SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ठवणाकुल 1687 - अभिधानराजेन्द्रः भाग - 4 ठवणाकुल न्ति, एवंविधानि कुलानि स्थापयेत् / एकं गीतार्थसङ्घाटकं मुक्त्वा, शेषसङ्घाटकान्न तत्र प्रवेशं कारयेत्। आह नियुक्तिकारःकिं कारणं चमढणा, दव्वखओ उग्गमो वि य न सुज्झे। गच्छम्मि नियय कलं, आयरियगिलाणपाहुणए / / 752 // किं कारणं को हेतुः? येन स्थापनाकुलेष्वेक एव सङ्घाटकः प्रविशति? सूरिराह-(चमढण त्ति) अन्यैरन्यैश्च सङ्घाटकैः प्रविशभिस्तानि कुलान्युद्वेगं प्राप्यन्ते / ततश्च द्रव्याणां स्निग्धमधुराणां क्षयो भवति / तदुदगमोऽपि च न शुद्धयति / गच्छे च नियतं निश्चितं प्रायोग्यद्रव्यैः कार्य भवति / किमर्थम् ? इत्याह-आचार्यग्लानप्राघूर्ण-कानां हेतोरिति नियुक्तिगाथासमासार्थः। अथ भाष्यकार एनामेव विवृणोतिपुटिव पि वीरसुणिया, भणिया भणिया पहावए तुरियं / सा चमढणाएँ सिग्गा, नेच्छइ दलु पि गंतुंजे / / 753 / / "जह काइवीरसुणिया केणइ पारद्धिएण तित्तिराईणं गहणे छि-कारिया समाणी तित्तिराईणि गिण्हइ, पच्छा सा तेहिं सावएण विणा वि छिक्कारेइ, सा वीरसुणिया इतोतओ पहावेइ, जावन किंचि पेच्छइ, ताहे सा वेयारिया समाणी जइ सो सावयं दटुं पच्छा छिक्कारेइ, तहा वि पयं पि न इच्छा गंतु। “अथ गाथाक्षरयोजनायः शुनिकद्वितीयः शस्त्राद्यपेक्षारहितो मृगयां करोति स वीरः उच्यते। तस्य शुनिकाः, यथा पूर्वमदृष्टऽपि श्वापदे भणिता छीत्कृता सती (तुरिय) त्वरितमितस्ततःप्रधावति, ततः सा'चमढणया 'निरर्थकमुद्रेजनया, 'सिग्गा श्रान्ता सती, सन्तमपि श्वापदं दृष्ट्वा, पदमपि गन्तुं, 'जे' इति पादपूरणे, नेच्छति। एष दृष्टान्तः। अथोपनयस्त्वेवम्एवं सडकुलाई, चमढिज्जताइँ अन्नमन्नेहिं। नेच्छंति किंचि दाउं, संतं पि तहिं गिलाणस्स / / 754 // / एवममनैव प्रकारेण, श्राद्धकुलानि (चमढिज्जंताई ति) उद्वेज्यमानानि, अन्यान्यैः-क्षुल्लकस्थविरक्षपकाऽऽदिभिः / यद्वा-(अन्नमन्नेहिं ति) अन्योन्यैः परिफल्गुप्रायैः कारणैः। यथा एकः प्राहग्लानस्य शीर्ष दुप्यति, शर्करां प्रयच्छ। अपरः प्राहममोदरं दुष्यति, दध्नः करम्वेन प्रयोजनम्। तदपरः प्राह-प्राधूर्णक आयातोऽस्ति घृताऽऽदिकं देहि / अन्यः प्राहअहमाचार्यस्य हेतोरायातोऽस्मि, दुग्धं सशर्करं प्रतिलाभायेत्यादि / ततस्तानिब्रवीरन्-यूयं सर्व एव ग्लानाः, अतो वयं कियतां प्रयच्छामः ? को वा जानाति-यूयमाचार्याऽऽदीनां हेतोगृहीथ, आहोस्विदात्मार्थम्। इत्येवमुद्वेज्यमानानि नेच्छन्ति, सदपि विद्यमानमपि, घृताऽऽदिकं, किञ्चित् स्तोकमात्रमपि, ग्लानस्या, उपलक्षणत्वात्-आचार्यप्राघूर्णकाऽऽदेरप्यायदानम्। ततश्च यत्तेग्लानाऽऽदयः परिताप्यन्ते, तन्निष्पन्नं प्रायश्चित्तम् / गत चमढणाद्वारम्। अथ द्रव्यक्षयोद्गमाशुद्धिकारणमाहअन्नो चमढणदोसो, दव्वखओ उग्गमो वि य न सुज्झे। खीणे दुल्लभदव्वे, नत्थि गिलाणस्स पाउग्गं // 755 / / अन्योऽपरश्वमढणायां