SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ णय 1864 - अभिधानराजेन्द्रः भाग - 4 णय भोक्तृत्वस्योपचरितस्याऽऽत्मन्यभ्युपगमेन साङ्ख्यदर्शने वेदान्तदर्शनापेक्षयाऽशुद्धत्वम्, यतोऽध्यासाद्व्यवहारो ब्रह्मवादेऽपि संमतः, ब्रह्मवादिनोऽपि हि बुद्धिगुणान् ज्ञानाऽऽदीनात्मनि कल्पितानेवाऽभ्युपयन्ति, न पारमार्थिकानिति नायमपि प्रकार उभयोः शुद्ध इति विशेषः / / 112 // प्रत्युताऽऽत्मनि कर्तृत्वं, साङ्ख्यानां प्रातिभासिकम्। वेदान्तिनां त्वनिर्वाच्यं, मतं तद् व्यावहारिकम्॥ 113 / / (प्रत्युतेति) प्रत्युत वैपरीत्येन साङ्ख्यानां मते कर्तृत्वम्, उपलक्षणाद्भोक्तृत्वाऽऽदि च, प्रातिभासिकमन्यस्थमेवान्यत्राऽऽरोपितम्। वेदान्तिनां तु मतेनान्तःकरणधर्माणां कर्तृत्वाऽऽदीनां कर्तव्यम् , तच परमार्थतोऽसदपि व्यवहारतः सदिति स्थूलव्यवहाराऽनुरोधाद्वेदान्तदर्शन एवाशुद्धत्वं स्यात्, अविद्ययाऽप्यन्यधर्ममात्मन्यस्पर्शयत्युपचारेण च व्यवहारबलं कुण्ठगतिनिश्चयबलं चोत्तेजति साङ्ख्यदर्शन एव शुद्धत्वं स्यादिति भावः।। 113 // किञ्च-सत्कार्यवादित्वादपि साङ्ख्यस्य न व्यवहाराऽनुरोधि-त्यम् , व्यवहारनयो हि कारणव्यापारानन्तरमेव कार्योत्पत्तिं पश्यन्न सत्कार्यपक्षमेवाऽऽश्रयते, नच क्षणिकासत्कार्यानभ्युपगममात्रेणास्य व्यवहारपक्षपातित्वम्, तदनभ्युपगमेऽप्युत्पत्यनभ्युपगमेन व्यवहारबहिर्भावादित्यभिप्रायस्पष्टीकरणपूर्व निगमयन्नाह अनुत्पन्नत्वपक्षश्च, निर्युक्तौ नैगमे श्रुतः। नेति वेदान्तिसाङ्ख्योक्त्योः , संग्रहव्यवहारता / / 11 / / अनुत्पन्नपक्षश्व नियुक्ती नमस्कारनियुक्ती नैगमे नैगमनये अतः " उप्पन्नाणुप्पन्नो, इत्थ णया नेगमस्सऽणुप्पन्नो / सेसाणं उप्पन्नो, जइ कत्तो तिविहसामित्ता ? || 2806 / / " इति (आवश्यकनियुक्ति-) वचनात् / तथा चानुत्पत्तिवादी साख्यो नैगमनयमेवोपजीवी, व्यावहारिकोत्पत्तिवादी वेदान्ती च व्यवहारनयमिति भावः / इति हेतोर्वेदान्तिसाङ्ख्योक्त्योस्तद्दर्शनयोः संग्रहव्यवहारता संग्रहव्यवहाराऽऽख्यशुद्धाशुद्धद्रव्यार्थिकप्रकृतिकता न भवति / तथा च संमतौ तथोक्तेः का गतिरिति भावः? // 114 / / समाधत्ते तथापीतिद्वयेनतथाऽप्युपनिषद् दृष्टि-सृष्टिवादाऽऽत्मिका परा। तस्यां स्वप्नोपमे विश्वे, व्यवहारलवोऽपि न / / 115 / / तथाऽपि उपनिषद्वेदान्तदर्शनप्रवृत्तिः दृष्टिसृष्टिवादाऽऽत्मिका परा उत्कृष्टा मूलाभियुक्ता, अभ्युपगतत्वात् , तस्यां चाज्ञातसत्त्वाभावेन स्वप्नोपमे विश्वे जगति सति व्यवहारस्य लवोऽपि लेशोऽपि नाऽस्ति, तन्मते जाग्रद्व्यवहारस्य स्वप्नव्यवहारतुल्यत्वात् / तथा च मौलस्य वेदान्तदर्शनस्य व्यवहारापेतत्वेन व्यवहारप्रकृतिता, किं त्वेकाऽऽत्मसंग्रहप्रवणतया संग्रहप्रकृतितैवाऽऽकाशोदकपातकल्पमूलदर्शनप्रवृतावेव चेयं नयप्रकृतिचिन्तेति नार्वाचीनवेदान्तिनां मिथो विरुद्धकल्पनाकोटिक्लेशपराहतानां व्यवहाराभ्याससमर्थनेनाऽपि प्रतिश्रुतव्याहतिरिति हृदयम् // 115 // साङ्ख्यशास्त्रे च नानाऽऽत्म-व्यवस्था व्यवहारकृत्। इत्येतावत्पुरस्कृत्य, विवेकः संमतावयम् / / 116 / / (साख्येति) साङ्ख्यशास्त्रे च नानाऽऽत्मनां व्यवस्था प्रतिनियतजन्ममरणाऽऽदि व्यवहारकृद्भवति इत्येतावत्पुरस्कृत्य तात्पर्यविषयीकृत्वाऽयं विवेकः सम्मतौ। यदुतव्यवहारप्रकृतिक साङ्ख्यदर्शनं, संग्रहप्रकृतिकं च वेदान्तदर्शनमिति वेदान्तप्रकृतिभूतसंग्रहनयेनेव तथाविषयीकृतस्याऽऽत्मनो भेदकरणेन संग्रहविषयभेदकत्वलक्षणसमन्वयाद्व्यवहारप्रकृतिकत्वंसाङ्ख्यदर्शनस्य विवक्षितमितितात्पर्यम् / तेन सत्कार्याऽऽयंशे व्यवहारप्रकृतित्वाऽभावेऽपि न क्षतिः, आत्मन एव सकलशास्वप्रयोजनभागित्वेन मुख्यत्वात्, मुख्योद्देशेनैव च नयानां प्रकृतिविकृतिचिन्ताया युक्तत्वादिति भावः / / 116 / / नयो० / अत्र च नैगमसंग्रहव्यवहारलक्षणास्त्रयो नयाः शुद्ध्यशुद्धिभ्यां द्रव्यास्तिकमतमाश्रिताः, ऋजुसूत्रशब्दसमभिरूद्वैवंभूतास्तु शुद्धितारतम्यतः पर्यायनयभेदाः / तथाहि-संग्रहमतं तावत्प्रदर्शितमेव / येषां तु मते न नैगमनयस्य सद्भावस्तस्य स्वरूपमेव वर्णितम् , राश्यन्तरोपल-ब्धंक नित्यत्वमनित्यत्वं च नयतीति निगमव्यवस्थाभ्युपगमपरो नैगमव्यः / निगमो हि नित्यानित्यसदसत्कृतकाकृतकस्वरूपेषु भावेष्वपास्तसाकार्यस्वभावः सर्वथैव धर्मधर्मिभेदेन संपद्यत इति। सपुनर्नंगमोऽनेकधा व्यवस्थितः, प्रतिपत्तुरभिप्रायवशान्नयव्यवस्थानात् / प्रतिपत्तारश्च नानाभिप्रायाः। यतः केचिदाहुः-"पुरुष एवेदं सर्वमित्यादि "यदाश्रित्योक्तम्-" ऊर्द्धमूलमधः शाख-मश्वत्थं प्राहुरव्ययम्। छन्दांसि यस्य पर्णानि, यस्तं वेद स वेदवित्॥१॥"पुरुषोऽप्येकत्वनानात्मभेदात्कै श्चिदभ्युपगतो द्वेधा, नानात्वेऽपि तस्य कर्तृत्वाऽकर्तृत्वभेदोऽपरैराश्रितः / कर्तृत्वेऽपि सर्वगतेरभेदः, असर्वगतत्वेऽपि शरीरव्याप्त्यव्याप्तिभ्यां भेदः, व्यापिमूर्तेतरविकल्पाझेद एव / अपरैस्तु प्रधानकारणिकं जगदभ्युपगतं, तत्राऽपि सेश्वरनिरीश्वरभेदाभेदोऽभ्युपगतः, अन्यैस्तु परमाणुप्रभवत्वमभ्युपगतं जगतः, तत्रापि सेश्वरनिरीश्वरभेदादभेदोऽभ्युपगतः, सेश्वरपक्षेऽपि स्वकृतकर्मसापेक्षानपेक्षत्वाभ्यां तदवस्थ एव भेदाभ्युपगमः। कैश्चित्स्वभावकालयदृच्छाऽऽदिवादाः समाश्रिताः, तेष्वपि सापेक्षत्वानपेक्षत्वाभ्युपगमाद् भेदव्यवस्थाऽभ्युपगतैव / तथा कारणं नित्यं कार्यमनित्यमित्यपि द्वैतं कैश्चिदभ्युपगतम् तत्राऽपि कार्य स्वरूपं नियमेन त्यजति, न वेत्ययमपि भेदाभ्युपगमः / एवं मूतैरेव मूर्तमारभ्यते, मूर्तर्मूर्त मूर्तरमूर्तमित्याधनेकधा प्रतिपत्त्रभिप्रायतोऽनेकधा निगमनागमोऽनेकभेदः / व्यवहारनयस्त्वपास्तसमस्तभेदादेकमभ्युपगच्छतोऽध्यक्षीकृतभेदनिबन्धनव्यवहारविरोधप्रशक्तेः कारकज्ञापकभेदे परिकल्पनाऽनुरोधेन व्यवहारमारचयन् प्रवर्तते इति कारणस्याऽपि न सर्वदा नित्यत्वं, कार्यस्याऽपि नैकान्ततः प्रक्षय इति / ततश्च न कदाचिदनीदृशं जनदिति प्रवृत्तोऽयं व्यवहारो न केनाऽपि प्रवर्त्यते, अन्यथा प्रवर्तकावस्थाप्रसक्तिः, ततो व्यवहाराशून्यं जगत् / न च प्रमाणाविषयीकृतः पक्षोऽभ्युपगन्तुंयुक्तः, अदृष्टपरिकल्पनाप्रसक्तेः। दृष्टानुरोधेन ह्यदृष्टमपि वस्तु कल्पयितुं युक्तम् , अन्यथा कल्पनासंभवादिति। संग्रहनेगमाभ्युपगतवस्तुविवेकाल्लोकप्रतीतपथाऽनुसारेण प्रतिपत्तिः, गौरवपरिहारेण प्रमाणप्रमेयप्रमितिप्रतिपादनं व्यवहारप्रसिद्धयर्थ परीक्षकैः समाश्रितमिति व्यवहारनयाभिप्रायः / ततः स्थित नैगमसंग्रहव्यवहाराणां द्रव्यास्तिकनवप्रभेदत्वं, विषयभेदश्चयां प्रतिपादितः।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy