________________ णय 1866 - अभिधानराजेन्द्रः भाग-४ णय शिष्यमतिविस्तारकत्वं हि नयवाक्यस्य प्रमाणाऽऽत्मकमहावाक्यजन्यशाब्दबोधजनकावान्तरवाक्यार्थज्ञानजनकत्वं, तदनुकूलाऽऽकाजोत्थापकत्वं वा, तेन तस्याऽऽदरणीयत्वस्यैव सिद्धेः / तदुक्तं वादिनैव-" पुरिसज्जायं तु पडुच जाणओ पन्नविज्ज अण्ण-यर / परिकम्मणानिमित्तं, दाएहा सो विसेसं पि // 54 / / (सम्म०१ का०) इति / प्रमाणवाक्यमपि ह्यनेकान्तरुचिशालिनं पुरुषविशेषमधिकृत्यैव प्रयुज्यते, तदनयोर्द्वयोरपि कारणिकत्वे प्राप्ते स्वस्वकाले औत्सर्गिकत्वमेव न्यायसिद्धम् विप्रतिषिद्धकारणविधिस्थले तथाव्युत्पत्तेः / तस्मात् " स्याद् ज्ञानाऽऽदिलक्षणो जीवः'' इत्यपि सुनयवाक्यमेव, एकभङ्गरूपत्वात् / प्रमाणवाक्यता तत्राऽप्युत्थाप्याऽऽकासाक्रमेण भगषट्कसंयोजनयैव / सकलाऽऽदेशत्वं च प्रतिभङ्गमनन्तधर्माऽऽत्मकत्वद्योतनेन; अन्यथा च विकलाऽऽदेशत्वमित्येके / / अखण्डवस्तुविषयत्वेन त्रिष्वेवाऽऽद्यभङ्गेषुतत्, चतुषु चोपरितनेषु एकदेशविषयत्वेन विकलाऽऽदेशत्वमित्यन्ये।। अयं व्युत्पत्तिविशेषःसर्वसप्तभड़ीसाधारणः, स्याच्छब्दलाञ्छिौकमात्रेण तुन प्रमाणवाक्यविश्रामः, सुनयवाक्यार्थस्यैव ततः सिद्धेः / अत एव कृष्णः सर्प इत्यादिविशेषणविशेष्यभावबोधकवाक्येऽपि सर्पमात्रे कृष्णत्वस्याभावादनन्ते व्यभिचारात् पृष्ठावच्छेदेन कृष्णोऽप्युदरावच्छेदेन शुक्लत्वोपलम्भात् स्याच्छब्दसंयोजनया नयवाक्यत्वमित्याह समन्तभद्रः / लक्ष्यलक्षणाऽऽदिव्यवहारोऽपि नयवाक्यैरेव सिद्ध्यति, उद्देश्यलौकिकबोधस्थानतिप्रसक्तस्यतेभ्य एव सिद्धेः / प्रमाणवाक्यत्वं लौकिकबोधार्थ सप्तभङ्ग्यात्मकमेवाऽऽश्रयणीयम्। अत एव तद्व्यापकत्वं सम्मत्यादौ महताच यत्नेन साधितमिति किमतिविस्तरेण ? // 6 // (10) नन्वेकत्र वस्तुन्यनेकाऽऽकाराप्रमाणधीः, एकाऽऽकारा चनयधीः कथमुत्पद्यते? इति जिज्ञासायामाहयथा नैयायिकैरिष्टा, चित्रेऽनेकैकरूपधीः। नयप्रमाणभेदेन, सर्वत्रैव तथाऽऽर्हतः।। 7 // (यथेति) यथा नैयायिकैश्चित्रे नीलपीताऽऽदिना शबले घटाऽऽदा- | वनेकरूपा नीलपीताऽऽद्याकारा, एकरूपा च चित्राऽऽकारा धीरिटाऽभ्युपगता, तथाऽनुभत्वात् , स्यान्मतभेदाऽऽश्रयणादा, तथा सर्वत्रैव वस्तुन्येकानेकरूपतया चित्रे प्रमाणनयभेदेन द्विविधा बुद्धिराहतैरिष्टा, अनुभवसिद्धेऽर्थे विरोधाभावादितिभावः। यथा च सर्वस्य वस्तुनश्चित्रत्वं तथोक्तमस्माभिरात्मख्यातौ, विस्तरभिया नेह प्रतन्यते। चित्ररूपे तु मतभेदं तर्करसिकव्युत्पत्त्यर्थमुपदर्शयामः-तत्र नीलं नीलान्यरूपासमवायिकारणं न वेति चित्ररूपे विप्रतिपत्तिः, विधिकोटिः सामानाधिकरण्येन, निषेधकोटिरवच्छेदकावच्छेदेन / तेन नांऽशतो याधः, सिद्धसाधनं वा / यत्तु नीलरूपासमवायिकारणकं पीतरूपासमवायिकारणकं न वेति प्रतिपत्तिरिति / तन्न / नीलरूपासमवायिकारणस्य नीलस्य पक्षत्वे वाधात्। चित्ररूपस्य पक्षल्ये आश्रयासिद्धेः / यदपि नीलरूपासमवायिकारणकवृत्तित्वविशिष्टरूपत्वं पीतरूपासमवायिकारणवृत्ति न वेति केषाञ्चिद्विप्रतिपयुद्भावनम् / तदपि न रमणीयम्। विशिष्टस्य, विशिष्टाऽऽधेयताया वाऽनतिरिक्तत्वादिति दिक् / तत्र साम्प्रदायिकाः-नानारूपवदवयवाऽऽरब्धे वस्तुनि नीलपीताऽऽ दिभिरेक संभूय चित्ररूपमारभ्यते। न च सामग्रीसत्त्वान्नीलाऽऽदिभिर्नीलाऽऽदेरपि तत्र जननाऽऽपत्तिः, अगत्या नीलेतररूपाऽऽदेनीलाऽऽदिकप्रतिबन्धकत्वकल्पनात्, प्रतिबन्धकताऽवच्छेदकः संबन्धः स्वसमवायिसमवेतत्वम् , प्रतिबद्ध्यतावच्छेदकश्च समवायः। चित्रत्वावच्छिन्नेऽपि नीलेतरपीतेतररूपत्वाऽऽदिनैव हेतुता, तेन न केवलनीलकपालाऽऽरब्धे चित्रोत्पत्तिप्रसङ्गः। यत्त्ववयवनिष्ठनीलाभावाऽऽदिषट्कस्यैव चित्रं प्रति हेतुत्वमिति / तन्न / नीलपीतोभयकपालाऽऽरब्धे घटपाकनाशितावयवपीते स्वचित्रेऽवयवे व्याप्यवृत्तिनीलोत्पत्तिकाले चित्रोत्पत्त्यापत्तेः। नचकार्यसहभावेन नीलाभावाऽऽदीनांतद्धेतुत्वादयमदोषः, नीलपीतश्वेतत्रितयकपालाऽऽरब्धे पीतश्वेतयोः क्रमेण नाशे श्वेतनाशकालेऽपि तदापत्तेरिति; पाकजचित्रे च न व्यभिचारः / पाकादवयवे नानारूपः, अन्यत्रानन्तरमेवावयविनि चित्रस्वीकारात; पाकचित्रस्वी-कारे च विजातीयचित्रं प्रति नीलेतरत्वाऽऽदिना हेतुता, अग्निसंयोगजचित्रे चावच्छेदकत्वसंबन्धावच्छिन्न(प्रतियोगिताका नीलजनकाग्निसंयोगाऽऽदेरभावरूपजनकविजातीयाग्निसंयोगाश्च हेतवः / अस्तु वा तेजःसंयोगमात्रजन्ये विजातीये चित्रे विजातीयतेजः संयोगस्य हेतुत्वं, पाकयोरुभयजन्ये विजातीये चित्रे चोभयोरेव रूपमात्रजाऽतिरिक्त एव वा विजातीयतेजःसंयोगो हेतुः, फलबलेन वैजात्यकल्पनात्। न चाग्निसंयोगजमात्रातिरिक्त रूपमेव हेतुरस्तु इति विनिगमकाभावः / उभयस्थले नीले तराऽऽदिसमाजाभावस्यैव विनिगमकत्वादित्याहुः / / शिरोमणिभट्टाऽऽचार्यमतानुसारिणस्तुचित्रघटेऽव्याप्यवृन्येव नीलपीताऽऽदीनि नानारूपाणि, एकरूपमितिप्रतीतेरेकोऽन्नराशिरितिवत्समूहकत्वविषयत्वात्; सविषयावृत्तिव्याप्यवृत्तिजातेरव्याप्यवृत्तित्वविरोधस्तुप्रामाणिक एव / अत एव" लोहितो यस्तु वर्णेन, मुखे पुच्छे च पाण्डुरः। श्वेतः खुरविषाणाभ्यां, सनीलो वृष उच्यते // 1 // इति स्मृतिरप्युपपद्यते। अथाऽव्याप्यवृत्तिनीलाऽऽदिकल्पने गौरवम् / तथाहि-अवच्छेदकतासंबन्धेन नीलाऽऽदिकं प्रति समवायेन नीलेतररूपाऽऽदीनां प्रतिबन्धकत्वमस्मिन् पक्षे वाच्यम् , अन्यथा पीतावयवावच्छेदेन नीलोत्पत्तिप्रसंगात्।नचनीलस्य स्वाश्रयावच्छेदेन नीलजन्यत्वस्वाभाव्यादेव न तदापत्तिः, विनैतादृशप्रतिबध्यप्रतिन्धक भावं तथा स्वाभाव्यानिर्वाहात् / ननु समवायेन नीलं जायत एव पीतावयवावच्छेदेनेत्यत्र चाऽऽपादकाभाव इति चेत् / न। समवायस्येवावच्छेदकताया अपि कारणनियम्यत्वात्। एवं चनीलाऽऽदौ नीलेन रूपाऽऽदीना, नीलेतररूपाऽऽदौ वा नीलाऽऽदीनां प्रतिबन्धकत्वे विनिगमकाभावः / मम नीलेतररूपाऽऽदौ नीलाऽऽदीनां न प्रतिबन्धकत्वम्। नीलपीताऽऽरब्धे नीलरूपत्वप्रसङ्गस्य बाधकत्वादिति चेत्। मैवम्। ममाऽपि नीलत्वाऽऽदिकमेव प्रतिबध्यताऽवच्छेदक, न तु नीलेतररूपत्वाऽऽदि, गौरवादिति वक्तुं शक्यत्वात्। नचनीलत्वेन प्रतिबन्धकत्वं, नतुनीलेतरत्वेन, गौरवादित्येव किं न स्यादिति वाच्यम्; प्रतिबन्धकताऽवच्छेदकगौरवस्यादोषत्वात् / अस्तु वाऽवच्छेदकतया नीलाऽऽदौ समवायेन नीलाऽऽदीनामेव हेतुत्वम् / न च नानारूपवत्कपालाऽऽरब्धघटनीलस्य तत्कपालावच्छदेनोत्पत्तिप्रसङ्गः, केवलनीलत्वाऽऽदिनैव तद्धेतुत्वात्।न च केवलत्वं नीलाभविसमानाधिकरणत्वमिति गौरवम् , अनवच्छिन्नसमवायेन नीलाऽऽदिहेतुत्वस्यैव तदर्थत्वात् / समवायेन नीलाऽऽदौ च स्वसमवायिसमवेतत्वसंबन्धेन नीलाऽऽदिनां हेतुत्वं, व्याप्यव