दोषः / कः ? इत्याह-द्रव्यस्थावगाहिमघृताऽऽदेः, कारणमन्तरेणापि दिने दिने गृह्यमाणस्य, क्षयो भवति। ततश्च यद्यभिनवमवगाहिमाऽऽद्रव्यं साधूनामर्थाय करोति, क्रीणाति वा, तत उद्गमोऽपि च न शुद्ध्यति, सदोषत्वात् तदुत्पादितमपिन कल्पत इति भावः / ततः क्षीणे व्यवच्छिन्ने दुर्लभद्रव्ये, प्रयोजने उत्पन्नेऽपि नास्ति ग्लानस्य प्रायोग्य, ततः परितापमहादुःखाऽऽदिका ग्लानाऽऽरोपणाद्रव्याभद्रकप्रान्तकृताश्च दोषा भवन्ति। तानेवाहदव्वक्खएण पंतो, इत्थि घाएइ कीस ते दिन्नं? भहो हट्ठपहट्ठो, करिज्ज अन्नं पि साहूणं / / 756 / / इह कस्यापि प्रान्तस्य भार्या श्राद्धिका, ततस्तथा अन्यान्यसा-धूनां याचमानानां प्रायोग्यं द्रव्यं सर्वमपि प्रदत्तम् / ततस्तस्याः पतिर्भोजनार्थमुपविष्टः सन् ब्रूतेकूर मे परिवेषय।सा प्राह-साधूनांप्रदत्तः / स प्रतिब्रूयात्-पूपुलिका तर्हि परिवेषय / सा प्राह-ता अपि प्रदत्ताः। एवं सूपदुग्धदधिप्रभृतीन्यपि साधूनां वितीर्णानि / इत्थं द्रव्यक्षयेण प्रान्तः कुपितः सन् स्वस्त्रियं घातयेत्-कुट्टयेत्। कस्मात्किमर्थ, त्वया तेभ्यः सर्वमपि दत्तमिति कृत्वा ? अत्र पाठान्तरम्-" दव्वक्खएण लुद्ध त्ति " लुब्धो लोभाभिभूतः,शेषं प्राग्वत्। यस्तु भद्रको गृहपतिः, स श्राद्धिकया सर्वस्मिन्नपि दत्ते, तथैव च कथिते, हृष्टप्रहृष्टो भवति ; हृष्टो-नाम मनसि परितोषवान् / प्रहृष्टस्तु प्रहसि-तवदनः समुद्भूतरोमहर्ष इति / ततश्च 'कुर्यादन्यदपि, अवगाहिमाऽऽदिकं साधूनामर्थाय कारयेदित्यर्थः / एतद्दोषपरिहरणार्थमकं गीतार्थसङ्घाटकं मुक्त्वा, शेषाः स्थापनाकुलानि न निर्विशेयुः / प्राघूर्ण के चाऽऽयाते सति प्राघूयं विधेयं, तच स्वभावानुमतैरेव भक्तपानैः। तथा चात्र दृष्टान्तमाहजड्डे महिसे चारिं, आसो गोणे य जे य जावसिया। एएसिं पडिवक्खे, चत्तारि उसंजया हॉति // 757 / / जडो हस्ती, महिषाश्वौ प्रतीतौ, गोणो बलीवईः / एतेषां ये यावसिका यवसस्तत्प्रायोग्यमुद्गमाषादिरूप आहारः, तेन तद्वहनेन चरन्तीति यावसिकाः, ते अनुकूलां चारी मानयन्ति। एतेषां जड्डाऽऽदीनां प्रतिपक्षी प्रतिरूपः, पक्षसदृशपक्ष इत्यर्थः / तत्र चत्वारः प्राघूर्णकसंयता भवन्ति / तद्यथा-जडुसमानो, महिषसमानः, अश्वसमानः, गोसमानश्चेति। अथामीषामेव व्याख्यानमाहजड्डो जं वा तं वा, सुकुमालं महिसओ महुरमासो। गोणो सुगंधिदव्वं, इच्छइ एमेव साहू वि।। 758 / / जड्डो हस्ती, स यद्वा तद्वा-सकर्कशकटुकाऽऽदिकमप्याहारयति। यस्तु महिषः, स सुकुमारं वशकरीलाऽऽदिकमभिलषति / अश्वो मधुरं मुद्गमाषाऽऽदिकमभिकासति / गौर्बलीवर्दःस, स सुगन्धिद्रव्यमजुर्नकग्रन्थिपर्णाऽऽदिकमिच्छति / एवमेव साधवश्चत्वारश्चतुर्विधं भक्तमिच्छन्ति। " तत्थ पढमोजडुसमाणो पाहुणगसाहू भणइममजंदोसिं पंचाउण्हगंवा कंजियं वा लब्भइ, तं चेव आणेहिः नवरं उदरपूरं। एवं भणिए किं दोसी
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy