SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ णाण 1953 - अभिधानराजेन्द्रः भाग - 4 णाण सन्तो घटाऽऽदयः श्रुतानुसारित्वाभावेन श्रुतोपयुक्तेन विकल्प्यन्ते, ये चाऽर्थपर्यायत्वेन वाचकध्वनेरभावाद् मूलत एवाभिलपितुमशक्या अनभिलाप्याः, ते यस्यां विज्ञप्तौ प्रतिभासन्ते सा मतिरित्यवगन्तव्या, न तु श्रुतम्, अभिलाप्यवस्तुविषयायां श्रुतानुसारित्वाभावाद , अनभिलाप्यवस्तुविषयायांतुभाषणायोग्यत्वादिति गाथाद्वयार्थः / / 148 || अथेष्टतोऽवधारणविधिमुपदर्शयन्नाहजे भासइ चेय तयं, सुयं तु न तु भासओ सुयं चेव / केइ मइए वि दिट्ठा,जंदव्वसुयत्तमुवयंति / / 146 / / "बुद्धिदिढे अत्थे, जे भासइ" (128) इत्यत्र यान् कदाचित् / संभवमात्रेण भाषत एव तत् श्रुतमित्येवमेवावधारणीयम् , न तु भाषमाणस्य श्रुतमेवेति यान् भाषते तत् श्रुतमेवेत्येवं नावधार्यत इत्यर्थः / कुतः? इत्याह-यद्यस्मात्कारणात् केचिदभिलाप्याः पदार्था मत्याऽपि दृष्टा अवग्रहेणावगृहीताः, ईहया त्वीहिताः, अपायविकल्पेन तु निश्चिता इत्यर्थः, द्रव्यश्रुतत्वमुपयान्ति, शब्दलक्षणेन द्रव्यश्रुतेन भाष्यन्त इत्यर्थः / यदिच भाषमाणस्य श्रुतमेवेत्यवधार्येत, तदा एषामपि श्रुतत्वं स्यात्, न चैतदिष्यते, श्रुतानुसारित्वाभावेन श्रुतोपयुक्तत्वस्य तेष्वसंभवात, तस्माद् यथोक्तमेवावधारणमिति गाथाऽर्थः / / 146 / / अथ यथोक्तव्याख्यानलब्धमतिश्रुतभेदोपदर्शनपूर्वकमुपसं हरन्नाहएवं धणिपरिणाम, सुयनाणं उभयहा मइन्नाणं। जं मिन्नसहावाइं, ताई तो भिन्नरूवाई / / 150 / / एवं प्रागुक्तप्रकारेण केवलाऽभिलाप्यार्थविषयत्वात् सर्वमपि श्रुतज्ञानं ध्वनिपरिणाममेव, ध्वनेः शब्दस्य परिणमनं विपरिवर्तनं परिणामो यत्र तद्ध्वनिपरिणामं भवत्येव, श्रुतानुसारित्वेनोत्पन्नमेव ह्येतदिष्यते, श्रुतं च संकेतकालभाविपरोपदेशरूपः, श्रुतग्रन्थरूपश्च द्विविधः शब्दोऽत्राधिकृतः, तदनुसारेण चोत्पन्ने ज्ञाने ध्वनिपरिणामो भवत्येवेति।मतिज्ञान तुभयथाऽपि भवति-शब्दपरिणामम् , अशब्दपरिणामंच, अभिलाप्यानभिलाप्यपदार्थविषयं ह्येतत्। ततश्च श्रुतानपेक्षस्यमत्यैव विकल्प्यमानेष्वभिलाप्येषु ध्वनिपरिणामोऽस्मिन्नपि प्राप्यते / अनभिलाप्यविषयतायां तु नाऽसौ तत्र लभ्यते / अनभिलाप्यपदार्था हि स्वयमेव बुद्ध्यमाना अपि वाचकध्वेनेरभावाद्विकल्पयितुं, परस्मै प्रतिपादयितुवा न शक्यन्ते, यथा नालिकेरद्वीपाऽऽयातस्य वयादयः क्षीरेक्षुगुडशर्कराऽऽदि-माधुर्यतारतम्याऽऽदयो वा; इति कुतस्तद्विषतायां ध्वनिपरिणामः ? अभिलाप्यपदार्थेभ्योऽनन्तगुणाश्चानभिलाप्याः सन्ति, ततोऽभिलाप्यानभिलाप्यवस्तुविषयत्वात् शब्दाशब्दपरिणाम मतिज्ञानमिति स्थितम् / अथोपसंहरति-(तो त्ति) तस्मात्ते मतिश्रुते स्वामिकालाऽऽदिभिरविशेषेऽपि भिन्नरूपे भेदवती मन्तव्ये / कुतः? इत्याह-यद् यस्मात् कारणाद् द्वे अपि भिन्नस्वभावे, उक्तन्यायेनैकस्य ध्वनिपरिणामित्वात्, अपरस्य तूभयस्वभावत्वादिति गाथाऽर्थः // 150 / / तदेवं मूलगाथायाम्-"बुद्धिद्दिढे अत्थे, जे भासइतंसुयं मईसहियं।" (128) इत्येतत् पूर्वार्द्धम्-" सामण्णा वा बुद्धी" (147) इत्यादिना व्याख्यातम्। अथ-"इयरत्थ विहोज सुयं, उवलद्धिसमंजइ भणेजा।" | (128) इत्येतदुत्तरार्द्ध व्याचिख्या-सुराहइयर त्ति मइन्नाणं, तओ वि जइ होइ सद्दपरिणामो। तो तम्मि वि किं न सुयं, भासइज नोबलद्धिसमं? ||151 / / " इयरत्थ वि होज सुयं" (128) इति मूलगाथोत्तरार्द्ध इतरशब्दस्य किं वाव्यम् ? इत्याह-इतरदिति मतिज्ञानं तत्राऽभिसंबध्यते, इत्याचार्येणोक्ते परः प्राऽऽह-(तओ विजइ होइ सद्दपरिणामो। तो तम्मि वि किं न सुयं ति) तत इति सप्तम्यन्तात्तस्प्रत्ययः, ततश्च-" उभयहा मइन्नाणं " (150) इतिवचनाद्यदि तस्मिन्नपि मतिज्ञाने शब्दपरिणामो भवति, ततस्तस्मिन्नपि किं न श्रुतंतदपि भाव श्रुतरूपता किं न प्रतिपद्यते ? इत्यर्थः शब्दपरिणामस्य श्रुतत्वेन उक्तत्वादिति भावः / अत्राऽऽचार्य उत्तरमाह-(भासइ ज नोवलद्धिसमं ति) यद् यस्मात कारणादुपलब्धिसम मतिज्ञानी न भाषते, ततो न मतिज्ञानस्य श्रुतरूपतेति गाथाऽर्थः / / 151 / / कथं पुनरुपलब्धिसममसौ न भणति? इत्याहअभिलप्पाऽणमिलप्पा, उवलद्धा तस्समंच नो भणइ। तो होउ उभयरूवं, उभयसहावं ति काऊणं // 152 / / प्रागुक्तन्यायेन अभिलाप्यानभिलाप्याः पदार्था मतिज्ञानोपलब्धाः, एवंभूतोपलब्ध्या चसमं भणितुं न शक्नोत्येव, अनभिलाप्यानां सर्वथैव वक्तुमशक्यत्वादिति भावः / अत्र परः प्राऽऽह-(तो होउ इत्यादि) ततस्तर्हि भवतु मतिज्ञानमुभयरूपं श्रुतमतिरूपम् / कुतः ? इत्याहउभयस्वभावमिति कृत्वा, अभिलाप्यानभिलाप्यवस्तुविषयत्वेन द्विस्वभावत्वादित्यर्थः / इदमुक्तं भवति-यदभिलाप्यपदार्थान् उपलभते भाषते च, तत् श्रुतज्ञानमस्तु, अनभिलाप्यपदार्थांस्तु भाषणायोग्यान् यदवगच्छति, तन्मतिज्ञानं भवति / इति गाथाऽर्थः // 152 / / अत्रोत्तरमाहजं भासइ तं पिजओ, न सुयाऽऽदेसेण किं तु समईए। न सुओवलब्धितुल्लं, ति वा जओ नोवलद्धिसमं / / 153 / / यदपि किञ्चिदभिलाप्यवस्तूपलब्धं मतिज्ञानी भाषते तदपि यतो न श्रुताऽऽदेशेन, किं तु स्वमत्या, अतो न तत् श्रुतमिति। इदमुक्तं भवतिपरोपदेशः, श्रुतग्रन्थश्च श्रुतमिहोच्यते, तदादेशेन तुतदनुसारेण विकल्प्य यदा भाषते, तदा श्रुतोपयुक्तस्य भाषणात् श्रुतमुपपद्यत एव, यत्र तु स्वमत्यैव पर्यालोच्य भाषतेनतु श्रुतानुसारेण, तत्र श्रुतोपयुक्तत्वाभावान्मतिज्ञानमेवातदेवम्-" भासइ जं नोवलद्धिसमं " (151) इत्यस्य गाथाऽवयवस्य "अभिलाप्पाणभिलप्पा, उवलद्धा'' (152) इत्यादिना व्याख्यानं कुर्वताऽऽचार्येण मतिज्ञानी मतिज्ञानोपलब्ध्या समं न भाषते, अतस्तत्रोपलब्धिसमं भाषणं न भवति, इत्यतो न मतिज्ञाने श्रुतरूपतेत्युक्तम्: श्रुतज्ञानी त्वभिलाप्यानुपलभते, ताँश्च भाषतेऽतस्तत्रैवोपलब्धिसमत्वस्य सद्भावात् श्रुतरूपतेति भावः / साम्प्रतं तु मतिज्ञानी श्रुतोपलब्ध्या तुल्यं समं न भाषते, इत्येवमुपलब्धिसमत्वाभावमुपदर्शयनाह-(न सुओवलद्धीत्यादि ) वाशब्दः प्रकारान्तरद्योतकः, ततश्च न श्रुतोपलब्ध्या तुल्यं मतिज्ञानी भाषत
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy