइ, विउव्वइत्ता तित्थयरमाउआए पासे ठवेइ, ठवेइत्ता पंचसक्के विउव्वइ, विउव्वित्ता एगे सक्के भगवं तित्थयरं करयलपुडेणं गिण्हइ, एगे सके पिट्टओ आयवत्तं धरेइ, दुवे सक्का उभओ पासिं चमरुक्खेवं करें ति, एगे सक्के पुरओ वजपाणी पकड्डइ। 'तए ण से सक्के देविंदे देवराया चउरासीए" इत्यादि कण्ठ्यम्। यावत्पदसंग्राह्य तुपूर्वसूत्रानुसारेण बोध्यम् / यदवादीत्तदाह-(णमोऽत्थु ते इत्यादि) नमोऽस्तु तुभ्यं रत्नकुक्षिधारिके ! एवप्रकारं सूत्र, यथा दिक्कुमार्य आहुः, तथाऽवादीदित्यर्थः / यावच्छब्दादिदं ग्राह्यम्"जगप्पईवदाईए चक्खुणो अमुत्तस्स सव्वजगजीववच्छलस्स हिअकरमग्गदेसियरस वागिदिविभुप्पभुस्स जिणरस णाणिस्स नायगरस बुद्धरस बोहगस्स सव्वलोगणाहसस सव्वलोगमंगलस्स णिम्ममस्स पवरकुलसमुप्पभवस्स जाइखत्तिअस्स जं सिलोगुत्तमस्स जणणी ति।'' कियत्पर्यन्तमित्याह-धन्याऽसि पुण्याऽसि त्वं कृतार्थाऽसि, अहं देवानुप्रिये ! शक्रो नाम देवेन्द्रो देवराजा भगवतस्तीर्थकरस्य जन्ममहिमा करिष्यामि। तेन युष्माभिर्न भेतव्यमितिकृत्वा अवस्वापिर्नी ददाति, सुते मेरुं नीते सुतविरहाऽऽर्ता मा दुःखभागभूदिति दिव्यनिद्रया निद्राणां करोतीत्यर्थः। दत्त्वा च तीर्थकरस्य मेरुनेतव्यभगवतः प्रतिरूपक जिनसदृशं रूपं विकुर्वति, अस्मासु मेरुगतेषु जन्ममहध्यापृतिव्य-गेषु आसन्नदुष्टदेवतया कुतूहलाऽऽदिना हृतनिद्रा सती मा इयं वस्ता भवरिवति भगवद्रूपान्निर्विशेष रूपं विकुर्वतीत्यर्थः / विकुळचतीर्थकरमातुः पार्श्व स्थापयति, स्थापयित्वा च पक्ष शक्रान विकुर्वति, आत्मना पञ्चरूपो भवतीत्यर्थः / विकुर्य च तेषां पशानां मध्ये एकः शक्रो भगवन्त तीर्थकरं परमशुचिना सरसगोशीर्षचन्दनलिप्तेन, धूपवासितेनेति शेषः। करतलयोरुद्धयोर्व्यवस्थितयोः पुट संपुट, शुक्तिकासंपुटमिवेत्यर्थः, तेन गृह्णाति / एकः शक्रः पृष्ठत आतपत्रं छत्र धरति / द्वौ शक्रावुभयोः पार्श्वयोश्चमोत्क्षेपं कुरुतः। एकः शक्रः पुरतो वज्रपाणिः सन् प्रकर्षतिनिर्गमयति, आत्मानमिति शेषः / अग्रतःप्रवर्तत इत्यर्थः / अत्र च सप्तापि सामानिकाऽऽदिदेवपरिवार यदिन्द्रस्य स्वयमेव पञ्चरुपविकुर्वणं, तत् त्रिजगद्गुरोः परिपूर्णसेवालिप्सुत्वेनेति। (25) मेरुगमनम्अत्र यथा शक्रो विवक्षितस्थानमाप्नोति तथाऽऽहतए णं से सक्के देविंदे देवराया अण्णेहिं बहूहिं भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहि अ सद्धिं संपरिवुडे सव्विड्डीएन्जाव ताए उक्किट्ठाएन्जाव वीईवयमाणे वीईवयमाणे जेणेव मंदरे पव्वए जेणेव पंडगवणे जेणेव अभिसेअसिला जेणेव अभिसेअसीहासणे, तेणेव उवागच्छइ, उवागच्छइत्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसण्णे / (तए ण से सक्के इत्यादि) ततः स शक्रो देवेन्द्रो देवराजा अन्यैर्वहुभिर्भवनपतिवाणमन्तरज्योतिष्कवैमानिकैर्देवैर्देवीभिश्च सार्द्ध संपरिवृतः सर्वक्या, यावत् करणात्-"सव्वजुईए'' इत्यादिपदसंग्रहः पूर्वोक्ता ज्ञेयः / तयोत्कृष्टया / यावत् करणात्-"तुरिआए'' इत्यादिग्रहः। व्यतिव्रजन व्यतिव्रजन यत्रैव मन्दरपर्वतो यत्रैव च पण्डकवनं यत्रैव चाभिषेकशिला यत्रैव चाऽभि षेकसिहासनं, तत्रैवोपागच्छति, उपागत्य च सिंहासनवरगतः पूर्वाभिमुखः (सण्णिसण्ण इति) पालकविमानं च गृहीतस्वामिकस्य स्वस्वामिनः पादचारित्वेन तमनुव्रजता देवानामप्यनुपयोगित्वादभिषेकशिलायां यावदनुव्रजदभूदिति संभाव्यते। (26) ईशानेन्द्रावसरःतेणं कालेणं तेणं समएणं ईसाणे देविंदे देवराया सूलपाणी वसभवाहणे सुरिंदे उत्तरउड्डलोगाहिवई अट्ठावीसविमाणावाससयसहस्साहिवई अरयंवरवत्थधरे एवं जहा सके , इमं णाणत्तमहाघोसा घंटा, लहुपरक्कमो पायत्ताणीयाहिवई, पुप्फओ विमाणकारी, दाहिणिल्ले णिज्जाणभूमी, उत्तरपुरच्छिमिल्लो रइकरपव्वओ, मंदरे समोसरिओ०जाव पञ्जुवासइ।। (तेण कालेणमित्यादि) तस्मिन् काले सम्भवज्जिनजन्मके, तस्मिन् समये दिक्कुमारिकृत्यानन्तरीये, न तु शक्राऽऽगमनानन्तरीये, सर्वषामिन्द्राणां जिनकल्याणकेषु युगपदेव समागमनाऽऽरम्भस्य जायमानत्वात्। यत्तु सूत्रे शक्राऽऽगमनानन्तरीयमीशानेन्द्राऽऽगमनमुक्तं, तत् क्रमेणैव सूत्रवन्धस्य सम्भवात्। ईशानो देवेन्द्रो देवराजा शूलपाणिवृषभवाहनः सुरेन्द्र उत्तरार्द्धलोकाधिपतिः, मेरोरुत्तरतोऽस्येवाधिपत्यात्। अष्टाविंशतिविमानावासशतसहस्राधिपतिः, अरजांसि निर्मलानि अम्बराणि वखाणि, स्वच्छतयाऽऽकाशकल्पानि वसनानि धरति यः स तथा / एवं यथा शक्रः सौधर्मेन्द्रस्तथाऽयमपि / इदमत्र नानात्वं विशेष: महाघोषा घण्टा, लघुपराक्रमनामा पदात्यनीकाधिपतिः,पुष्पकनाभा विमानकारी, दक्षिणा निर्याणभूमिः, उत्तरपौरस्त्यो रतिकरपर्वतः,मन्दरे समवसृतः समागतः / यावत्पदात्- "भगवत तित्थयरं तित्थयरमायर तिवखुत्तो आयाहिणफ्याहिणकरेइ. करिता वंदइ, णमंसइ,वंदिता णमंसित्ताणचासण्णेणाइदूरे सुस्सूरामाणे णमसमाणे अभिमुहं विणएणं पंजलिउडे ।।इति पर्युपास्ते।