________________ णक्खत्त 1763 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएति / अस्थि णक्खत्ता, जे णं पण्णरस मुहुत्ते णं चंदेण सद्धिं जोयं जोइंति / अत्थि णक्खत्ता, जे णं तीसं मुहुत्ते चंदेण सद्धिं जोयं जोइंति / अस्थि णक्खत्ता, जे णं पणतालीसं मुहुत्ते णं चंदेण सद्धिं जोगं जोइंति। ता एएसिणं अट्ठावीसाए णक्खत्ताणं कयरे णक्खत्ते, जे णं नव मुहुत्ते, सत्तावीसं च सत्तट्ठिभाए मुहुत्तस्स चंदेण सद्धिं जोयं जोएति ? कयरे णक्खत्ता, जे णं पणरस मुहुत्ते चंदेण सद्धिं जोयं जोइंति? कयरे णक्खत्ता, जे णं तीसं मुहुत्ते चंदेण सद्धिं जोगं जोइंति? कयरे णक्खत्ता, जे णं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोइंति? ता एतेसिणं अट्ठावीसाए णक्खत्ताणं तत्थ जे ते णक्खत्ते, जे णं णव मुहुत्ते, सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सुद्धिं जोयं जोएति; से णं एगे अभिई। तत्थ जे ते णक्खत्ता, जे णं पण्णरस मुहुत्ते चंदेण सद्धिं जोयं जोइंति ; ते णं छ / तं जहा-सतभिसया, भरणी, अद्दा, अस्सेसा, साती, जेट्ठा। तत्थ जे णं तीसं मुहुत्तं चंदेण | सद्धिं जोगं जोइंति ; ते पण्णरस / तं जहा-सवणो, धणिट्ठा, पुव्याभद्दवता, रेवती, अस्सिणी, कत्तिया, मगसिरं, पुस्सो, महा, पुव्वाफग्गुणी, हत्थो, चित्ता, अणुराहा, मूलो, पुव्वासा-ढा। तत्थ जे ते णक्खत्ता, ते णं पणतालीसं मुहुत्ते चंदेण सद्धिं जोगं | जोइंति, ते णं छ। तं जहा-उत्तराभद्दवता, रोहिणी, पुणव्वसू, उत्तराफग्गुणी, विसाहा, उत्तरासाढा। 'ता' इति पूर्ववत् / कथं भगवन् ! प्रतिनक्षत्रं मुहूर्ताओं मुहूर्तपरिमाणमाख्यातमिति वदेत् ? एवमुक्ते भगवानाह- "ता एएसि णं " इत्यादि / 'ताइति पूर्ववत्। एतेषामष्टाविंशतिनक्षत्राणां मध्ये, अस्ति तन्नक्षत्रं, यन्नव मुहूर्तान् . एकस्य च मुहूर्तस्य सप्तविंशति-सप्तषष्टिभागान् चन्द्रेण सार्द्ध योग युनक्ति उपैति। तथाऽस्ति निपातत्वादव्ययत्वाद्वा सन्ति तानि नक्षत्राणि, यानि पञ्चदश मुहूर्तान यावचन्द्रेण सहयोगमुपयान्ति। तथा सन्ति तानि नक्षत्राणि, यानि त्रिंशतं मुहूर्त्तान् यावचन्द्रेण सह योगमश्नुवते। तथा सन्ति तानि नक्षत्राणि, यानि पञ्चचत्वारिंशत मुहूर्तान् यावचन्द्रेण सह योगं युञ्जन्ति / एवं सामान्येन भगवतोक्ते विशेषनि र्धारणार्थ भगवान् पृच्छति गौतमः- " ता एएसिणं" इत्यादि।' ता' इति पूर्ववत् / एतेषामष्टाविंशतेनक्षत्राणां मध्ये, कतरद् तन्नक्षत्रं, यन्नव मुहूर्तान् . एकस्य च मुहूर्त्तस्य सप्तविंशतिसप्तषष्टिभागान्यावचन्द्रेण सह योग युनक्ति ? तथा कतराणि तानि नक्षत्राणि, यानि पञ्चदश मुहूर्तान् यावचन्द्रेण सह योगं युञ्जन्ति ? तथा कतराणि तानि नक्षत्राणि, यानि त्रिंशतं मुहूर्तान यावचन्द्रेण सह योगमश्नुवते ? तथा कतराणि तानि नक्षत्राणि, यानि पञ्चचत्वारिंशतं मुहूर्तान्यावचन्द्रेण सार्द्धयोगमुपयान्ति ? एवं गौतमेन प्रश्ने कृते भगवानाह- " ता एएसिणं " इत्यादि।' ता. इति पूर्ववत् / एतेषामष्टाविंशतिनक्षत्राणां मध्ये यन्नक्षत्रं नव मुहूर्तान् , एकस्य च मुहूर्तस्य सप्तविशतिसप्तषष्टिभागान् यावचन्द्रेण सह योगं युनक्ति / तदेकमभिजिन्नक्षत्रमवसेयम् / कथमिति चेत् ? उच्यते-इह अभिजिन्नक्षत्र सप्तषष्टिखण्डीकृतस्याहोरात्रस्यैकाविंशतिभागान चन्द्रेण सह योगमुपैति / ते चैकविंशतिरपि भागा मुहूर्तगतभागकरणार्थ त्रिंशता गुण्यन्ते, जातानि षट्शतानि त्रिंशदधिकानि 630 / तथा चैतावान् कालमधिकृत्य सीमाविस्तारोऽभिजिन्नक्षत्रस्यान्यत्राप्युक्तः- " छच्चेव सया तीसा, भागाणं अभिइ सीमविक्खंभो। दिट्ठो सवडहरगोः, सव्वेहिंऽणतणाणीहिं॥१॥" तेषां सप्तषष्टया भागो हियते, लब्धा नव मुहूर्ताः, एकस्य च मुहूर्तस्य सप्तविंशतिः सप्तषष्टिभागाः। 6 / / उक्तं च-" अभिइस्स चंदजोगो, सत्तट्ठी खंडिओ अहोरत्तो। भागा य एगवीस, ते अहिया नव मुहुत्ता" // 1 // तथा" तत्थ '' इत्यादि / तत्र तेषामष्टा-विंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि पञ्चदश मुहूर्तान यावच्चन्द्रेण सह योगमश्नुवेत, तानि षट् / तद्यथा-" सतभिसया " इत्यादि / तथाहि-एतेषां षण्णामपि नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कान्सान्त्रियस्त्रिंशद्भागान् यावचन्द्रेण सह योगो भवति, ततो मुहूर्तगतसप्तषष्टिभागकरणार्थ त्रयस्त्रिंशत् त्रिंशता गुण्यते, जातानि नवशतानि नवत्यधिकानि६६०। यदपि सार्द्ध, तदपि त्रिंशता गुणयित्वा द्विके न भज्यते, लब्धाः पञ्चदश मुहूर्तस्य सप्तषष्टिभागाः, ते पूर्वराशौ प्रक्षिप्यन्ते, जातं पूर्वराशिसहसं पञ्चोत्तरम् 1005 / तथा चैतेषां प्रत्येकं कालमधिकृत्य सीमाविस्तारो मुहूर्तगतसप्तषष्टिभागानां पञ्चोत्तरं सहस्रमुक्तः- " सयभिसया भरणीए, अद्दा अरसेस साइ जिट्ठा य / पंचोत्तरं सहरसं, भागाणं सीमविक्खंभो।। १॥"अस्य पञ्चोत्तरसहस्रस्य सप्तषष्ट्या भागो ह्रियते, लब्धाः पञ्चदश मुहूर्ताः। उक्तं च-" सयभिसया भरणीओ, अद्दा अस्सेस साइ जिहा य। एए छ नक्खत्ता, पन्नरस मुहुत्तसंजोगा / / 1 // " तथा-तत्र तेषामष्टाविंशतेर्नक्षत्राणांमध्ये यानि नक्षत्राणि त्रिंशतं मुहूर्तान यावचन्द्रेण सह योगं युञ्जन्ति, तानि पञ्चदश / तद्यथा- " सवणो " इत्यादि / तथाहि-एतेषां कालमधिकृत्य प्रत्येकं सीमाविष्कम्भो मुहूर्तगतसप्तषष्टिभागानां दशोत्तरे द्वे सहस्रे 2010 / ततस्तयोः सप्तषष्ट्या भागे हृते लब्धाविशन्मुहूर्ताः। तथा-तत्र यानि नक्षत्राणि पञ्चचत्वारिंशतं मुहूर्तान् यावच्चन्द्रेण सार्द्ध योगं युञ्जन्ति, तानि षट् / तद्यथा-उत्तरभाद्रपदा इत्यादि / तेषां हि प्रत्येकं कालमधिकृत्य सीमाविष्कम्भो मुहूर्तगतसप्तषष्टिभागाना त्रीणि सहस्राणि पञ्चदशोत्तराणि 3015 / ततस्तेषां सप्तषष्ट्या भागे हृते लब्धाः पञ्चचत्वारिंशदेव मुहूर्ता लभ्यन्ते। उक्तंच" तिन्नेय उत्तराई. पुणव्वसू रोहिणी विसाहा य। एए छन्नक्खत्ता, पणयालमुहुत्तसंजोगा।।१।। अवसेसा नक्खत्ता, पनरसए हुति तीसइमुहुत्ता। चंदम्मि एस जोगो, नक्खत्ताणं समक्खाओ॥२॥" तदेवमुक्तो नक्षत्राणां चन्द्रेण सह योगः। (11) संप्रति सूर्येण सह तमभिधित्सुराहता एते सि णं अट्ठावीसाए णक्खत्ताणं अस्थि णक्खत्ते, जे चत्तारि अहो रत्ते छन मुहुत्ते णं सूरेण सद्धिं