________________ णियाणं 2065 - अभिधानराजेन्द्रः - भाग 4 णियाण लिकम्मे कयकोउयमंगलपायच्छित्ते सिरसा कंठे मालाकडे आविद्धमणिसुवण्णे कप्पियहारद्धहारतिसरयपालंबपलंबमाणकडिसुत्तयसोभे पिणद्धगेवेग्जे अंगुलजुगलजाव कप्परुक्खए चेव अलंकिय बिभूसिते परिंदे सकोरेंटमल्लदामेणं छत्तेणं धरिजमाणेणं०जाव ससि व्व पियदंसणे नरवई, जेणेव बाहि-रिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयति, निसीइत्ता कोई बियपुरिसे सदावेइ,सद्दावेइत्ता एवं वयासीगच्छह णं तुज्झे देवाणुप्पिया ! जाई इमाइं रायगिहस्स नगरस्स बहिया। तं जहा-आरामाणि य, उज्जाणाणि य, आएसणाणि य, आययणाणि य, देवकुलाणि य, सभाओ य, पवाओ य, पणियसालाओ य, जाणसालाओ य, सुधाकम्मंताओ य, वाणिज्जकम्मंताओ य, कट्ठकम्मंताओ या जे तत्थ वणमहत्त-- रया चिट्ठति, ते एवं वयह-एवं खलु देवाणुप्पिया ! सेणिए राया भिंभिसारे आणवेइ-जया णं समणे भगवं महावीरे आदिगरे० जा०......... पुव्वाणुपुट्विं चरमाणे गामाणुगाम दूइजमाणे सुहं सुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावेमाणे इहेव उ विहरेज्जा, तया णं तुज्झे समणस्स भगवतो महावीरस्स अहापडिरूवं ओग्गहं जाणेह, अवधारेत्ता सेणियस्स रन्नो मिंभिसारस्स एयमटुं णिवेदेह! (तते णं से सेणिए इत्यादि) ततोऽनेकमल्लयुद्धव्यायामाऽऽदिकरणानन्तरं स पूर्वनिर्दिष्टः श्रेणिको राजा, अन्यदाऽन्यस्मिन्नवसरे, कदाचित् (पहाते इत्यादि) स्नानं कृतवान्, ततोऽनन्तरं कृतं बलिकर्म येन स्वगृहदेवतानां स तथा, कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि दुःस्वप्नाऽऽदिविघातार्थमवश्यकरणीयत्वाद्येन स तथा। अन्ये त्वाः"पायच्छित्त ति" पादेन पादे वा क्षिप्तो दृग्दोषपरिहारार्थ पादक्षिप्तः, कृतकौतुक मङ्गलप्रायश्चित्तश्चासौ इति विग्रहः / तत्र कौतुकानि मषीतिलकाऽऽदीनि, मङ्गलानि तु दध्यक्षतदुर्वाङ् कुराऽऽदीनि। (सिरसा कंठे मालाकडे त्ति) शिरसा कण्ठे च माला कृता धृता येन स तथा। क्वचित्-"सिरसिपहाए कंठे मालाकडे" इति पाठः / तत्र शिरसि स्नातः / ननु पूर्वमपि ''पहाए त्ति'' उक्त, तर्हि किमर्थ भूयोऽपि-"सिरसि बहाए त्ति।"पुन-रुक्तप्रसङ्गात् ? उच्यते-स्नातः सामान्यतोऽपि कण्ठस्नात उच्यते, अतः पुनरुपादान, तस्मिन् दिने विशेषत उक्तम्-शिरसि स्नातः, द्वितीय पदं सुबोधम् / (आविद्धमणिसु वण्णे त्ति) आविद्धं परिहितम्। (कप्पियेत्यादि) कल्पितानीष्टानि रचितानि च हाराऽऽदीनि कटीसूत्रान्तानि यस्य / तानि च सुकृतशोभान्याभरणानि यस्य स तथा। पिनद्धगवेयकः / यावत्करणात्- "अंगुलिजुगललिकयाभरणे, नाणामणिकणगरयणवरकडगतुडियर्थभियभुए, अहियरूवसरिसरीए, कुंडलाउज्जोतिताणणो मउडदित्तसिरए, हारोच्छयसुकयरइयवत्थे, मुद्धियापिंगलंगुलिए, पालंबयलंबमाणसुकयपमउत्तरिजे, नाणामणिकणगरयणविमलमहरिहनिउणोचियमिसिमिसंतविरइयसुसिलिट्ठविसिट्टलट्टआविद्धवीरवलए किं बहुणा।" इतिपद कदम्बकपरिग्रहः। (कप्परुक्खए चेव त्ति) कल्पवृक्ष एव। (अलंकियविभूसिए त्ति) अलङ् कृतो मुकुटाऽऽदिभिः (विभूसिय त्ति) वस्त्राऽऽदिभिरिति। नराणामिन्द्रो