SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ णंदिस्सर 1756 - अभिधानराजेन्द्रः भाग - 4 णंदीसरवर सुवर्णरुचिररजो-वालुकास्तत्र भूमयः / / 17 / / आयतनप्रमाणेन, रुचिरा मुखमण्डपाः। प्रेक्षार्थमण्डपा अक्ष-वाटिका मणिपीठिकाः / / 18 // रम्याश्च स्तूपप्रतिमा-चैत्यवृक्षाश्च सुन्दराः। इन्द्रध्वजाः पुष्करिण्यो, दिव्याः सन्ति यथाक्रमम्।।१६।। प्रतिमाः षोडश चतुरस्तूपेषु सर्वतः / शतं चतुर्विंशमेवं, ताः साष्टशततधुताः।।२०।। प्रत्येकमञ्जनाद्रीणां, ककुत्सु चतसृष्वपि। गते लक्षे योजनाना, निर्मत्स्यस्वच्छवारयः / / 21 / / सहस्रहयोजनोद्वेधाः, विष्कम्भे लक्षयोजनाः। पुष्करिण्यः सन्ति तासा, क्रमान्नामानि षोडश / / 22 / / नन्दिषेणा चामोघा च, गोस्तूपाऽथ सुदर्शना। तथा नन्दोत्तरा नन्दा, सुनन्दा नन्दिवर्द्धना / / 23 / / भद्रा विशाला कुमुदा, पुण्डरीकिणिका तथा। विजया वैजयन्ती च, जयन्ती चापराजिता // 24 // प्रत्येकमासां योजन-पञ्चशत्या परत्र च। योजनानां पञ्चशती, यावद्विस्तारभाजितु / / 25 / / लक्षयोजनदीर्घाणि, महोद्यानानि तानि तु। अशोकसप्तच्छदक-चम्पकचूतसंज्ञया।। 26 / / मध्ये पुष्करिणीनां च, स्फाटिकाः कल्पमूर्तयः / ललामवेद्युद्यानानि, चिह्ना दधिमुखाद्रयः / / 27 // चतुःषष्टिसहस्रोच्चाः, सहस्रं चावगाहिनः। सहस्राणि दशाधस्ता-दुपरिष्टाच विस्तृताः / / 28 / / अन्तरे पुष्करिणीना, द्वौ द्वौ रतिकराचलौ। ततो भवन्ति द्वात्रिंश-देते रतिकराचलाः / / 26 / / शैलेषु दधिमुखेषु, तथा रतिकराद्रिषु / शाश्वतान्यर्हचैत्यानि, सन्त्यञ्जनगिरिष्विष / / 30 / / चत्वारोद्वीपविदिक्षु, तथा रतिकराचलाः। दशयोजनसाहस्रा-ऽऽयामविष्कम्भशालिनः / / 31 / / योजनानां सहसंतु, यावदुछ्यशोभिताः। सर्वरत्नमया दिव्याः, झल्लाकारधारिणः / / 32 / / तत्र द्वयोः रतिकरा-चलयोर्दक्षिणस्थयोः। शकस्येशानस्य पुन-रुत्तरस्थितयोः पृथक्॥३३ / / अष्टानां महादेवीना, राजधान्योऽष्टदिक्षु ताः। लक्षोद्वेधा लक्षमानाः, जिनाऽऽयतनभूषिताः / / 34 / / सुजाता सौमनसा चा-र्चिाली च प्रभाकरा। पद्मा शिवाशुभाञ्जने, चूता चूतावतंसिका।। 35 / / गोस्तूपासुदर्शने अ-प्यमलाप्सरसौतथा। रोहिणी नवमी चाथ, रत्ना रत्नोचयाऽपि च / / 36 / / सर्वरत्ना रत्नसंच-या वसुर्वसुमित्रिका। वसुभागाऽपि च वसु-धरानन्दोत्तरे अपि / / 37 // नन्दोत्तरकुरुर्देव-कुरुः, कृष्णा ततोऽपि च / कृष्णराजीरमाराम-रक्षिताः प्राक्क्रमादमूः / / 38 / / सर्वर्द्धयस्तासु देवाः, कुर्वत सुपरिच्छदाः। चैत्ये ह्यष्टाहिकाः पुण्य-तिथिषु श्रीमदर्हताम्।। 36 / / प्राच्येऽजनगिरौ शक्रः, कुरुतेऽष्टाहिकोत्सवम्। प्रतिमानां शाश्वतीनां, चतुरि जिनालये। 40 // तस्य चाग्रे चतुर्दिक्स्थ-महावापीविचर्चिषु। स्फाटिकेषु दधिमुख-पर्वतेषु चतुर्ध्वपि।। 41 / / चैत्येष्वर्हत्प्रतिमाना, शाश्वतीना यथाविधि / चत्वारः सर्वदिग्पालाः, कुर्वतऽष्टाहिकोत्सवम्॥४२॥ ईशानेन्द्राश्चौत्तराहे-ऽञ्जनाद्रौ विदधाति तम्। तल्लोकपालास्तद्वापी-दधिमुखाद्रिषु कुर्वते / / 43 / / चमरेन्द्रो दाक्षिणात्ये-5जनाद्रावुत्सवं चरेत्। तद्वाप्यन्तर्दधिमुखे-ध्वस्य दिक्पतयः पुनः / / 44 / / पश्चिमे जिनशैले तु, बलीन्द्रः कुरुते महम। तद्दिक्पालास्तु तद्वाप्य-न्तर्भाग्दधिमुखाद्रिषु / / 45 / / वर्षद्वीपदिनाऽऽरब्धा-नुपवासान् कुहूतिथौ। कुर्वन्नन्दीश्वरोपास्त्य, श्रेयसीं श्रियमार्जयेत्॥ 46 // भक्त्या चैत्यानि वन्दारु-स्तत्स्तोत्रस्तुतिपाठभाक्। नन्दीश्वरमुपासीनो-ऽनुपर्वाहस्तदुत्तरम् / / 47 / / प्रायः पूर्वाऽऽचार्य-प्रथितैरेवायमाचितः श्लोकः / श्रीनन्दीश्वरकल्पो, लिखित इति श्रीजिनप्रभाऽऽचार्यः / / 48 // इति नन्दीश्वरकल्पः। ती०४६ कल्प। णंदी-स्त्री०(नन्दी) णदि' शब्दार्थे, आ० म० द्वि० / गवि, दे० ना० 4 वर्ग। णंदीचुण्णग-न०(नन्दीचूर्णक) णंदीचुण्णग' शब्दार्थे, सूत्र० 1 श्रु०४ अ०२ उ०। गंदीसरवर-पुं०(नन्दीश्वरवर) नन्दीश्वर एव वरश्च मनुष्यद्वीपा-पेक्षया बहुतरजिनभवनाऽऽदिसद्भावेन तस्य वरत्वादिति। अष्टमे, द्वीपे, स्थान 4 ठा० 2 उ० / जी० / द्वी०। तद्वक्तव्यता चैवम्खोदोदंणं समुदं नंदीसरवरेणामंदीवे वट्टे वलयागारसंठाणसंठिते तहेव० जाव परिक्खेतो पउमवरवणसंडे परिदारा दारंतरापदेसा जीवा तहेव 2; से केणटेणं भंते ! एवं वुचइणंदीसरवरो दीवो गंदीसरवरो दीवो ? गोयमा ! देसे देसे बहुओ खुड्डा खुड्डियाओ वावीओ० जाब विलपंतियाओ खेत्तोदगपडिहत्थातो उप्पातपव्वया सव्ववइरामया अच्छा० जाव पडिरूवा, अदुत्तरं च णं गोयमा! गंदीसरदीवचक्कवालविक्खंभबहुमज्झदेसभाए, एत्थ णं चउद्दिसिं चत्तारि अंजणपव्वया पण्णत्ता। (खोदोदंणं समुद्दमित्यादि) क्षोदोदं, णमिति पूर्ववत्। समुद्र, नन्दीश्वरवरो नाम द्वीपो वृत्तो वलयाऽऽकारसंस्थानसंस्थितः, सर्वतः समन्तात् , संपरिक्षिप्य तिष्ठति / चक्रवालविष्कम्भपरिक्षेपाऽऽदिवक्तव्यता प्राग्वत् , यावद् जीवोपपातसूत्रम् / सम्प्रति नामनिमित्तमभिधित्सुराह-(से केणडेणमित्यादि) अथ केन कारणेन एवमुच्यते-नन्दीश्वरवरो द्वीप: नन्दीश्वरवरदीप इति? भगवानाह-गौतम नन्दीश्वरद्वीपे बहवः" खड्डा खुड्डियाओवावीओ' इत्यादि प्रागुक्तं सर्वतावद्वक्तव्यं,यावत्" वाणमंतरा देवा देवीओ य आसयंति संयति० जाव विहरंति नवरमत्र वाप्यादयः क्षोदोदकप्रतिपूर्णा वक्तव्याः, पर्वतकाः, पर्वतकेष्वासनानि, गृहकाणि, गृहकेष्वासनानि, मण्डपकाः, मण्डपकेषु शिलापट्टकाः सर्वाऽऽत्मना वज्रमयाः, शेष तथैव / (अदुत्तरं च णं गोयमा ! इत्यादि) अथान्यद् गौतम! नन्दीश्वरे चत्वारो दिशः समाहृताश्चतुर्दिक, तस्मिन् चक्रवालविष्कम्भेण बहुमध्यदेशभागे एकैकस्यां दिशि एकैकभागेन चत्वारोऽजनकपर्वताः प्रज्ञप्ताः / तद्यथा-पूर्वस्या दिशि, एवं पश्चिमायां, दक्षिण
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy