SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ठाणकप्प 1716 - अभिधानराजेन्द्रः भाग - 4 ठाणठिय ठाणकप्प-पुं०(स्थानकल्प) कल्पभेदे, ' अधुणा तु ठाणकप्पो, | उट्ठाणादिओ मुणेयव्यो / ठितकप्पसंजतस्स वि, आणुण्णओ अहितस्सेव // 1 // " पं० भा० ! पं० चू०। ठाणगुण-पुं०(स्थानगुण) स्थान स्थितिर्गुणः कार्य यस्य स स्थानगुणः। स्था० 5 ठा० 2 उ० / जीवपुद्गलानां स्थितिपरिणतानां स्थित्युपष्टम्भहेतौ गुणतोऽधर्मास्तिकाये, भ० 1 श० 1 उ०। ठाणचंचल-पुं०(स्थानचञ्चल) चञ्चलशब्दोक्तार्थक चञ्चलभेदे, बृ० 1 उ०। ठाणठवणा-स्वी०(स्थानस्थापना) उचितस्थानन्यासे, पञ्चा०८ विव०। ठाणठाइ(ण)-पुं०(स्थानस्थायिन् ) उचितस्थानस्थातरि, बृ० 1 उ० / नि० चू०। ठाणठिइ-रत्री०(स्थानस्थिति) विहारान्तरं वसतिप्रवेशात्प्राङ्मध्ये स्थिती, ओघ०। (एतद्वक्तव्यता च' मासकप्पविहार 'शब्दे वक्ष्यते) ठाणठिय-त्रि०(स्थानस्थित) उत्तरोत्तरविशिष्टसंयमस्थानाध्या-सिनि, सूत्र०१ श्रु०२ अ०१उ०। षष्ठे द्वारे स्थानस्थितो भवतीदमुक्तं, स च एभिः कारणैःअसिवे ओमोयरिए, रायदुट्टे भए णइट्ठाणे। फिडिएँ गिलाणे कालगऐं, वासे ठाणढिओ होइ।। 177 / / अशिये देवताजनितोपद्रवे सति तस्मिन् यत्रभिप्रेतं गमनं कदाचिदपान्तराले भवति, ततश्चानेन कारणेन स्थानस्थितो भवति / (ओमोयरिए त्ति) दुर्भिक्षे विवक्षिते देशे जाते अपान्तराले वा, ततश्च स्थानस्थितो भवति / (रायदुट्टि ति) राजद्विष्ट कदाचित्तत्र भवत्यभिप्रेतदेशे, अपान्तराले वा, तेन च कारणेन स्थानस्थितो भवति / स्तेनाऽऽदिभयं विवक्षिते देशे, अपान्तराले वा, ततस्तेन कार-णेन स्थानस्थितो भवति। (नइ त्ति) कदाचिन्नदी विवक्षिते देशे अपान्तराले वा भवति, तेन प्रतिबन्धेन स्थानस्थितो भवति / (फिडिय त्ति) कदाचिदासावाचार्यस्तस्मात् क्षेत्रात् च्युतोऽपगतो भवति, ततश्च तावदास्ते यावद्वार्ता लभ्यते, अनेन कारणेन स्थान-स्थितो भवति। (गिलाणे ति) ग्लानः कदाचिदसावाचार्यो भवति, तेन प्रतिबन्धेन स्थानस्थितो भवति। (कालगए त्ति) कदाचिदसावाचार्यः कालगतो मृतो भवति तथाच यावत्तन्निश्चयो भवति तावत् स्थानस्थितो भवति। (वासे त्ति) वर्षाकालः संजातस्ततस्तत्प्रति-बन्धात् स्थानस्थितो भवति, तत्रैव ग्रामादावास्ते। इयं द्वार- गाथा / / 177 // इदानीं नियुक्तिकार एव तानि विहाराणि व्याख्यानयन्नाहतत्थेव अंतरावा, असिवाऽऽदी सोउ परिरयस्सऽसति। संचिट्ठे जाव सिवं, अहवा वी ते तओ फिडिया।। 178 / / (तत्थ त्ति) तत्र योऽसौ विवक्षितो देशः, तत्रैव (अंतरा) अन्तराले वा, अशिवाऽऽदयो जाता इति श्रुत्वा आकर्ण्य / आदिग्रहणात् अवमौदरिकराजद्विष्टभयानि परिगृह्यन्ते / (परिरयस्सऽसइ ति) 'भमाडयस्स ' असति अभावे तिष्ठति। एतदुक्तं भवति-यदि गन्तुं शक्नोति श्रमणः ततोऽपान्तरालं परिहृत्याभिलषितस्थानं गच्छति, अथन शक्यते गन्तुं ततः (संचिट्टे त्ति) संतिष्ठेत। कियन्तं कालं यावत् ?अत आह(जाव सियं) यावत् शिवं निरुपद्रवं यातमिति / (अहवा वी ते ततो फिडिया) अथवा ते आचार्याऽऽदयस्तस्मात् क्षेत्रादपगता भ्रष्टा इति, ततश्च वार्तापलम्भं यावत् तिष्ठति।।१७८ // इदानीं भाष्यकृत शेषद्वाराणि व्याख्यानयन्नाहपुन्ना च नई चउमा-सवाहिणी वियन कोइ उत्तारे। तत्थंतरालदेसे, उट्ठिउण वि लब्भइ पवित्ती।। 176 / / पूर्णा भृता, का? नदी, किंविशिष्टा? चतुर्मासवाहिनी, नच कश्चिदुत्तारयति, ततोऽपान्तराले एव तिष्ठति / तत्र, अन्तराले वा देशे, उत्थित उद्धमितः, न च प्रवृत्तिर्वार्ता लभ्यते, अतस्तिष्ठति तावत्।। 176 / / फिडिएसु जा पवत्ती, सयं गिलाणो परं व पडियरइ। कालगय त्ति पवित्ती, ससंकिए जाव निस्संकं / / 180 // (फिडिएसु) तस्मात् क्षेत्रादपगतेषु सत्सु (जा पवत्ती) यावद्वार्ता भवति, तावत्तिष्ठति। तथा-(सयं गिलाणो) स्वयमेवग्लानो जातः, ततस्तिष्ठति। (परं व पडियरइ) अन्य वा ग्लानं सन्तं प्रतिचरति (कालगय त्ति पवित्ती) अथवा-कालगतास्ते आचार्याः, इति एवम्भूता, प्रवृत्तिः श्रुताः, ततः (ससंकिते जाव निस्संकं) सशङ्कायां वार्तायामनिश्चितायां तावदास्ते, यावन्निःशवं संजातमिति / / 180 / / वासासु उब्मिन्ना, वीयाऽऽई तेण अंतरा चिहे। तेगिच्छि भोगि सार-क्खणहढे य ठाणमिच्छति / / 181 // वर्षासूभिन्ना बीजाऽऽदयः, आदिशब्दादनन्तकायः, तेन कारणेन अन्तराल एव तिष्ठति / मन्दश्च (तेगिच्छि त्ति) चिकित्सकं, तथा (भोइ त्ति) भोगिकं ग्रामस्वामिनं पृच्छति। किमर्थ पुनः वैद्यभोगिकयोः पृच्छनं करोतीत्यत आह-(सारक्खणहढे) वैद्यं पृच्छति मन्दतायां सत्यां (हढे त्ति) दृढीकरणार्थम् , भोगिकं पृच्छति संरक्षणार्थ परिभवाऽऽदेः, ततः स्थानं च वसनमिच्छन्ति केचित्॥१८१॥ तत आहसंविग्गसन्निभद्दग-अहप्पहाणेसु भोइयघरे वा। ठवणा आयरियस्सा, सामायारी पउंजणया।। 182 / / वैद्यभोगिकयोः कथयित्वा संविग्नेषु मोक्षाभिलाषिषु तिष्ठति, (सन्नि त्ति) संज्ञी श्रावकः, तद्गृहे तिष्ठति, भद्रकः साधूनां श्रद्धाकरः, तद्गृहे तिष्ठति, तद्गृहे निवासं करोति। (अहप्पहाणेसु त्ति) यथाप्रधानेष्वितियो यत्र ग्रामाऽऽदौ प्रधानः प्रथितस्तेषु यथा-प्रधानेष्विति / एतेषामभावे (भोइयघरेवत्ति) भोगिकगृहे या ग्रामस्वामिगृहे या तिष्ठति। तत्र च तिष्ठन् किं करोतीति? अत आह-(ठवणा आयरियरसा) दण्डकाऽऽदिमाचार्य कल्पयति निराबाधे प्रदेशे; अयमाचार्य इति तस्य चाग्रतः सकलां चक्रबालसामाचारी प्रयुड्क्ते, निवेद्य करोतीत्यर्थः // 182 // एतच कारणिकद्वारम्एवं ता कारणिओ, दूइज्ज जुत्तो अप्पमाएणं। निक्कारणिओ एत्तो, चइओ आहिंडओ चेव / / 183 / / एवं तावत्कारणिक :, (दू इजा त्ति) विहरति / कथं विहरति ? (जुत्तो अप्पमाएणं) अप्रमादेन युक्तः प्रयत्नपर
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy