________________ णत्थि 1806 - अभिधानराजेन्द्रः भाग - 4 णपुंसग नो जीवाः, त एव मनोजीविकाः / अलीकवादिता चैषां सर्वथाऽननुगामिनि मनोमात्ररूपे जीवे कल्पितेऽपि परलोकासिद्धेः / तदसिद्धिश्चअवस्थितस्यैकस्याऽऽत्मनोऽसत्त्वात् , मनोमात्राऽऽत्मनः क्षणान्तरस्यैवोत्पादादकृताभ्यागमाऽऽदिदोषप्रसङ्गात् / कथञ्चिदननुगामिनि तु मनसि जीवत्वाभ्युपगमः सम्यक् पक्ष एवेति / तथा (वाउजीवो त्ति एवमाहंसु त्ति) वात उच्छ्वासाऽऽदिलक्षणो जीव इत्याहुरेके / तद् भावाभावयोर्जीवनमरणव्यपदेशाद् नान्यः परलोकयाय्यात्माऽस्तीति। अलीकवादिता चैषां वायोर्जडत्वेन चैतन्यजीवरूपत्वायोगात्। तथा शरीरं साऽऽदि, उत्पन्नत्वात् , सनिधनं, क्षयदर्शनात्। (इह भवे एगे भवे ति) इह भवे एव प्रत्यक्षजन्मैव एको भव एकं जन्म, नान्यः परलोकोऽस्ति, प्रमाणाविषयत्वात् , तस्य शरीरस्य, विविधैः प्रकारैः प्रकृष्टो नाशः प्रणाशस्तस्मिन् सति सर्वनाश इति नाऽऽत्मा शभाशभरूपं वा कर्माविनष्टमवशिष्यते / एवमेव उक्त प्रकारं ' जपति ' जल्पन्ति मृषावादिनः / मृषावादिता चैषां जातिस्मरणाऽऽदिना जीवपरलोकसिद्धेः / प्रश्न०२ आश्रद्वार।दशा यथावस्थितं हि वस्त्वनेकान्ताऽऽत्मक, तन्नास्त्येकान्ताऽऽत्मकमेव चास्तीति प्रतिपत्तिमन्तः सर्वेऽपि नास्तिकाः / स्था०८ ठा०। ___ एकान्ताभिनिवेशे तु जात्या सर्वेषां तुल्यत्वमेवेत्याहस्वरूपतस्तु सर्वेऽपि, स्युर्मियोऽनिश्रिता नयाः। मिथ्यात्वमिति को भेदो, नास्तित्वास्तित्वनिर्मितः ? / / 125 // | स्वरूपतस्त्विति स्पष्टः / (मिथोऽनिश्रिता इति) स्याद्वादमुद्रया परस्पराऽऽकाङ्गारहिता इत्यर्थः / / 125 / / ननु नास्तिकास्तिकव्यवहारप्रयोजकतयैवैतेषां भेदो भविष्यतीत्यत आहधयंशे नास्तिको ह्येको, बार्हस्पत्यः प्रकीर्तितः। धर्माशे नास्तिका ज्ञेयाः, सर्वेऽपि परतीर्थिकाः / / 126 // (धर्माशे इति) धर्मिण आत्मनोंऽशे नास्तित्वभागे, एको बार्हस्पत्यश्चार्वाको नास्तिकः प्रकीर्तितः / धर्माणामात्मनः शरीरप्रमाणत्वनानात्वपरिणामित्वधुवत्वसर्वज्ञजातीयत्वाऽऽदीनामंशे नास्तित्वपक्षे सर्वेऽपि नैयायिकवैशेषिकवेदान्तिसाङ्ख्यपातञ्जलजैमिनीयाऽऽदयः परतीर्थिका नास्तिका ज्ञेयाः। यत्र यथावदस्तित्वं तत्र तथा तदनभ्युपगमस्य, स्वरसतो भगवदचनाश्रद्धानस्यैव वा नास्तिकपदप्रवृत्तिनिमित्तत्वादिति भावः / चार्वाकाऽऽदिभिन्नदर्शनस्वीकर्तृत्वमेवास्तिकत्वमिति रुढिस्त्वनुकम्पामात्रम् / नयो०। आ०म०। (' उसभ' शब्दे द्वितीयभागे 1134 पृष्ठे ललिताङ्गदेववक्तव्यतायां नास्तिकवादिनं सुबुद्धि प्रति स्वयंबुद्धकृत उपदेशो द्रष्टव्यः) पत्थिभाव पुं०(नास्तिभाव) अविद्यमानभावे," णत्थिभावो त्ति वा अविजमाणभावो त्ति वा एगट्ठा।" आ० चू० 1 अ०। णत्थून अव्य०(नष्ट्वा) नश-क्त्वा।" धूनत्थूनौटवः " / / 814/ 313 // इति ष्ट्वा इत्यस्य स्थाने त्थूनाऽऽदेशः। अदृश्यीभूयेत्यर्थे, प्रा० १पाद। णदियाययण न०(नद्यायतन) नद्याः प्रधानस्थाने, यत्न तीर्थस्थानेषु लोकाः पुण्यार्थ स्थानाऽऽदि कुर्वन्ति / आचा०२ श्रु०२ चू०३ अ०। णदी स्त्री०(नदी) गङ्गासिन्धुमहीकोशीप्रभृतिषु सरित्सु, स० 3 अङ्ग / प्रज्ञा० / गिरिनद्यादिषु, प्रज्ञा० 11 पद। णद्विय न०(नर्दित) घोषे, ज्ञा० 1 श्रु०६ अ०। णद्ध त्रि०(नद्ध) नियन्त्रिते, त० / आरूढे, दे० ना० 4 वर्ग। णपुंसग पुं०न०(नपुंसक) न स्त्री न पुमान नपुंसकम् / ग० 1 अधि०। स्त्रीपुरुषोभयाभिलाषिणि पुरुषाऽऽकृतौ पुरुष, ध० 2 अधि०।" स्तनाऽऽदिश्मश्रुकेशाऽऽदि-भावाभावसमन्वितम्। नपुंसकं बुधाः प्राहुमोहानलसुदीपितम्॥१॥"तं०। तिविहा णपुंसगा पण्णत्ता / तं जहा-णेरइयणपुंसगा, तिरिक्खजोणियणपुंसगा, मणुस्सणपुंसगा! तिरियणपुंसगा तिविहा पण्णत्ता। तं जहा-जलचरा,थलचरा,खहचरा। मणुयणपुंसगा तिविहा पण्णत्ता / तं जहा-कम्मभूडिया, अकम्मभूडिया, अंतरदीवया / स्था०३ ठा० 1 उ०। " स्तनकेशवती स्त्री स्या-द्रोमशः पुरुषः स्मृतः। उभयोरन्तरं यच्च, तदभावे नपुंसकम्।।१।।" स्था०३ ठा०१उ०। नपुंसकः पण्डक इति पर्यायौ। बृ०४ उ०।आव०। (पण्डकलक्षणानि पंडग' शब्दे वक्ष्यन्ते) " अज्झवसायविसेस तं इह ते हुति णपुंसगे।" महा०१०। दश नपुंसकाःपंडए 1 वाइए 2 कीवे, 3 कुंभी 4 ईसालुए 5 त्ति अ। सउणी 6 तक्कम्मसेवा अ७, पक्खिआपक्खिए इअ८/८००। सोगंधिए अ आसत्ते 10, दस एएनपुंसगा। संकिलिहित्ति साहूणं, पव्वावेउं अकप्पिआ।। 501 / / प्रव० 106 द्वार। पण्डकाऽऽदयो दश नपुंसकाः संक्लिष्टचित्ता इतिकृत्वा साधूनां प्रव्राजयितुमकल्प्याः / संक्लिष्टत्वं चैषां सर्वेषामप्यविशेषतो नगरदाहसमानकामाध्यवसायसंपन्नत्वेन स्वीपुरुषसेवामाश्रित्य विज्ञेयम् , उभयसेविनो ह्येत / ध०३ अधि०। नपुंसकानामिमे षड् भेदाश्चान्येऽपि .,बद्धिए विप्पितत्तिए। मंतोसहिउवहतए, इसिसत्ते देवसत्ते य ! / 276!! नि० चू० 11 उ० / पं० भा०। पं० चू०। आव०। नपुंसका द्विविधाः-स्त्रीनेपथ्यकाः पुरुषनेपथ्यकाश्च तद्यथाएमेव होंति दुविहा, पुरिसनपुंसा वि सन्नि अस्सन्नी। मज्झत्थाऽऽभरणपिया, कंदप्पा काहिया चेव / / 432 // पुरुषसागारिकालाभे कदाचिन्नपुंसकसागारिकः प्रतिश्रयो लभ्यते, तत्राप्येवमेव भेदाः कर्तव्याः / तत्र नपुंसका द्विधास्त्रीनेपथ्यकाः, पुरुषनेपथ्यकाः।ये पुरुषनेपथ्यकाः ते द्विधाप्रतिसेविनः, अप्रतिसेविनश्च। ये तु स्वीनेपथ्यकास्ते नियमात्प्रतिसेविनः। तत्र पुरुषनपुंसका अपि, न केवलं पुरुषा इत्यपिशब्दार्थ संज्ञिनः, असंज्ञिनश्चेति द्विविधाः। उभयेऽपि चतुर्विधाः-मध्यस्थाः, आभरणप्रियाः, कान्दर्पिकाः, काथिकाश्च / एकेक्का ते तिविहा, थेरा तह मज्झिमा य तरुणा य / एवं सन्नी वारस, असन्निणो होंति एकेके / / 433 / / ते मध्यस्थाऽऽदयस्विविधाः-स्थविराः, मध्यस्थाः, तरुणाश्च / एवं संज्ञिनो द्वादश। असंज्ञिनोऽपि द्वादश भवन्ति। वृ०१ उ०। नि० चू० /