SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ णय १८७७-अभिधानराजेन्द्रः भाग-४ णय शुद्धिभ्यामनेकधा वस्तुस्वभावनिरूपणविकल्पाऽभिधानवृत्तयो व्यतिष्ठन्ते। तत्र शुद्धो द्रव्यास्तिको नयग्रहनयाभिमतविषयप्ररू-पकः। / तथा च-संग्रहनयाभिप्रायः-सर्वमेव सत्, अविशेषात्। सम्म०१ काण्ड। विशे०। (द्रव्यास्तिकपर्यायास्तिकयोर्मतम् ' दवट्टिय-पज्जवट्टिय' शब्दयोर्द्रश्व्यम्) (15) तदेवमुक्तौ द्रव्यार्थिकपर्यायार्थिकलक्षणो मूलनयभेदी. अनयो गमाऽऽदिषु मतभेदेन यथाऽन्तर्भावस्तथाऽऽहतार्किकाणां त्रयो भेदाः, आद्या द्रव्यार्थतो मताः। सैद्धान्तिकानां चत्वारः, पर्यायार्थगताः परे / / 18 // (तार्कि काणामिति) तार्किकाणां वादिसिद्धसेनमतानुसारिणामाद्यास्त्रयो भेदाःनैगमसग्रहव्यवहारलक्षणाः द्रव्यार्थतो मता द्रव्य-मेवार्थ विषयीकृत्याभिप्रेताः, आद्यास्त्रयो भेदास्तार्किकमते द्रव्या-र्थिका इति संमुखोऽर्थः / सैद्धान्तिकानां जिनभद्रगणिक्षमाश्रमण-वचनानुसारिणां चत्वार आद्या ऋजुसूत्रसहिताः, द्रव्यार्थिका इति शेषः। परे तुउक्तशेषाः, उभयेषामपि पर्यायार्थगताः पर्यायार्थिकाः-ऋजुसूत्राऽऽदयश्चत्वारः पर्यायार्थिका वादिनः, शब्दाऽऽदयस्त्रय एव च क्षमाश्रमणानामिति निर्गलितोऽर्थः / ऋजुसूत्रो यदि द्रव्यं नाभ्यु-पेयात् तदा" उज्जुसुयस्स एगे अणुवउत्ते एग दव्वावस्सयं पुहत्ते णेच्छइ " इति सूत्रं विरुध्येतेति सैद्धान्तिकाः / तार्किकानुसारिण-स्तु-अतीतानागतपरकीयभेदपृथक्त्वपरित्यागादनुसूत्रेण स्व-कार्यसाधकत्वेन स्वकीयप्रवर्तमानवस्तुन एवोपगमानास्य तुल्यां-शध्रुवांशलक्षणद्रव्याभ्युपगमः, अत एव नास्यासद्धटितभूतभावि-पर्यायकारणत्वद्रव्यत्वाभ्युपगमोऽपि, अधुवधर्माऽऽधारांशे द्रव्य-मपि नास्य विषयः, शब्दनयेष्वतिप्रसङ्गात्। उक्तसूत्रं त्वनुपयोगा-शमादाय वर्त्तमानाऽऽवश्यकपर्यायद्रव्यपदोपचारात्समाधेयम् , पर्यायार्थिकन मुख्यद्रव्यपदार्थस्यैव प्रतिक्षेपात्। यदि चैवमप्येको-ऽनुपयुक्त एकं द्रव्यावश्यकमित्यत्रानुपयोगस्य विषयनियन्त्रितत्वे-नार्थक्यादुद्देश्यविधेयभावानुपपत्तिरिति विभाव्यते, यथा द्रव्याऽऽ-वश्यकपदं द्रव्याऽऽवश्यकत्वेन व्यवहर्तव्यम्, परं विवरणपरतया चैतदयोजनीयमिति न कश्चिद् दोष इत्यालोचयामः / / 18 / (नयो०) सर्वधर्मविरहः शून्यतेति शुद्धतरपर्यायास्तिकमतावलम्बी ऋजुसूत्र एव / व्यवस्थितः, अथवा सौत्रान्तिकवैभाषिकौ बाह्यार्थमा-श्रितावृजुसूत्रशब्दौ, यथाक्रमं वैभाषिकेण नित्याऽनित्यशब्दवाच्य-पुद्गलस्याऽभ्युपगमात्। शब्दनये तु प्रवेशः, तस्य चार्यप्रतिक्षेपेण विज्ञानमात्रसमभिरूढो योगाचारः, एकानेकधर्मविकलतया विज्ञा-नमात्रस्याप्यभाव इत्येवंभूतो व्यवस्थितः, एवंभूतो माध्यमिक इतिव्यवस्थितमेतत्। तस्य तु शब्दाऽऽदयः शाखाः सूक्ष्मभेदा इति न योगद्वारवत् , शेषास्तु योगद्वारेष्वपि द्रव्यार्थिकपर्यायार्थिको मूलव्याकरणिनाविति दर्शयत्यनयोापकताम्। सम्म०१ काण्ड। अनु०। विशे०। (16) नैगमाऽऽदयो मूलनयाःसे किं तंणए ? सत्त मूलणया पण्णत्ता। तं जहा-णेगमे, संगहे, ववहारे, उजुसुए, सद्दे, समभिरूदे, एवंभूए।। अनु०। नैगमः संग्रहश्चैव, व्यवहारर्जुसूत्रको। शब्दः समभिरूढाऽऽख्यः, एवं भूतश्च सप्त ते // 16 // (नैगम इति) स्पष्टः, ते मूलनयप्रभेदाः।। 16 / नयो०। अनु०। विशे० / दश०। स्था०। ज्ञा० / गा अष्ट०। प्रव०। आ०म०। तत्र नैगमनस्य संग्रहव्यवहारयोरन्तर्भावात् , शेषाणा संग्रहाऽऽदीनां षण्णां नयानां संक्षिप्य मतं तावदुपदर्शयन्नाहसामन्नमह विसेसो, पचुप्पन्नं च भावमेत्तं च / पइसदं च जहत्थं, च वयणमिह संगहाऽऽईणं / / 3586 // इह सामान्यमेवास्तिन विशेष इति संग्रहस्य वचनम्, विशेषा एव सन्ति न सामान्यमिति व्यवहारस्य वचः। प्रत्युत्पन्नं च वर्तमानमेव वस्त्वस्तिन त्वतीतमनागतं चेति ऋजुसूत्रस्य वचनम् / नामाऽऽ-दिनिक्षेपाणां मध्ये भावेन्द्राऽऽदिकं भावनिक्षेप एवास्ति, न नामा-ऽऽदिक्षेपा इति शब्दनयस्य वचः / इन्द्रशक्रपुरन्दराऽऽदिशब्दानां प्रतिशब्दमन्यान्य एवाऽर्थो वाच्यः, नत्वेक एवेति समभिरूढस्य वचः / यथार्थमेव स्वाभिधायकशब्दवाच्यमर्थं कुर्वदेव घटाऽऽदिकं वस्तु भवति, नाऽन्यथा, इत्येवंभूतनयस्य वचनम्। इत्युक्तप्रकारं संग्रहाऽऽदीनां वचनं मतं संक्षेपेणावगन्तव्यमिति॥३५८६।। विशे०। स्वरूपमाहनैगमो देशसंग्रही, व्यवहारर्जुसूत्रको। शब्दः समभिरूढश्चे-त्येवमेते प्रचक्षते // 45 // (नगम इति) नैगमो नैगमनयः देशसंग्राही अवान्तरसंग्रहः, सर्व-संग्रहस्य सन्मात्रार्थत्वात् तत्त्यागः / व्यवहारर्जुसूत्रको व्यवहारनय ऋजुसूत्रनयश्च शब्दः समभिरूढश्चेत्येत नया एवं प्रचक्षते॥ 45 // भावमौदयिकं गृङ-नेवंभूतो भवस्थितम् / जीवं प्रवक्त्यजीवं तु, सिद्धं वा पुद्गलाऽऽदिकम् // 46 // (भावमिति) एवंभूतनयस्तु औदयिकं भावं व्युत्पत्तिनिमित्तमेव प्रवृत्तिनिमित्ततया गृह्णन् भवस्थितं संसारिणं जीवं प्रवक्ति-जीव-शब्देन व्यपदिशति, अजीवमजीवपदार्थं तु सिद्धं वा पुद्गलाऽऽ-दिद्रव्यं वेच्छत्यसौ।। 46 // नो अजीवश्च नो जीवो, न जीवाऽजीवयोः पृथक् / देशप्रदेशौ नास्येष्टा-विति विस्तृतमाकरे / / 47 / / (नो इति) नो जीवो नो अजीवश्च एतन्नये जीवाजीवयोवक्तव्ययोः सतोः पृथग न पार्थक्यं नापद्यते, यतोऽस्य नयस्य देशप्रदेशौ नेष्टा-विति, नोशब्दः सर्वनिषेधार्थ एव घटते, इत्येतदाकरेऽनुयोगद्वारा-5ऽदौ विस्तृतम्।। 47 // इत्थं स्वसमयसिद्धामेवंभूतनयार्थप्रक्रियामुपपाद्य, तया दि गम्बरोक्तप्रक्रियां दूषयतिसिद्धो निश्चयतो जीवः, इत्युक्तं यद्दिगम्बरैः। निराकृतं तदेतेन, यन्नयेऽन्त्येऽन्यथा प्रथा / / 48 / / (सिद्ध इति) एतेन पूर्वोक्तेन सिद्धो निश्चयतो जीव इति यदिगम्बरैरुक्तम् - ' तिक्काले च दुपाणा, इंदियबलमाउ आगपा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy