________________ तित्थयर 2250 - अभिधानराजेन्द्रः - भाग 4 तित्थयर किमुक्तं भवति? घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलाः, तत्प्रतियातवशतः सर्वासु दिक्षु विदिक्षुच दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलोऽपि सौधर्मः कल्पो बधिर उपजायत इति। एतेन द्वादशयोजनेभ्यः समागतशब्दः श्रोत्रग्राह्यो भवति, न परतः, ततः कथमेकत्र तामितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरूपजायत इति यदुच्यते तदप्राकृतमेवावसेयम्, सर्वत्र दिव्यानुभावतस्तथारूपशब्दोच्छलने यथोक्तदोषासंभवात्। (15) देवाश्चिन्तयन्ति-एवं शब्दमये सौधर्म कल्पे संजाते पदातिपतिर्यदकरोत्तदाहतए णं तेसिं सोहम्मकप्पवासीणं बहूणं देवाण य देवीण य एगंतरइपसत्तणिचपमत्तविसयसुहमुच्छियाणं सुस्सरघंटारसिअविउलबोलतुरिअचवलपडिबोहए कए समाणे घोसणकोऊहलदिण्णकण्णएगग्गचित्तउवउत्तभाणसाणं से पायत्ताणीआहिवई देवे तंसि घंटारवंसि निसंतपसंतंसि समंसि तत्थ तत्थ तहिं तहिं देसे महया महया सद्देणं उग्रोसेमाणे उग्घोसेमाणे एवं बयासी-हंत ! सुणंतु णं भवंतो बहवो सोहम्मकप्पवासी वेमाणिआ देवा देवीओ अ सोहम्मकप्पवइणो इमो वयण, हिअसुहत्थं आणवेइ णं भो ! सक्के, तं चेव० जाव अंतिअं पाउब्भवह।। (तएणमित्यादि) ततः शब्दव्याप्त्यनन्तरं तेषां सौधर्मकल्पवा-सिना बहूना वैमानिकां देवानां देवीनांच, एकान्ते रतौ रमणे प्रसक्ता आसक्ताः, अत एव नित्यप्रमत्ता विषयसुखेषु मूर्छिता अध्युपपन्नाः। ततः पदत्रयस्य पदद्वयमीलनेन कर्मधारयः / तेषां सुस्वराया पङ्क्तिरथन्यायेन' सुघोषा घण्टा, तस्या रसितं, तस्माद्विपुलः सकलसौधर्मदेवलोककुक्षिम्भरि:यो बोलः कोलाहलः, तेन / अत्र तृतीयालोपः प्राकृतत्वात्। त्वरित शीघ्र चपले ससंभ्रमे प्रतिबोधने कृते सति आगामिकालसंभाव्यमाने घोषणे कुतूहलेन-किमिदानीमुद्घोषणं भविष्यतीत्यात्मकेन, दत्तौ कर्णो येस्तस्तथा। एकाग्र घोषणश्रवणकविषय चित्तं येषाते तथा / एकाग्रचित्तत्वेऽपि कदा-चिन्नोपयोगः स्याच्छाद्मस्थावस्थावशादत आह-उपयुक्तमानसाः शुश्रुषितवस्तुग्रहणपटुमनसः। ततो विशेषणसमासः / तेषाम्। स पदात्यनीकाधिपतिर्देवस्तस्मिन् घण्टारवे नितरां शान्तोऽत्यन्तं मन्दभूतः, ततः प्रकर्षेण सर्वात्मना शान्तः प्रशान्तः / ततश्छिन्नप्ररूढ इत्यादाविय विशेषणसमासः / तस्मिन् सति तत्र तत्र तस्मिन् 2 देशे महता महता शब्देन तारस्वरेण उद्घोषयन् उद्घोषयन एवमवादीत् / किमवादीदिल्याह-(हंत! सुणतुणमित्यादि) हन्त ! इतिहर्ष, स च स्वस्वामिनाऽऽदिष्टत्वाद् जगद् गुरुजन्ममहकरणार्थकप्रस्थाने समारम्भाच शृण्वन्तु भवन्तो बहवः सौधर्मकल्पवासिनो वैमानिका देवा देव्यश्च सौधर्मकल्पपतेरिद वचनं, हित जन्मान्तरकल्याणाऽऽवह, सुख तद्भवसंबन्धि तदर्थमाज्ञापयति भो देवाः ! शक्रः, तदेव ज्ञेयं यत् प्राकसूत्रे शक्रेण हरिनैगमेषिपुर उद्घोषयितव्यमादिष्ट, यावत् प्रादुर्भवत। (15) अथ शक्राऽऽदेशानन्तरं यदेव जातं तदाह-- तए णं ते देवा य देवीओ य एअमटुं