SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ णाण 1952- अभिधानराजेन्द्रः भाग - 4 णाण पदार्थोऽभिधीयत एव; ततश्च गम्या अपि मतिविशेषास्तदन्त विन एव, तदनुसारित्वादिति गाथाऽर्थः // 143 // चतुर्दशपूर्वलक्षणश्रुतानुसारित्वेन यदेतद् मतिविशेषाणां तदन्त वित्वमुक्तम् , तदेव समर्थयन्नाहजे अक्खरानुसारेण मइविसेसा तयं सुयं सव्वं / जे उण सुयनिरवेक्खा, सुद्धं चिय तं मइन्नाणं / / 144 // ये अक्षरानुसारेण श्रुतग्रन्थमनुसृत्य जायन्ते मतिविशेषाः तत्सर्व श्रुतमेव, इत्यसकृदुक्तम् / ये तु यथोक्तश्रुतनिरपेक्षाः स्वयमेवोत्प्रोक्षितवस्तुतत्त्वा मतिविशेषाः समुत्पद्यन्ते तच्छुद्धं मतिज्ञानमेव, / इत्येतदप्यनेकधा प्रागप्यभिहितम् / तस्माचतुर्दशपूर्वगताक्षरानुसारेण जायमानाः प्रस्तुतमतिविशेषाः सर्वे, श्रुतमेवेति गाथाऽर्थः / / 144 / / (10) तदेवं द्रव्यश्रुताऽऽदिश्रुतस्वरूपप्रतिपादनप्रकारेण" बुद्धिद्दिढे अत्थे जे भासइ" (128) इत्यादि मूलगाथा व्याख्याय" केई बुद्धिद्दिट्टे, मइसहिए भासओ' (132) इत्यादिना दर्शितमपि विशेषदूषणाऽभिधित्सया पुनरपि म तान्तरमुपदर्शयन्नाहकेइ अभासिजंता, सुयमणुसरओ विजे मइविसेसा। मन्नंति ते मइ चिय, भावसुयाभावओ तन्नो / / 145 / / केचिद् व्याख्यातारः (मन्नंति ते मइ चिय त्ति) तान् मतिविशेषान् श्रुतमनुसरतोऽपि मतिरेवेति मन्यन्ते। ये किम् ? इत्याह-येऽभाष्यमाणाः, येषु शब्दप्रवृत्तिर्नास्तीत्यर्थः। श्रुतानुसारिणोऽपि मतिविशेषा ये प्रवृत्तिरहिताः केवलं हृद्येव विपरिवर्तन्ते, ते मतिज्ञानमेवेति केचिद् मन्यन्त इति भावः / तदेतद् न / कुतः ? इत्याह-भाव श्रुताभावप्रसङ्गात् . तदभावश्च" किं सद्दो मइरुभयं, भाव-सुयं सव्वहा जुत्तं / (132)" "सद्दो तादव्वसुयं, मइराभिणिबोहियं न वा उभयं। " (132) इत्यादि पूर्वोक्तग्रन्थाद् भावनीयम्। इति गाथाऽर्थः / / 145 / / किंचकिह मइसुयनाणविऊ, छट्ठाणगया परोप्परं होजा। भासिज्जंतं मोत्तुं, जइ सव्वं सेसयं बुद्धी / / 146 / / यदि भाष्यमाणं मुक्वा शेषकं सर्वमपि बुद्धिर्मतिज्ञानमित्यर्थः, तर्हि मतिश्रुतज्ञानाभ्यां विदन्तीति मतिश्रुतज्ञानवेदिनः परस्परं स्वस्थाने परस्थाने च कथं षट्रस्थानपतिताः स्युः ? न कथञ्चिदित्यर्थः। तथाहिसर्वेणापि जन्मना मतिश्रुतोपलब्धानामर्थानामनन्तभाग एव भाष्यत इति प्रागिहैवोक्तम्। ततश्च मतिज्ञानी श्रुतज्ञानिनः सकाशात् सदैवानन्तगुणाधिकः, श्रुतज्ञानी वितरस्मान्नित्यमनन्तगुणहीण एव प्राप्नोति इति न तावत्परस्थाने षट्स्थानपतितत्वम् / स्वस्थानेऽपि श्रुतज्ञानी अन्यस्मात् श्रुतज्ञानिनः संख्यातेनैव हीनोऽधिको वा स्यात्, न त्वसंख्यातेन, अनन्तेन वा, भाषकचतुर्दशपूर्वविदा संख्येयवर्षाऽऽयुष्कत्वेन असंख्येयस्यानन्तस्य वा भाषणस्यैवासंभवादिति / अस्येव च विशेषदूषणस्याभिधानार्थं पुनरत्रेदं मतान्तरमुपन्यस्तम्। अन्यथा हि" केई बुद्धिद्दिडे, मइसहिए भासओ सुर्य (132)" इत्यादिना सर्वमिदं | प्रागभिहितमेवेति गाथाऽर्थः / / 146 // तदेवं " बुद्धिद्दिढे अत्थे" (128) इत्यादिपूर्वगतगाथाश्रुतस्वरूपाभिधायिना प्रकारेण व्याख्याता, मतिश्रुतयोश्च भेदस्य व्याख्येयत्वेन प्रस्तुतत्वात्तदभिधायकत्वेनाऽपि मतान्तरेण व्याख्याता, तब व्याख्यानमयुक्ततत्वाद्दूषितम्। अथाऽऽत्माऽभिमतेन निरवद्यमतिश्रुतभेदप्रकारेणैतां व्याख्यातुमाहसामन्ना वा बुद्धी, मइसुयनाणाई तीऍ जे दिट्ठा। भासइ संभवमित्तं, गहियं न उ भासणामित्तं / / 147 / / मइसहियं भावसुयं, तं नियममभासओ वि मइरन्ना / मइसहियं ति जमुत्तं, सुओवउत्तस्स भावसुयं // 148 / / स्वविहितप्रथमव्याख्यानापेक्षया वाशब्दो यदि वेत्यर्थः, " बुद्धिद्दिष्टे अत्थे (128)" इत्यत्र येय बुद्धिः, असौ सामान्या गृह्यते, ततः किम् ? इत्याह-(मइसुयनाणाई ति) मतिश्रुतज्ञाने द्वे अपिबुद्धिरिहेत्यर्थः, तथा बुद्धिश्रुतज्ञानाऽऽत्मिकया बुद्ध्या ये दृष्टा भावास्तेषु मध्ये यान् भाषते तद्भावश्रुतमित्युत्तरगाथायां संबन्धः / भाषत इत्यत्र च भाषणस्य संभवमात्रं गृहीतम्, नतु भाषणमात्रम्। ततश्चेदमुक्तं भवतितत्रान्यत्र वा देशे, तदाऽन्यदा वा काले, स चान्यो वा पुरुषः, सति सामग्रीसंभवे निश्चयेनैतान् भाषत एव, इत्येवं यान् भावानन्तर्विकल्पे प्लवमानान् भाषणयोग्यताया व्यवस्थापयति, ते ऽभाष्यमाणा अपि भाषणयोग्याः सन्तो भावश्रुतं भवन्ति, न तु भाष्यमाणा एवेति भावः / एवं च सति मत्युपलब्धानामनभिलाप्यानामर्थानां भावणायोग्यत्वाभावश्रुतत्वमपाकृतं भवति / भाषणयोग्यानां त्वभाष्यमाणानामपि सर्वेषां विकल्पप्रतिभासिनामर्थानां भावश्रुतत्वमावेदितं भवति॥१४७ / / अत एव पर्यवसितमर्थ द्वितीयगाथायामाह-नियतं निश्चितं तद्भाव श्रुतमभाषमाणस्याऽपि भवति, योग्यतामात्रेणैव भाषणस्य गृहीतत्वा-दिति भावः / आह-ये सामान्यबुद्धिदृष्टा अर्था ये भाषणयोग्याः, यदि तेषां भावश्रुतत्वम्, तर्हि मतिज्ञानान्तर्वयंपायविकल्पावभासिनामपि तत्प्रसङ्गः, न हि तेऽपिन भाषणयोग्याः, इत्याशक्याऽऽह-" मतिसहितमिति। “अस्य व्याख्यानमाह-(मइ-सहियं तीत्यादि) मतिसहितमिति यदुक्तं तस्य कस्तात्पर्यार्थः? इत्याह-श्रुतोपयुक्तस्यैव भाषमाणस्य, अभाषमाणस्य वा भाव श्रुतं भवति नान्यस्य / इदमुक्तं भवतिमतिसहितमिति श्रुतमतिसहितं यथा भवति, एवं यान् भाषते त एव भावश्रुतम्, नान्ये, ततश्च श्रुतोपयुक्तस्यैव भाषणयोग्यानर्थान् विकल्पयतो भावश्रुतं सिद्धं भवति। एवं च सति श्रुतानुसाररित्वाभावेन श्रुतोपयुक्तत्वस्याऽसंभवाद्मतिविकल्पस्य भाषणयोग्यत्वेसत्यपि कुतो भावश्रुतत्वम् ? इति / आहननु मतिदृष्टत्वमर्थानां संभवति? श्रुतबुद्धिदृष्टत्वस्यैव तत्र संभवात् / नैतदेवम् , मतिपूर्व हि श्रुतम् , ततो यत्र श्रुतबुद्धिदृष्टत्वं तत्र मतिदृष्टत्वमस्त्येव, इति न काचित् क्षतिः, इत्यलमतिचर्चितेन् / तदेवं श्रुतज्ञानोपयुक्तः सामान्यबुद्धिदृष्टानान् संभवतो यान् भाषते तद्भावश्रुतमिति स्थितम् / नन्वर्थानां कथं भावश्रुतत्वम् ? ज्ञानस्यैव तत्संभवात्। सत्यम्, किंतुविषयविषयिणोरभेदोपचाराद्भावश्रुतेप्रतिभासमाना अर्था अपि भावश्रुतम्, इत्यदोषः। ( मइरन्न त्ति ) यथोक्ताद्भावश्रुतादन्या व्यतिरिक्ता मतिर्द्रष्टव्या / इदमुक्तं भवतियेऽभिलाप्या अपि
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy