________________ णक्खत्त 1761 - अभिधानराजेन्द्रः भाग - 4 णक्खत्त एवमाहंसु / 1 / एगे पुण एवमाहंसुता सव्वे वि णं णक्खत्ता महाऽऽदीआ अस्सेसापज्जवसिआ आहितेति वदेजा, एगे एवमाहंसु / 2 / एगे पुण एवमाहंसुता सव्वे वि णं णखत्ता धणिट्ठाऽऽदिया सवणपज्जवसिया आहिता तिवदेज्जा, एगे एवमाहंसु / 31 एगे पुण एवमाहंसुता सव्वे विणं णक्खत्ता अस्सि-णीआदिआ रेवतिपज्जवसिआ आहिता ति वदेजा, एगे एवमा-हंसु / 4 / एगे पुण एवमाहंसुता सव्वे विणक्खत्ता भरणीआदिआ अस्सिणीपञ्जवसिता आहितेति वदेज्जा, एगे एवमाहंसु। 5 / वयं पुण एवं वदामोता सव्वे वि णं णक्खत्ता अभिजिताऽऽदिआ उत्तरासादापज्जवसिआ आहिता तिवदेजा। तं जहा-अभिजिए, सवणो, धणिट्ठा, सतभिसता, पुव्वभद्दवता, उत्तराभद्दवता, रेवती, अस्सिणी, भरणी, कत्तिया, रोहिणी, मिगसिरं, अद्दा, पुणव्वसू , पुस्सो, असिलेसा, मघा, पुव्वाफग्गुणी, उत्तराफग्गुणी, हत्थो, चित्ता, साती, विसाहा, अणुराहा, जेट्ठा, मूलो, पुव्वासाढा, उत्तरासादा। अत्र चायमर्थाधिकारः / यथा-योगमिति किं भगवन् ! त्वया समाख्यायत इति ? ततस्तद्विषयं निर्वचनसूत्रमाह-" ताजोगे ति वत्थुस्स " इत्यादि।'ता' इति।आस्तांतावदन्यत्कथनीयम् इदानीं तावदेतदेव कथ्यतेयोग इति वस्तुनो नक्षत्रजातस्य (आवलियनिवाते त्ति) आवलिकया क्रमेण, निपातश्चन्द्रसूर्यः, सह संपातः, आख्यातो मयेति वदेत् स्वशिष्येभ्यः / एवमुक्ते भगवान् गौतमः पृच्छति- " ता कहं ते " इत्यादि। 'ता' इति पूर्ववत् , कथं केन प्रकारेण, भगवन् ! त्वया योग इति योगस्य वस्तुनो नक्षत्रजातस्याऽऽवलिकानिपातः, स आख्यात इति वदेत् ? भगवानाह-" तत्थ खलु" इत्यादि। तत्र तस्मिन् नक्षत्रजातस्याऽऽवलिकानिपातविषये, खल्विमाः पञ्च प्रतिपत्तयः परतीर्थकाभ्युपगमरूपाः प्रज्ञप्ताः / तद्यथा-तत्र तेषां पञ्चानां परतीथिकाना मध्ये, एके परतीर्थिका एवमाहुः-- 'ता' इति पूर्ववत् / सर्वाण्यपि नक्षत्राणि कृत्रिकाऽऽदीनि भरणीपर्यवसानानि प्रज्ञप्तानि। क्लीबत्वे पुंस्त्वनिर्देशः प्राकृतत्वात्। तत्रैवोपसंहारमाह-"एगे एवमासु १"एवं शेषप्रतिपत्तिचतुष्टयगतान्यपि सूत्राणि परिभावनीयानि / तदेवं परप्रतिपत्तीरुपदर्थ्य संप्रति स्वमतमुपदर्शयति-" वयं पुण" इत्यादि।वयंपुनरेवं वक्ष्यमाणेन प्रकारेण वदामः / तमेव प्रकारमाह- " ता सव्वे विणं '' इत्यादि। "ता'' इति पूर्ववत्। सर्वाण्यपि नक्षत्राण्यभिजिदादीनि, उत्तराषाढापर्यवसानानि प्रज्ञप्तानि / कस्मात् ? इति चेत् / उच्यते-इह सर्वेषामपि सुषमसुषमाऽऽदिरूपाणां कालविशेषाणामादिर्युगम्," एए उ सुसमसुसमादओ अद्धाविसेसो जुगाइणा सह पवत्तते, जुग तेण सह समप्पति, इति श्रीपादलिप्तसूरिवचनप्रामाण्याद् , युगस्य चाऽऽदिः प्रवर्तते श्रावणे मासि बहुलपक्षे प्रतिपदि तिथौ बालक्करणे अभिजिति नक्षत्रे चन्द्रेण सह योगमुपगच्छति। तथा चोक्त ज्योतिष्करण्डके" सावणबहुलपडिवए, बालवकरणे अभीइणक्खत्ते। सव्वत्थ पढमसमए, जुगस्स आइं विआणाहि॥१॥" अत्र (सव्वत्थेति) भरते ऐरवते महाविदेहे च, शेष सुगमम्। ततः सर्वेषामपि कालविशेषाणामादौ चन्द्रयोगमधिकृत्याभिजिनक्षत्रस्य प्रवर्तमानत्वादभिजिदादीनि नक्षत्राणि प्रज्ञप्तानि / तान्येव तद् यथेत्यादिनोपदर्शयति- " अभिई सवणो " इत्यादि / सू० प्र० 10 पाहु०१ पाहु०। (2) एतानि नक्षत्राणि प्रत्येक द्वे वेदो कत्तियाओ,दो रोहिणीओ,दो मियसिराओ, दो अदाओ, एवं भाणियव्वं"कत्तिय रोहिणि मियसिर, अद्दा य पुणव्वसू य पुस्सो य / तत्तो वि अस्सलेसा, महा य दो फग्गुणीओ य / / 1 / / हत्थो चित्ता साई, य विसाहा होंति अणुराहा। जेट्ठा मूलो पुव्वा-आसाढा उत्तरा चेव // 2 // अभिई सवण धणिट्टा, सयभिसया दो य होंति भद्दवया। रेवइ अस्सिणि भरणी, णेयव्या आणपुव्वीए " ||3|| एवं गाहाणुसारेण णायव्वं० जाव दो भरणोओ। द्वे कृत्तिके नक्षत्रापेक्षया, न तु तारकाऽपेक्षया, इत्येवं सर्वत्रेति।" कत्तिए" इत्यादि गाथात्रयेण नक्षत्रसूत्रसंग्रहः / (3) कृत्तिकाऽऽदीनामष्टाविंशतेनक्षत्राणां क्रमेणाग्न्यादयो ऽष्टाविंशतिरेव देवता भवन्ति। ता आहदो अग्गी, दो पयावई, दो सोमा, दो रुद्दा, दो अइई, दो बहस्सई,दो सप्पा, दो पिई,दो भगा, दो अज्जमा, दो सविया, दो तट्ठा, दो वाऊ, दो इंदग्गी, दो मित्ता, दो इंदा, दो निरई, दो आऊ, दो विस्सा, दो बम्हा, दो विण्हू ,दो वस् ,दो वरुणा, दो अया, दो विविड्डी, दो पूसा, दो अस्सा, दो जमा। द्वावग्नी 1, एवं प्रजापती 2, सौमौ 3. रुद्रौ 4. अदिती 5, बृहस्पती 6. सर्प 7, पितरौ 8, भगौ 1, अर्यमणौ 10, सवितारौ 11, त्वष्टारौ 12, वायू 13, इन्द्राग्नी 14, मित्रौ 15, इन्द्रौ 16, निर्ऋती 17, आपः 18, विश्वौ 16, ब्रहाणौ 20, विष्णू 21, वसू 22. वरुणौ 23, अजौ 24, विवृद्धी (25) / ग्रन्थान्तरे अहिर्बुध्नावुक्तौ 25 / पूषणौ 26, अश्विनौ 27, यमाविति 28 / ग्रन्थान्तरे पुनरश्विनीत आरभ्यता एवमुक्ताः"अश्वियमदहनकमलज-शशिशूलभृददितिजीवफणिपितरः। योन्यर्यमदिनकृतत्व-ष्ट्रपवनशक्राग्निमित्राऽऽख्याः // 1 // ऐन्द्रो नैर्ऋतितोऽयं, विश्वौ ब्रह्मा हरिर्वसुर्वरुणः! अजपादोऽहिर्बुध्नः, पूषा चेतीश्वरा भानाम् " // 2 // स्था०२ ठा० 3 उ० / ज०। (4) जंबुद्दीने दीवे अभिईवजे हिं सत्तावीसाए णक्खत्तेहिं संववहारे वट्टति। जम्बूद्वीपे, न धातकीखण्डाऽऽदौ, अभिजिदर्जः सप्तविंशत्या नक्षत्रैर्व्यवहारः प्रवर्त्तते, अभिजिन्नक्षत्रस्योत्तराषाढचतुर्थपादानुप्रवेशनादिति। स०२७ सम०।