________________ णाम 1966 - अभिधानराजेन्द्रः - भाग 4 णामकम्म(ण) देवदत्त इति नाम / एवं पिण्ड इति वर्णाऽऽवलीरूपमपि नाम गौणाऽऽदिभेदाचतुर्दा / तत्र यदा बहूनां सजातीयानां विजातीयानां च कठिनद्रव्याणामेकत्र पिण्डने पिण्ड इति नाम प्रवर्तते, तद् गौणम्, व्युत्पत्तिनिमित्तस्य वाच्ये विद्यमानत्वात् / यदा तु समयपरिभाषया पानीयेऽपि पिण्ड इति नाम प्रयुज्यते तदा समयजम्, लोके हि कठिनद्रव्याणामेकत्र संश्लेषे पिण्ड इति प्रतीतं, न तु द्रवद्रव्यसं-घाते, ततश्च पिण्डनं पिण्ड इति व्युत्पत्त्यघटनात् / पिं०। नाम च यथार्थाऽऽदिभेदात्रिविधम् / तद्यथा-यथार्थम्, अयथार्थम्. अर्थशून्य च। तत्र यथार्थम-प्रदीपाऽऽदि. अयथार्थम्-पलाशाऽऽदि, अर्थशून्यम्डित्थाऽऽदि / स्था०१ ठा०। विशे० नामस्थापनाद्रव्यमित्येव द्रव्यार्थिकस्य निक्षेपः ।सम्म०१ काण्ड। से किं तं णामे ? णामे दसविहे पण्णत्ते / तं जहा-एगणामे, दुणामे, तिणामे, चउणामे, पंचणामे, छणामे, सत्तणामे, अट्ठणामे, नवणामे, दसणामे। (णामे इत्यादि) इह जीवगतज्ञानाऽऽदिपर्यायेऽजीवगतरूपाऽ5दिपर्यायानुसारेण प्रतिवस्तु भेद नमति तदभिधायकत्वेन प्रवर्तत इति नाम, वस्त्वभिधानमित्यर्थः / उक्त च- ''जं वत्थुणोऽभिहाणं, पजयभेयाणुसारियं णामं / पइभेअंजं नमई, पइभेअं जाइयं भणि // 1 // " अनु०। (एकनामाऽऽदीनां व्याख्या स्वस्वस्थाने) विचित्र-- पर्यायर्नमयति गत्यादिपर्यायानुभवनं प्रति प्रवणयति जीवमिति नाम / कर्म०६ कर्म०। पं०सं०। स्था०। दशा०। प्रव०। गत्यादिहेतौ कर्मणो मूलप्रकृतिभेदे, कर्मा णामकम्म(ण) न०(नामकर्मन्) क०स०। जीवानां विचित्रपरिणामकर्मणामहेतौ कर्मभेदे, कर्म०। तद् द्विविधम्णामकम्मे दुविहे पण्णत्ते। तं जहा-सुभणामे चेव, असुभणामे चेव। विचित्रपर्यायैर्नमयति परिणमयति यजीवं तन्नाम। एतत्स्वरूपंच"जह चित्तयरो निउणो, अणेगरूवाइँ कुणइ रूवाई। सोहणमसोहणाई, चक्खुमचक्रोहिँ वन्नेहिं / / 1 / / तह नाम पि हुकम्म, अणेगरूवाइँ कुणइ जीवस्स। सोहणमसोहणाई, इटाणिहाणि लोयस्स" // 2 // इति / शुभं तीर्थकराऽऽदि, अशुभमनादेयत्वाऽऽदीति। स्था०२ ठा०४उ०। नामकर्माभिधित्सुराह ..........नामकम्म चित्तिसमं। बायालतिनवइविहं, तिउत्तरसयं च सत्तट्ठी।।२३।। (नामकम्म चित्तिसम इत्यादि) नामकर्म भवति चित्रिसम, चित्रं कर्म, तत् कर्तव्यतया विद्यते यस्य स चित्री चित्रकरः, तेन समं सदृश चित्रिसमम् / यथा हि चित्री चित्र चित्रप्रकारं विविधवर्णकः करोति, तथा नामकर्मापि जीवम्-नारकोऽयम्, तिर्यग्योनिकोऽयम, एकेन्द्रियोऽयम्, द्वीन्द्रियोऽयमित्यादिव्यपदेशैरनेकधा करोतीति चित्रिसममिदमिति।। एतचानेकभेदम् / कथमित्याह-(बायालतिनवइविहं तिउत्तरसयं उ सत्तट्टि ति) अत्र विधाशब्दस्य प्रत्येकं योगाद् द्विचत्वारिंशद्विधम् / यद् यात्रिनवतिविधम्, यदि वा-त्र्युत्तरशतविधम्, अथवा-सप्तषष्टिविधम् / चशब्दः समुच्चये व्यवहितसंबन्धश्च, स च तथैव योजितः / / 23 / / कर्म०१ कर्मन नामकम्मे बायालीसविहे पण्णत्ते। तं जहा-गइनामे, जाइनामे, सरीरनामे, सरीरवंगनामे, सरीरोबंधणनामे, सरीरसंघायणनामे, संघयणनामे, संठाणनामे, वन्ननामे, गंधनामे, रसनामे, फासनामे, अगुरुलहुयनामे, उवघायनामे, पराघायनामे, आणुपुव्वीनामे, उस्सासनामे, आयवनामे, उज्जोयनामे, विहगगइनामे, तसनामे, थावरनामे, सुहुमनामे,बायरनामे, पज्जत्तनामे, अपञ्जत्तनामे,साहारणसरीरनामे, पत्तेयसरीरनामे, थिरनामे, अथिरनामे, सुभनामे, असुभनामे, सुभगनामे, दुब्भगनामे, सुस्सरनामे, दुस्सरनामे, आएजनामे, अणाएजनामे, जसो कित्तिनामे, अजसोकित्तिनामे, निम्माणनामे, तित्थगरनामे / स० ४२सम अथ नामकर्मणो द्विचत्वारिंशत भेदान् प्रचिकटयिषुराहगइजाइतणुउवंगा, बंधणसंघायणाणि संघयणा। संठाणवन्नगंधर-सफासअणुपुट्विविहगगई।॥२४॥ इह नाम्नः प्रस्तावत् सर्वत्र गत्यादिषु नामेत्युपस्कारः कार्यः। तथाहिगतिनाम, जातिनाम, तनुनाम, उपाङ्गनाम, बन्धननाम, सङ्घातननाम, संहनननाम, संस्थाननाम, वर्णनाम, गन्धनाम, रसनाम, स्पर्शनाम, आनुपूर्वीनाम, विहायोगतिनामेति / कर्म०१ कर्म०। उक्ता नामकर्मणो द्विचत्वारिंशद्भेदाः / अथ तस्यैव त्रिनवतिभेदान् प्ररूपयितुकामो गत्यादिपदाना पिण्डप्रकृतिसंज्ञकानां मध्ये येन पदेन यावन्ती भेदाः पिण्डिता वर्तन्ते, तान् भेदान् तेषामाह-- गइयाईण उ कमसो, चउ पण पण ति पण पंच छ च्छकं / पण दुग पणऽट्ठ चउ दुग, इय उत्तरभेयपणसट्ठी।।२६।। गत्यादीनां पिण्डप्रकृतीनां पूर्वप्रदर्शितस्वरूपाणां पुनः क्रमशः क्रमेण, यथासंख्यमितियावत्, चतुरादयो भेदा भवन्तीति वाक्यार्थः / तथाहिगतिनाम चतुर्धा, जातिनाम पञ्चधा, तनुनामपञ्चधा, उपाङ्गनाम विधा, बन्धननाम् पञ्चधा, सनातननाम पञ्चधा, संहनननाम षोढा, संस्थाननाम घोढा, वर्णनाम पञ्चधा, गन्धनाम द्वेधा, रसनाम पञ्चधा, स्पर्शनाम अष्टधा, आनुपूर्वी नाम चतुर्द्धा, विहायोगतिनाम द्वधा / एतेषां सर्वमीलने भेदाग्रमाह-(इय त्ति) इत्यमुना चतुरादिभेदमीलनप्रकारेणोत्तरभेदानां पञ्चषष्टिरिति // 26 // अडवीसजुया तिनवइ, संते वा पनरबंधणे तिसयं। बंधणसंघायगहो, तणूसु सामन्नवन्नचऊ // 30 / / एषा पूर्वोक्ता पञ्चषष्टिरष्टाविंशतियुता प्रत्येकप्रकृत्यशाविंशत्या सह मीलने त्रिभिरधिका नवतिस्विनवतिर्भवति। सा च कोपयुज्यत इत्याह-(संतेत्ति) प्राकृतत्वात् सत्तायां सत्कर्म प्रतीत्य बोद्धव्येत्यर्थः / वाशब्दो विकल्पार्थो व्यवहितसंबन्धन / स चैवं योज्यतेपश्चदशबन्धनैस्त्रिशतं वा पञ्चदशसंख्यैर्वक्ष्यमाणस्वरूपैर्बन्धनैः प्रदर्शितत्रिनवतिमध्ये प्रक्षिप्तस्विभिरधि