नरेन्द्रः (सकोरेंटेत्यादि) सकोरेण्टानि कोरेण्टाभिधानकुसुमस्तवकवन्ति माल्यमानि पुष्पसजो यत्र तत्तथा, एवंविधेन छत्रेण ध्रियमाणेन, शिरसीत्यध्याहारः / यावत्करणात-"से यवरचामराहि मंगलजयसद्दकयालोए, अणेगगणनायगदंडनायगराईसरतलवरमाड वियमंतिमहामतिगणगदोवारियअमच्चचेडपीढमद्दणगरनिगमसेडिसेणावति-- सत्थवाहदूयसंधिवालसद्धिं संपरिवुडे, धवलमहामेहनिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे'(औ०) इति पदकदम्बकग्रहः / शशीव प्रियदर्शनो नरपतिर्यत्रैव बाह्या उपस्थानशाला आस्थानमण्डपो, यत्रैव सिंहासनं, तत्रैवोपागच्छति, उपागत्य सिंहासनवरे पूर्वाभिमुखः संनिषीदति, निषा कौटुम्बिकपुरुषान् नृपाधिकारिणः पुरुषान् शब्दयति आमन्त्रयति, आमन्त्र्यैवमवादीत्-गच्छत / णमिति वाक्यालङ्कारे। यूयं देवानां प्रियाः सरलस्वभावाः! यानि इमानि अनन्तरं वक्ष्यमाणस्वरूपाणि, राजगृहस्य नगरस्य बहिर्भवन्ति इति शेषः / तद्यथा(आरामाणीत्यादि) आरमन्ति येषु माधवीलतागृहाऽऽदिषु दम्पत्यादीनि ते आरामाः, प्राकृतत्वान्नपुंसकत्वम् / उद्यानानि पुष्फाऽऽदिमवृक्षसंकुलान्युत्सवाऽऽदौ बहुजनभोग्यानि, आवेशनानि येषु लोका आविशन्ति तानि वाऽयस्कारकुम्भकाराऽऽदिस्थानानि, आयतनानि देवकु-लपाश्चपिवरकाः, देवकुलानि प्रतीतानि, सभा--आस्थामण्डपाः, प्रपा उदकदानस्थानानि, पण्यशालाः पण्यगृहाणि, पण्या पणाः। यानशाला यत्र यानानि निष्पाद्यन्ते। सुधाकर्मान्तानि यत्र सुधापरिकर्म क्रियते। वाणिज्यकर्मान्तानि यत्र वाणिज्यार्थं बहवो मिलन्दि लोकाः। एवं काष्ठकर्मान्तानि यत्र काष्टानि क्रयार्थ , जलार्द्रभवनभिया वा यत्र संनिक्षिप्तास्तिष्ठन्ति / उपलक्षणत्वात्-दर्भबर्धवल्लयानरथगृहान्तानि द्रष्टव्यानि। चशब्दः सर्वत्रापरापरभेदसंसूचकः। तत्र ये वनमहत्तरकाः, वनमुपलक्षणमाविशनाऽऽदीनामाज्ञाता अत्यर्थ ज्ञाता अधिपतित्वेन प्रसिद्धास्तिष्ठन्ति, तान् एवं वदत। किं तदित्यादि-(एवं खल्वित्यादि) एवममुना प्रकारेण, खल्वित्यवधारणे, अहो देवानां प्रियाः! श्रेणिको राजा (भिभमारे त्ति) भिम्भा भेरी, सैव सारा प्रधाना यस्सासौ भिम्भसारः / तदा ख्यानमेव कुमारभावे-"अग्गिणा घरे परित्ते सेणिएण य भिंभियं घेतूण णिग्गतो / अवसेसा कुमारा आभरणगादि / पिउणा पुच्छिया। सव्वेहिं कहिय-जेहिं जं णीयं। सेणिएण भणियंमए भिंभणी णीया। सेणियो पिउणा भणितो-तुज्झकिं एस सारो? तेण भणियं आम ति / ततो से रण्णा भिंभासारो णामं कयं / ' शेष ज्ञातचरमेवा (आणवेइ त्ति) आज्ञापयति / किं तदित्याह-(जया णमित्यादि) यदा, णमिति वाक्यालङ्कारे / श्रमणो भगवान्महावीर आदिकरः। यावत्करणात"तित्थगरे सयंसंबुद्धे पुरिसुत्तमे पुरिससीहे०" (औ०) इत्यादिकः समस्तोऽपि औपपातिक ग्रन्थप्रसिद्धो भगवद्वर्णको वाच्यः, स चातिगरीयानिति, न लिख्यते, केवलमौपपातिकग्रन्थादवसेयः / सप्राप्तुकामो मोक्षं प्रति तदनुकूलव्यापारवान्। पुनः (पुव्वाणुपुस्वि तिपूर्वानुपूर्व्या, नाऽनानुपूर्या चेत्यर्थः / (संचरमाणे ति) चरन् संचरन् / एतदेवाऽऽह-(गामाणुगामं दूइज्नमाणे त्ति) ग्रामश्च