सोचा हट्टतुट्ठ०जाव हिअया | अप्पेगइआ वंदणवत्तिअं, एवं पूअणवत्ति, सकारवत्तिअं, सम्माणवत्तिअं, दसणवत्तिअं, कोऊहलवत्तिअं,अप्पेगइया सकस्स वयणमनुवट्टमाणा, अप्पेगइआ अण्णमण्णं मित्तमणु-वट्टमाणा अप्पेगइया जीअमेयं एवमादि त्ति कट्ट०जावपाउन्भवति / / (तएणमित्यादि) ततस्ते देवा देव्यश्च एतमनन्तरोदितमर्थं श्रुत्वा हृष्टतुष्टा यावद्धर्षवशविसर्पद् धृदयाः / अपिः संभावनायाम्, एककाः केचन वन्दनमभिवादनं प्रशस्तकायवाहमनः प्रवृत्तिरूपं तत्प्रत्ययं तदस्माभिस्त्रिभुवनभट्टारकरय कर्तवयमित्येवं निमित्तम् / एवं पूजनप्रत्ययंपूजन गन्धमाल्याऽऽदिभिः समभ्यर्चनम्। एवं सत्कारप्रत्ययंसत्कारः स्तुत्यादिभिर्गुणोन्नतिकरणम्। संमानो मानसप्रीतिविशेषः, तत्प्रत्यय दर्शनमदृष्टपूर्वस्य जिनस्य विलोकनं तत् प्रत्ययं, कुतूहलं तत्र यत्तेनास्तत्प्रभुणा किं कर्तव्य-मित्यात्मकम्, तत्प्रत्ययम्, अप्येककाः शक्रस्य वचनमनुवर्तमानाः, न हि प्रभुवचनमुपेक्षणीयमिति भृत्यधर्ममनुश्रयन्तः। अप्येकका अन्यमन्यं मित्रमनुवर्तमानाः, मित्रगमनानुप्रवृत्ता इत्यर्थः। अप्येकका जीतमेतद् यत् सम्यग्दृष्टिदेवैर्जिनजन्ममहे वतनीयम् / एवमादीत्यादिकमागमननिमित्तमिति कृत्वा चित्तेष्वधार्य, यावच्छब्दात् "अकालपरिहीणं चेव सक्कस्स देविंदस्स देवरणो'' इति ग्रह्यम्। अन्तिकं प्रार्दुभवन्ति। (16) इन्द्रः पालकमादिशति-अथ शक्रस्येतिकर्तव्यमाह-- तए णं से सक्के देविंदे देवराया ते वेमाणिए देवे अ देवीओ अ अकालपरिहीणं चेव अंतिअंपाउब्भवमाणे पासइ, पासइत्ता हटे पालयं णामं आभिओगिअंदेवं सद्दावेइ, सद्दावेइत्ता एवं बयासीखिप्पामेव भो देवाणुप्पिया! अणेगखंभसण्णिविट्ठ लीलट्ठिअसालभंजिआकलिअं ईहामिअउसभतुरगणरममरविहगबालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गयवइरवेइआपरिगयाभिरामं विजाहरजमलजुअलजंतजुत्तं पि व अच्चीसहस्समालिणीरूवगसहस्सकलिअंभिसमाणं भिब्भिसमाणं चक्खुल्लोअणलेसं सुहफासं सस्सिरीअरूवं चलचलिअमहुरमणहरसरंसुहकं तं सुहकं तं दरिसणिज्ज णिउणोचिआमिसिमिसिंतमणिरयणघंटिआजालपरिक्खित्तं जोयणसहस्सवित्थिण्णं पंचजोअणसयमुव्विद्धं सिग्घतुरिअजइणं णिव्वाहिं दिव्वं जाणविमाणं विउव्वाहि, विउव्वाहित्ता एअमाणत्तिअं पचप्पिणाहि।। (तएणं इत्यादि) ततः स शक्रो देवेन्द्रो देवराजा तान बहून वैमानिकान देवान देव्यश्च (अकालपरिहीण चेवेति) पूर्ववत् / अन्तिकं प्रादुर्भवत उपतिष्ठमानान् पश्यति / दृष्ट्वा च-'हट्ट'' इत्येकदेशेन सर्वोऽपि हर्षाऽऽलापको ग्राह्यः / पालकं नाम विमानविकुर्वणाधिकारिणमाभियोगिकं देवं शब्दयति, शब्दयित्वा च एवमवादीत् / यदवादीत्तदाह (खिप्पामेव त्ति) इदं यानं विमानवर्णकं प्राग्वत् / नवरं योजनशतसहसविस्तीर्णमित्यत्र प्रमाणाङ्गुलनिष्पन्नं योजनलक्षं ज्ञेयम् / ननु वैक्रियप्रयोगजनितत्वेनोत्सेधाइ गुलनिष्पन्नत्वमप्यस्य कुतो नेति चेत् ? 'नगपुढविविमाणाइसु पमाणगुलेप तु" इति वचनादर प्रमाणाड् गुलनिष्पन्नत्वं युक्तिमद् 'पुढविविमाणाइ' इति वचनं