________________ णिम्मियवाइ(ण) 2085 - अभिधानराजेन्द्रः - भाग 4 णियइ ङ्गात् / किञ्च-ईश्वरस्याशरीरतया कारणाभावात् क्रियास्वप्रवृत्तिः स्यात् / सशरीरत्वे च तच्छरीरस्यापि कर्वन्तरेण भाव्यम, एवं चानवस्थाप्रसङ्ग इति। स्था०५ ठा०। ('इस्सर' शब्दे द्वितीयभागे 636 पृष्ठे चैतन्मतं परीक्षितम्) णिम्मिस्सवल्ली स्त्री०(निर्मिश्रवल्ली) नालबद्धेऽनन्तरस्वजनवर्ग, षड् निर्मिश्राणिमाया पिया य भाया, भगिणी पुत्तो तहेव धूया य। एसा अणंतरा खलु, णिम्मिसा होति वल्ली उ॥ माता, पिता, भ्राता, भगिनी, पुत्रो दुहिताच। एषा खल्वनन्तरा भवति वल्ली / व्य० 10 उ०॥ णिम्मूल त्रि०(निर्मूल) उच्छिन्नमूले, "णिम्मूलुल्लुणकण्णोठ्ठना-सिका छिन्नहत्थपङ्कया / ' प्रश्न०१ आश्र० द्वार / णिम्मूलितंतफुरफुरंतविगलमम्महयविगयगाढदिण्णपहारमुच्छितरुलंतविभलविलावकलुणो / निर्मूलितानि विकुक्षितो बहिः- कृतानि अन्त्राणि उदरमध्यावयवविशेषा येषां ते तथा प्रश्न०३ आश्र० द्वार। णिम्मूलण न०(निर्मूलन) क्षये, द्वा० 26 द्वा०॥ णिम्मेअ (देशी) गते, देवना०४ वर्ग 34 गाथा। णिम्मरे त्रि०(निर्मर्याद) परस्त्रीपरिहाराऽऽदिमर्यादाविलोपित्वात् (रा०।। दशा०) लोककुलाऽऽद्यपेक्षया (स्था०३ ठा०२ उ०) अविद्यमानकुलाऽऽदिमर्याद, जं०२ वक्ष०ा भ०। प्रतिपन्नाऽपरिपालके, स्था०३ ठा०१ उ०। णिम्मोअ पुं०(निर्मोक) कञ्चुके, ''केंचुल'' इति ख्याते सर्पत्वचि, विशे० "सेसस्स व निम्मोओ।" प्रा०२ पाद। णिम्मोयणी स्त्री०(निर्मोचनी) निर्मोके कञ्चुके, "जहा य भोई तणुयं भुयंगो, णिम्मोयणिं हिच पलेइ मुत्तो (34)" उत्त०१४ अ०॥ णिय त्रि०(निज) आत्मीये, सूत्र०१ श्रु०२ अ०२ उ०। कर्म०। अष्टा णियजाइलद्धदलिया-ऽणतंसो.............। (81) यका यकाः प्रकृतयो यस्यां मूलप्रकृतौ पतिता विद्यन्ते तासां सैव मूलप्रकृतिर्निजजातिर्विज्ञेया / तया तया निजनिजमूलप्रकृतिरूपया निजजात्या यल्लब्धं प्राप्तं दलिकानम्। (81) कर्म०५ कर्म०। णियइस्त्री०(निकृति) मायायाम्, तत्प्रच्छादनार्थे मृषावचने च 1 प्रश्न०२ आश्र० द्वार। सा *नियति स्त्री०। नियमनं नियतिः। यथाभवने, सूत्र०१ श्रु०१अ०३ उ01 अवश्यंभाव्युदये, सूत्र०१ श्रु०१ अ०२ उ०। सा च पदार्थानामवश्यतया यथाभवने प्रयोजककर्तीति। स्था०४ ठा०४ उ०। आचा० अथ नियतिवादिगोशालाना मतानीह दर्श्यन्तेआघायं पुण एगेसिं, उववण्णा पुढो जिया। वेदयंति सुहं दुक्खं, अदुवा लुप्पंति ठाणओ।।१।। पुनःशब्दः पूर्वोऽऽदिभ्यो विशेषं दर्शयति-नियतिवादिनां पुनरेकेषामेतदाख्यातम् / अत्र चाविवक्षितकर्मका अपि अकर्मका भवन्तीति ख्याते तिोर्भाव निष्ठाप्रत्ययः, तद्योगे कर्तरि षष्ठी / ततश्चायमर्थःतैर्नियतवादिभिः पुनरिदमाख्यातं, तेषामयमाशय इत्यर्थः / तद्यथा उपपन्ना युक्त्या घटमानका इत्यनेन च पञ्चभूततज्जीवतच्छरीरवादिमतमपाकृतं भवति / युक्तिस्तु लेशतः प्राग्दर्शितैव, प्रदर्शयिष्यते च / पृथक् पृथक् नारकाऽऽदिभवेषु शरीरेषु