________________ णियंठिपुत्त 2060 - अभिधानराजेन्द्रः - भाग 4 णियंठिपुत्त अथैषामेव द्रव्याऽऽदितः सप्रदेशाप्रदेशानामल्पबहुत्वविभाम माहएएसिणं मंते ! पोग्गलाणंदव्वादेसेणं खेत्तादेसेणं कालादेसेणं भावादेसेणं सपएसाणं अपएसाण य कयरे कयरे अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ? नारयपुत्ता ! सव्व-त्थोया पोग्गला भावादेसेणं अपएसा, कालादेसेणं अपएसा असंखेनगुणा; दव्वादेसेणं अपएसा असंखेज्जगुणा; खेत्तादेसेणं अपएसा असंखेजगुणा, खेत्तादेसेणं चेव सपएसा असंखेनगुणा; दव्वादेसेणं सपएसा विसेसाहिया; कालादेसेणं सपएसा विसेसाहिया; भावादेसेणं सपएसा विसेसाहिया। तए णं से नारयपुत्ते अणगारे नियंठिपुत्तं अणगारंवदइ, नमसइ, नमसइत्ता एयमटुं सम्मं विणएणं भुजो भुजोखामेइ, खामेइत्ता संजमेण० जाव विहरइ॥ "एएसिणं'' इत्यादि सूत्रसिद्ध, नवरम् अस्यैव सूत्रोक्ताल्प बहुत्वस्य भावनार्थ गाथाप्रपञ्चो वृद्धोक्तोऽभिधीयते"वोच्छं अप्पाबहुयं, दव्ये खेत्तऽद्धभावओ यावि। अपएससप्पएसा-ण पोग्गलाणं समासेणं॥१।। दव्वेणं परमाणू, खेत्तेणेगप्पएसमोगाढा। कालेणेगसमइया, अपएसा पोग्गला होति / / 2 / / भावेणं अपएसा, एगगुणा जे हवंति वन्नाइ। ते चिय थोवा जं गुण-बाहुल्लं पायसो दव्वे' / 3 / / पर्णाऽऽदिभिरित्यर्थः। द्रव्ये प्रायेण व्यादिगुणा अनन्तगुणान्ताः कालकत्वाऽऽदयो भवन्ति, | एकगुणकालकाऽऽदयस्त्वल्पा इति भावः। "एतो कालाएसे-ण अप्पएसा भवे असंखुगुणा। किं कारणं पुण भवे, भण्णइ परिणामबाहुल्ला?'' ||4|| अयमर्थः-यो हि यस्मिन् समये यद्वर्णगन्धरसस्पर्शसङ्ख्यातभेदसूक्ष्मत्वबादरत्वाऽऽदिपरिणामान्तरमापन्नः, स तस्मिन् समये तदपेक्षया कालतोऽप्रदेश उच्यते / तत्रैवैकसमयस्थितिरित्यन्ये, परिणामाक्ष बहव इति प्रतिपरिणामं कालाप्रदेशसम्भवात्तद् बहुत्वमिति।। एतदेव भाव्यते"भावेणं अपएसा, जे ते कालेण हों ति दुविहा वि। दुगुणाऽऽदओ वि एवं, भावेणं जावऽणंतगुणा" ||5|| भावतोयेऽप्रदेशा एकगुणकालकत्वाऽऽदयो भवन्ति, ते कालतो द्विविधा अपि भवन्ति; सप्रदेशाः, अप्रदेशाश्चेत्यर्थः। तथा भावेन द्विगुणाऽऽदयोऽपि अनन्तगुणान्ता एवमिति द्विविधा भवन्ति। ततश्च-- "कालप्पएसयाणं, एवं एक्कक्कओभवइ रासी। एकेकगुणट्ठाण-म्मि एगगुणकालयाईसु"॥६॥ एकगुणकालकाऽऽदिषु गुणस्थानकेषु मध्ये एकैकस्मिन् गुणस्थानके कालाप्रदेशानामेकैको राशिर्भवति। ततश्चानन्तत्वाद् गुणस्थानकराशीनामनन्ता एव कालाप्रदेशराशयो भवन्ति। अथप्रेरकः"आहाऽणंतगुणत्ताण-मेवं कालापएसयाणं ति। जमणंतगुणट्ठाणे-सु हो ति रासी वि हु अणंता // 7 // (एवमिति) यदि प्रतिगुणस्थानकं कालाप्रदेशराशयोऽभिधीयन्त इति / अत्रोत्तरम्"भण्णति एगगुणाण वि, अर्णतभागम्मि जं अणंतगुणा / तेणासंखगुण चिय, भवंति नाणत्तगुणियत्तं // 8 // अयमभिप्रायः-यद्यप्यनन्तगुणकालत्वाऽऽदीनामनन्ता राशयस्तथाऽप्येकगुणकालत्वाऽऽदीनामनन्तभाग एव ते वर्तन्त इति, न तद्वारेण कालाप्रदेशानामन्तगुणत्वम्, अपित्वसङ्घयातगुणत्वमेवेति। "एवं ता भावमिणं, पडुच कालापएसया सिद्धा। परमाणुपोग्गलाइसु, दव्ये वि हु एस चेव गमो''||६|| एवं तावद्धावं वर्णाऽऽदिपरिणामभिममुक्तरूपमेकाऽऽद्यनन्तगुणस्थानवर्तिनमित्यर्थः / प्रतीत्य कालाप्रदेशकाः पुद्गलाः सिद्धाः कालाप्रदेशभावाः पुद्गलाः सिद्धाः प्रतिष्ठिता द्रव्येऽपि द्रव्यपरिणाममप्यङ्गीकृत्य परमाण्वादिष्वेक एव भावपरिणामोक्तएव गमः / व्याख्या "एमेव होइ खेत्ते, एगपएसाऽवगाहणाईसु।। ठाणंतरसंकति, पडुच्च कालेण मग्गणया, / / 10 / / एवमेव द्रव्यपरिणामवद्भवति, क्षेत्रे क्षेत्रमधिकृत्य, एकप्रदेशावगाढाऽऽदिषु पुद्गलभेदेषु स्थानान्तरगमनं प्रतीत्य कालेन कालाप्रदेशानां मार्गणा, यथा क्षेत्रत एवमवगाहनाऽऽदितोऽपीत्येतदुच्यते। "संकोय विकोयं पिहु, पडुच ओगाहणाइएमेव / तह सुहुमबायरथिरे-यरेयसद्दाइपरिणाम "|11|| अवगाहनायाः सड्कोचं विकोचं च प्रतीत्य कालाप्रदेशाः स्युः। तथा सूक्ष्मबादरस्थिरास्थिरशब्दमनः कर्माऽऽदिपरिणामं च प्रतीत्येति। "एवं जो सच्चो चिय, परिणामो पोग्गलाण इह समए। तं तं पडुछ एसिं, कालेणं अप्पएसत्तं // 12 // (एसिं ति) पुद्गलानामित्यर्थः। "कालेण अप्पएसा, एवं भावा पएसएहितो। होतं असंखेनगुणा, सिद्धा परिणामबाहुल्ला // 13 // एतो दव्वादेसे-ण अप्पएसा हवतिसंखगुणा। के पुणते परमाणू, कह ते बहुय त्ति तं सुणसु? / / 14 / / अणुसंखेज्जपएसिय, असंखऽणंतप्पएसिया चेव। चउरो चिय रासी पो—गलाण लोए अणंताण // 15|| तत्थाऽणंतेहिंतो,सुत्तेणं तप्पएसिएहिंतो। जेण पएसट्टाए, भणिया अणवो अणंलगुणा" ||16|| अनन्तेभ्योऽनन्तप्रदेशिकस्कन्धेभ्यः प्रदेशार्थतया परमाणवोऽनन्तगुणाः सूत्रे उक्ताः। सूत्रं चेदम्-"सव्वत्थोवा अणंतपएसिया खंधा दव्वट्ठयाए ते चेव, पएसट्टयाए अणंतगुणा, परमाणुपोग्गला दव्वट्ठपएसट्टयाए अणंतगुणा, संखेजपएसिया खंधा दट्वट्टयाए संखेजगुणा, तेचेव पएसट्टयाए असंखेज्जगुणा, असंखिज्जपएसिया खंधा दव्वट्टयाए असंखेजगुणा, तेचेवपएसट्ठयाए असंखेजगुण त्ति।" "संखेज्जइमे भागे, संखेज्जपएसिया ण वट्टति। नवरमसंखेज्जपए-सियाण भागे असंखइमे" ||17|| संख्येयतमे भागे संख्यातप्रदेशिकानामसंख्येयतमते भागे संख्यातप्रदेशिकानामणवो वर्तन्ते, उक्तसूत्रप्रामाण्यादिति।