________________ तित्ति 2242 - अभिधानराजेन्द्रः - भाग 4 तित्थ सा न जिह्वे न्द्रियद्वारा, षड् रसाऽऽस्वादनादपि / / 3 / / संसारे स्वप्नवन्मिथ्या,तृप्तिः स्यादाभिमानिकी। तथ्या तु भ्रान्तिशून्यस्य, साऽऽत्मवीर्यविपाककृत् / / 4 / / पुद्गलैः पुद्गलास्तृप्ति, यान्त्यात्मा पुनरात्मना। परतृप्तिसमारोपो, ज्ञानिनस्तन्न युज्यते / / 5 / / मधुराऽऽज्यमहाशाकाग्राह्येऽबाह्ये च गोरसात्। परब्रह्मणि तृप्तिर्या, जनास्तां जानतेऽपि न / / 6 / / विषयोर्मिविषोद् गारः, स्यादतृप्तस्य पुद्गलैः। ज्ञानतृप्तस्य तु ध्यान-सुधोद्गारपरम्परा / / 7 / / सुखिनो विषयाऽतृप्ताः, नेन्द्रोपेन्द्राऽऽदयोऽप्यहो! भिक्षुरेकः सुखी लोके, ज्ञानतृप्तो निरञ्जनः / / 8 / / अष्ट०१० अष्टा तित्तिअ अव्य०(तावत्) तत्परिमाणमस्या त्रिका वाचला "यत्तदेतदोतोरित्तिअएतल्लुक्च" ||8/2 / 156|| इतितच्छब्दात् पररा डावादेरतोः परिमाणार्थस्य 'इत्तिअ' इत्यादेशो भवति / प्रा०२ पाद / साकल्ये, अवधौ, तत्परिमाणवति, त्रिका तित्तिकं खि(ण) त्रि०(तृप्तिकाङ्गिण) तृप्तिवाञ्छके, अष्ट०६ अष्ट। तित्तिर पुं०(तित्तिरि) "तित्तिरौ रः" ||8 / 1 / 10 / / इति तित्तिरशब्दे रस्येतोऽद्भवति। प्रा०१ पाद। पक्षिविशेषे,सूत्र०२ श्रु०२ अ०। प्रश्नः। उपा०। प्रज्ञा०। तित्तिरकरण न०(तित्तिरिकरण) तित्तिरिमुद्दिश्य यत्र किञ्चित्क्रियते तथा यत्र स्थाप्यते एवंभूते स्थाने, आचा०। तित्तिरलक्खण न०(तित्तिरिलक्षण) तित्तिरिस्वरूपप्रतिपादके ग्रन्थविशेषे, सूत्र०२ श्रु०२अ०) तित्ती (देशी) सारे, देखना०५ वर्ग 11 गाथा। तित्थ न०(तीर्थ) तीर्यतेऽनेनेति तीर्थम्। द्रव्यतो नद्यादीनां रामोऽनपायश्च भूभागो, भौताऽऽदिप्रवचनं वा / भावतीर्थ तु सङ्घः / स्था०१ ढा०। आ०म०। श्रा०। अथ तीर्थशब्दार्थमाहतित्थं ति पुटवभणियं, संघो जो नाणचरणसंघाओ। इह पवयणं पि तित्थं, तत्तोऽणत्थंतरं जेण / / 1300 / तीर्यतऽनेनेति तीर्थ पूर्वमेवात्राप्युक्तम् / किमित्याह-सङ्कः / किं विशिष्टः? ज्ञानदर्शनचारित्रगुणसङ्घातः। इह तु प्रवचनमपि तीर्थमुच्यते यस्मात, ततः सङ्घातात्तदपि श्रुतज्ञानरूपत्वादनान्तरमेवेति।।१३८०।। विशेष संप्रति तीर्थनिरूपणायाऽऽहनाम ठवणा-तित्थं, दव्वतित्थं चेव भावतित्थं च / एक्के के पि य एत्तो- ऽणेगविहं होइ नायव्वं / (नाम ति) नामतीर्थ , स्थापनातीर्थ, द्रव्यतीर्थ, भवतीर्थं च / (एत्तो | ति) नामाऽऽदिनिक्षेपमात्रकरणादनन्तरमेकेकं नामतीर्थाऽऽदि अनेकविधं भवति ज्ञातव्यम् / तत्र नामतीर्थमनेकविधं, जीवाजीवविध याऽऽदिभेदात् / स्थापनातीर्थ साकारानाकारभेदात / द्रव्यतीर्थमागमाऽऽदिभेदात्। तत्र ज्ञशरीरभव्यशरीरतीर्थप्रतिपादनार्थमाहदाहोवसमं तण्हा-वुच्छेयण मलपवाहणं चेव / तिहिँ अत्थेहिँ निजुत्तं, तम्हा तं दव्वतो तित्थं / / इह ज्ञशरीरभव्यशरीव्यतिरिक्त आगमतो नोआगमतो वा द्रव्यतीर्थ मागधवरदामाऽऽदि परिगृह्यते, बाहादाहाऽऽदेरेवतत उपशमसद्भावात्। तथा चाऽऽह-दाहोपशममिति / दाहो बाह्यः संपातः, तस्य उपशमा यस्मिन तद्दाहोपशमम्। (तण्हावुच्छेयणं ति) तृषः पिपासायाः छेदनं, जलसंघातेन तदपनयात्, तथा मलो बाह्योऽङ्गसमुत्थः, तस्य प्रवाहणंप्रवाह्यतेऽनेनेति प्रवाहणं, जलेन तरय प्रक्षालनत्वात्। एवं त्रिभिरर्थः करणभूतैर्नियुक्तं निश्चयेन युक्तं प्ररूपितम् / यदि वा-प्राकृतत्वात सप्तम्यर्थे तृतीया। त्रिष्वर्थेषु नियोजन यरमा बाह्यदाहाऽऽदिविषयमेव तस्मात् मागधाऽऽदि द्रव्यतस्तीर्थ, मोक्षसाधकत्वाभावात्। संप्रति भावतीर्थमधिकृत्याऽऽहकोहम्मि उ निग्गहिए, दाहस्सोवसमणं हवइ तत्थं / लोहम्मि उ निग्गहिते, तहाए छेयणं होइ।। अट्ठविहं कम्मरयं, बहुएहिं भवेहि संचियं जम्हा। तवसंजमेण बज्झइ, तम्हा तं भावतो तित्थं / / इह भावतीर्थमपि आगमनोआगमभेदतोऽनेकप्रकार, तत्र नो आगमतो भावतीर्थ क्रोधाऽऽदिनिग्रहसमर्थ प्रवचनमेव गृह्यते। तथा धाऽऽहक्रोधे एव निगृहीत दाहस्य द्वेषानलजातस्यान्तः प्रशमनं भवति तथ्य निरुपचरितं, नान्यथा। तथा लोभ एव निगृहीते (तण्हार छयण होति त्ति) तृपोऽभिष्वा लक्षणस्य छेदन व्यपगमो भवति। तथाऽविधमष्टप्रकार कमेवजीवाना रञ्जनात् कर्मरजः, बहुभिर्भवैः संचितं तपःरायमेन बाध्यते शोध्यते यस्मात्तस्मात्तत्प्रवचनं भावतीर्थम्। दसणनाणचरित्तम्मि निउत्तं जिणवरेहिँ सव्वेहिँ। एएण होइ तित्थं, एसो अण्णो वि पजाओ। दर्शनज्ञानचारित्रेषु नियुक्तं नियोजितं सर्वैः ऋषभाऽऽदिभिः. जिनवरैस्तीर्थकृद्भिर्यस्मादित्यर्थभूतेषु त्रिष्वर्थेषु नियुक्तं तस्मात्तत्प्रवचनं भावतीर्थम् / अथवा-येन कारणेनेत्थंभूतेसु त्रिष्वर्थेषु नियुक्तमेतेन कारणेन प्रवचनं भावतरित्रस्थम्, एष त्रिस्थलक्षणस्तीर्थशब्दापेक्षयाऽन्यः पर्यायः। आ०म०वि०२अ०। अथ तीर्थशब्दार्थमाहतिज्जइ जं तेण तहिं, तओ व तित्थं तयं च दव्वम्मि। सरियाईणं भागो, निरवायो तम्मिय पसिद्धे / / 1026|| तरिया तरणं तरियव्वं च सिद्धाणि तारओ पुरिसो। बाहोडुवाइ तरणं, तरणिज्जं निन्नयाईयं / / 1027 / / यद् यस्मात्तीर्यते दुस्तर वस्तु तेन तस्मिँस्ततो सत्यतस्त:र्थमुच्यते / तच नामस्थापनाद्रव्य भावभेदाचतुर्विधम् / तत्र नामस्थापन सुगमे / द्रव्ये द्रव्यभूतमप्रधानभूतं सरित्समुद्राऽऽदीना निरपायः कोऽपि नियतो भागः प्रदेशस्तीर्थमुच्यते। तम्मिश्व प्रसिद्धे सिद्धे सत्यस्याऽऽपेक्षिकशब्दत्वादे तानि नियमात्सिध्यन्ति /