चेत्यनेनाऽप्यात्माऽद्वैतवादिनिरासोऽवसे यः / के पुनस्ते पृथगुपपन्नास्तदाह-जीवाः प्राणिनः सुखदुःखभोगिनः / अनेन च पञ्चस्कन्धातिरिक्तजीवाभावप्रतिपादकबौद्धमताऽपक्षेपः कृतो द्रष्टव्यः। तथा ते जीवाः पृथक् पृथक् प्रत्येकदेहे व्यवस्थिताः सुखं दुःखं च वेदयन्त्यनुभवन्ति / न वयं प्रतिप्राणिप्रतीतं सुखदुःखानुभवं निहुमहे / अनेन चाऽकर्तृवादिनो निरस्ता भवन्ति / अकर्तर्यविकारिण्यात्मनि सुखदुःखानुभवानुपपत्तेरिति भावः / तथैतदस्माभिर्नोऽपलप्यते / (अदुवेति) अथवा-ते प्राणिनः सुखं दुःखं चानुभवन्ति, विलुप्यन्ते उच्छिद्यन्ते, स्वायुषः प्रच्याव्यन्ते, स्थानात्स्थानान्तरं संक्राम्यन्त इत्यर्थः / ततश्चौपपातिकत्वमप्यस्मामिस्तेषां न निषिध्यते। इति श्लोकार्थः / / 1 / / तदेवं पञ्चभूतास्तित्वाऽऽदिवादिनिरासं कृत्वा यत्तैर्निय-- तिवादिभिराश्रीयते, तच्छ्लोकद्वयेन दर्शयितुमाहन तं सयं कडं दुक्खं, कओ अन्नं कडं च णं? सुहं वा जइ वा दुक्खं, सेहियं वा असेहियं / / 2 / / सयं कडं न अण्णेहिं वेदयंति पुढो जिया। संगइअंतं तहा तेसिं, इहमेगेसि आहियं / / 3 / / यत् तैः प्राणिभिरनुभूयते सुखं, दुःखं स्थानविलोपनं वा, न तत्स्वयमात्मना पुरुषकारेण कृतं निष्पादित दुःखमिति, कारणे कार्योपचाराद् / दुःखकारणमेवोक्तम्। अस्य चोपलक्षणत्वात् सुखाऽऽद्यपि ग्राह्यम् / ततश्चेदमुक्तम्भवतियोऽयं सुखदुःखानुभवः स पुरुषकारकृतकारणजन्यो न भवतीति / तथा कुतोऽन्येन कालेश्वरस्वभावकर्माऽऽदिना च कृतं भवेत्? णमित्यलङ्कारे / तथाहि-यदि पुरुषकारकृतं सुखाऽऽद्यनुभूयेत ततः सेवकवणिक्कर्षकाऽऽदीनां समाने पुरुषकारे सति फलप्राप्तिवैस दृश्यं, फलप्राप्तिश्च न भवेत्। कस्यचित्तु सेवाऽऽदिव्यापाराभावेऽपि विशिष्टफलावाप्तिदृश्यत इत्यतो न पुरुषकारात्किञ्चिदासाद्यते, किं तर्हि नियतेरेवेत्येतच द्वितीयश्लोकान्तेऽभिधास्यते / नापि कालः कर्ता, तस्यैकरूपत्वाज्जगति फलवैचित्र्यानुपपत्तेः / कारणभेदे हि कार्यभेदो भवति, नाभेदे। तथा ह्ययमेव हि भेदो भेदहेतुर्वा घटते, यदुत विरुद्धधर्माध्यासः, कारणभेदश्चातथेश्वरकर्तृकेऽपि सुखदुःखेन भवतः / यथाऽसावीश्वरो भूर्तोऽमूर्तो वा? यदि मूर्तस्ततः प्राकृतपुरुषस्येव सर्वक र्तृत्वाभावः / अथाऽमूर्तस्तथासत्याकाशस्येव सुतरां निष्क्रियत्वम्। अपि च यद्यसौ रागाऽऽदिमात्रस्ततोऽस्मदाद्य व्यतिरेकाद्विश्वस्याकर्तव। अथाऽसौ विगतरागः, ततस्तत्कृतं सुभगदुर्भगेश्वरदरिद्राऽऽदिजगद्वैचित्र्यं न घटां प्राञ्चति, ततो नेश्वरः कर्तेति। तथा-स्वभावस्यापि सुखदुः खाऽऽदिकर्तृत्वानुपपत्तिः / यतोऽसौ स्वभावः पुरुषाद्भिन्नोऽभिन्नो वा? यदि भिन्न? न पुरुषाऽऽश्रिते सुखदुःखे कर्तुमलं, तस्मादिन्नत्वादिति / नाप्यभिन्नोऽभेदे पुरुष एव स्यात्तस्य चाकर्तृत्वमुक्तमेय। नाऽपि कर्मणः सुखदुःखं प्रति कर्तृत्वं घटते। यतस्तत्कर्म पुरुषादिन्नभिन्नं वा भवेत? अभिन्नं चेत्पुरुषमात्रताऽऽपत्तिः कर्म