________________ णाणणय 1961 - अभिधानराजेन्द्रः - भाग 4 णाणत्ता सम्यग्दर्शना निश्चयतः 'खलु' इत्यपिशब्दार्थो निपातः। तस्य व्यवहितः संबन्धः / तमुपरिष्टाद् दर्शयिष्यामः। (न हुलब्भा तारिसा दटुंति) नैव कल्पन्ते तादृशा दृष्टुमपि, किंपुनर्ज्ञानाऽऽदिना प्रतिलाभयितुमिति गाथाऽर्थः / / 83 / / आव०३ अ० ति०। ('दंसण' शब्दे दर्शनप्राधान्यविचारः) तत्र ज्ञाननयदर्शनम्-इदं ज्ञानमेवैहिकाऽऽमुष्मिकफलप्राप्तिका-रणं प्रधानं, युक्तियुक्तत्वात्, तथा चाऽऽह नियुक्तिकार:नायम्मि गिण्हियव्वे, अगिण्हियव्वम्मि चेव अत्थम्मि। जइयव्वमेव इइ जो, उवएसो सो नओ नाम ||3562 / / नायम्मि' ज्ञाते सम्यक्परिच्छिन्ने ग्रहीतव्ये उपादेये (अगिहि-यव्वम्मि त्ति) अग्रहीतव्ये अनुपादेये, हेय इति भावः / चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोतिव्यानुकर्षणार्थः, उपेक्षणीयवस्तुसमुच्चयार्थो वा / एवकारश्वावधारणार्थः / तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः / ज्ञान एव ग्रहीतव्ये, तथाऽग्रहीतव्ये, उपेक्षणीये च ज्ञात एव नाज्ञाते अर्थे ऐहिकाऽऽमुष्मिके। तत्रैहिको ग्रहीतव्यः स्रक्चन्दनाऽऽदिभिः, अग्रहीतव्यो विषशसकण्टकाऽऽदिः उपेक्षणीयस्तृणाऽऽदिः / आमुष्मिको ग्रहीतव्यः सम्यग्दर्शनाऽऽदिः, अग्रहीतव्यो मिथ्यात्वाऽऽदिः, उपेक्षणीयो विषयाऽऽदिः, तस्मिन्नर्थे यतितव्यमेव अनुस्वारलोपाद् यतितव्यमेव क्रमेण ऐहिकाऽऽमुष्मि-कफलप्राप्त्यर्थिना सत्त्वेन प्रवृत्यादिलक्षणो यत्नः कार्य इत्यर्थः। इत्थं चैतदङ्गीकर्तव्यम्-सम्यगज्ञाते प्रवर्त्तमानस्य फलविसंवाददर्शनात्। तथा चोक्तमन्यैरपि"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनात्' / / 126 / / (नयो०)। तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपि ज्ञानादेव यतितव्यम् / (3562) आ०म०१ अ०२खण्ड / इह ज्ञाननयो ज्ञानप्राधान्यख्यापनार्थ प्रतिपादयति-नन्वैहिकाऽऽमुष्मिकफलार्थिना तावत् सम्यग् विज्ञात एवार्थे प्रवर्तितव्यम्; अन्यथाप्रवृत्तौ फलविसंवाददर्शनात् / तथा चान्यैरप्युक्तम्-'"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता। मिथ्याज्ञानात्प्रवृत्तस्य, फलासंवाददर्शनात् / / 226 / / (नयो०) तथा चाऽऽगमेऽप्युक्तम्-" "पढमं नाणं तओ दया'' इत्यादि।''जं अन्नाणी कम्म खवेइ" इत्यादि / तथाऽपरमप्युक्तम्- ''पावाओ विणिवत्ती, पवत्तणा तह य कुसलपक्खम्मि। विणयस्स वि पडिवत्ती, तिन्नि वि नाणे समप्पंति / / 1 / / " इतश्च ज्ञानस्यैव प्राधान्यम्,यतस्तार्थकरगणधरैरगीतार्थानां केवलाना विहारोऽपि निषिद्धः। तथा च तद्वचनम्"गीयत्थो य विहारो, बीयो गीयत्थमसिओ भणिओ। एतो तइयविहारो, नाणुन्नाओ जिणवरेहि // 1 // " न यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक् पन्थानं प्रतिपद्यत इति भावः / एवं तावत् क्षायोपशमिकं ज्ञानमधिकृत्योक्तम्, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव ज्ञेयम्,यस्मादर्हतोऽपि भवाम्भोधेः तटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः संजायते, यावदखिलजीवाऽऽदिवस्तुस्तोमसाक्षात् करणदक्ष केवलज्ञानं नोत्पन्नम् / तस्माद् ज्ञानमेव पुरुषार्थसिद्धेर्निबन्धनम् / प्रयोगश्चात्रयद् येन विना न भवति तत्तन्निबन्धनमेव, तथा जीवाऽऽद्यविनाभावी तन्निबन्धन एवाड़ -कुरः, ज्ञानाविनाभाविनी च सकलपुरुषार्थसिद्धिरिति। ततश्चायं नयश्चतुर्विधसामायिके सम्यक्त्यश्रुतसामायिके एवाभ्युपगच्छति, ज्ञानाऽऽत्मकत्वेन तयोरेव मुख्यमुक्तिकारणत्वात् / देशसर्वविरतिसामायिके तु नेच्छति, ज्ञानकार्यत्वेन गौणत्यातयोरिति। विशेला वृक्षा सूत्रका अनु०। आचा०ा नि०चूला दशा सम्मा णाणणिण्हवया स्त्री०(ज्ञाननिहवता) 6 त०] श्रुतस्य श्रुतगुरूणां वाऽपलपने, भ०८श०६उ णाणणिव्वत्ति स्त्री०(ज्ञाननिर्वृत्ति) ज्ञानस्य आभिनिबोधिकादितया निष्पत्तौ, सा चाभिनिबोधिकाऽऽदिभेदेन पञ्चविधा / यस्य यावन्ति ज्ञानानि तस्य तावती / भ०२० श०५उ०। णाणतव न०(ज्ञानतपस्) तीर्थकृता केवलोत्पत्त्यर्थ कृतेऽष्टमाऽऽदितपसि, यथा पार्श्वजिनर्षभस्वामिमल्लिनाथारिष्टनेमीनामष्टमेन वासुपूज्यस्य चतुर्थेन शेषाणामजितस्वाम्यादीनामूनविंशतिजिनानां षष्ठेन भक्तेन केवलज्ञानमुत्पेदे। प्रव०४५ द्वार। णाणतह न०(ज्ञानतत्थ) मत्यादिकेन ज्ञानपञ्चकेन यथास्वमवितथे विषयोपलम्भे, सूत्र०१श्रु०१३अ०। णाणतिग न०(ज्ञानत्रिक) मतिज्ञानश्रुतज्ञानावधिज्ञानत्रये, कर्म०४ कर्म०| णाणतिलगगणि पुं०(ज्ञानतिलकगणिन) पद्मराजगणिशिष्ये गौतमकुलकवृत्तिकारके, स च वैक्रमीये 1660 मिते वत्सरेवर्तमान आसीत्। जै०३० णाणत्त न०(नानात्व) नानाभावो नानात्वम् / वर्णाऽऽदिकृते वैचित्र्ये, प्रज्ञा०१५ पद / भ०नि०चूला व्या स्थान णाणत्ता स्त्री०(नानाता) नानाभावो नानाता। विशेषे, आ०म०१ अ०२ खण्ड। अथ 'नाणत्त त्ति' नानातालक्षणं विवरीषुराहनाणत्त त्ति विसेसो, सो दव्वक्खेत्तकालभावहिं। असमाणाणं णेओ, समाणसंखाणमविसेसो।।२१६१।। परमाणुदुयणुयाणं, जह नाणत्तं तहाऽवसेसाणं / असमाणाणं तह खेत्तकालभावप्पभेयाणं // 2162 / / नाना इत्येतस्य भावो नानातावस्तूनां परस्परं भिन्नता, विशेष इत्यर्थः / स च विशेषो द्रव्यक्षेत्रकालभावैरसमानानामसमानसंख्यानां ज्ञेयोऽवगन्तव्यः, द्रव्याऽऽदिभिः समानसंख्यानां पुनरविशेष इति // 2161 / / अत्रोदाहरणमाह-(परमाण्वित्यादि) यथा द्रव्यसंख्यया असमानानां परमाणूनां व्यणुकरकन्धानां च, तथाऽवशेषाणां द्वयणुकानां त्र्यणुकानां च, तथा त्र्यणुकानां चतुरणुकानां च, तथा चतुरणुकानां पशाणुकानां चेत्यादिद्रव्यसंख्ययाऽसमानानां परस्परं नानात्वं विशेषोज्ञेयः। तथा तेनैव प्रकारेण क्षेत्रकालभावसंख्ययाऽसमानानां क्षेत्रकालभावप्रभेदानामपि परस्परं नानात्वं विशेषो मन्तव्यः; तद्यथा-एक प्रदेशावगाढाना द्वयादिप्रदेशावगाढानां च, तथैक-समयस्थितिकानां द्वयादिसमयस्थितिकानां च, तथा एकगुणकालकाऽऽदीनां द्विगुणकालकाऽऽदीनांचेत्यादि। उपलक्षणं चेदमुद्रव्यतः समानसंख्यानामपिपरमाण्वादीनां क्षेत्रकालभा