________________ जेऊण 1585 - अभिधानराजेन्द्रः - भाग 4 जेट्ठा जेऊण अव्य० (जित्वा) जयं कृत्वेत्यर्थे , प्रा० 4 पाद। जेट त्रि० (ज्येष्ठ) वृद्ध-इष्ठनि ज्यादेशः / भ० 1 श०१ उ०। जं०। सू० प्र०। उत्त० / चं० प्र०। अनु०। यो यस्याऽऽदौ स तस्य ज्येष्ठः / यथा-द्विकस्यैको ज्येष्ठः, त्रिकस्यत्वेककोऽनुज्येष्ठः, चतुष्काऽऽदीनां तु स एव ज्येष्ठनुज्येष्ठः / एवं त्रिकस्य द्विको ज्येष्ठः, स एव चतुष्कस्यानुज्येष्ठः, पञ्चकाऽऽदीनां तु स एव ज्येष्ठाऽनुज्येष्ठ इति / अनु० / विशे० 1 आ० म० / अतिवृद्धे. "कणि? मज्झिमजेट्ठा धितिसंघयणेण उवसिट्ठा।"ज्येष्ठमतिशयवृद्धम्, उत्कृष्टमित्यर्थः। उत्त० पाई०५ अ०। श्रेष्ठ, "गिहत्थधम्मा परमं ति न वा। 'गृहस्थधर्मात्परमं प्रधानं ज्येष्ठमित्येवं ज्ञात्वा। विशे० / रत्नाधिके, पञ्चा० 16 विव०। कल्प। यत्रा च गच्छे ज्येष्ठकनिष्ठौ न ज्ञायेते, न तद्गच्छम् / तथा चजत्थ य जेट्ठ-कणिट्ठो, जाणिज्जइ जेट्ठवयणबहुमाणो। दिवसेण वि जो जेट्ठो, नय हीलिजइस गोयमा ! गच्छो॥४६|| यत्र च गणे ज्येष्ठः कनिष्ठश्च ज्ञायते, तत्र ज्येष्ठः पर्यायेण वृद्धः कनिष्ठः पर्यायेण लघुः / तथा यत्रा ज्येष्ठस्य वचनमादेशोज्येष्ठवचनं, तस्य बहुमानः संमानो ज्ञायते। 'जेट्ठविणयबहुमाणे त्ति' पाठे तुज्येष्ठस्य विनयबहुमानौ ज्ञायेते, तथा यत्र च दिवसेनाऽपि यो ज्येष्ठः स न हील्यते, चकाराद्यत्रा पर्यायेण लघुरपि गुणवृद्धो न हील्यते, सिंहगिरिशिष्यैर्वजशिशुरिव / हे गौतम ! स गच्छो ज्ञेय इति / ग० 2 अधि० / अग्रजे, पुं०।वाच०। "उचिएअंपि सहो-अरम्निज निअइ अप्पसममेव। जेटं व कणिट्ट पि हु, बहु मन्नइ सव्वकज्जेसु।।८।।" (निअइ त्ति) पश्यति (जेट्ट व त्ति) ज्येष्ठो भ्राता पितृतुल्यः, तमिव तथा / ध०२ अधि०। * ज्येष्ठ त्रि०। वृद्ध-इष्ठानि ज्याऽऽदेशः। ततः स्वार्थिक अण् अतिवृद्ध, श्रेष्ठे च / अग्रजे, पुं०।वाच०। जेट्ठकप्प ज्येष्ठकल्प - कल्पभेदे, ज्येष्ठो रत्नाधिकः, स एव कल्पो वृद्धलघुत्वव्यवहारो यत्रास ज्येष्ठ कल्पः। कल्पभेदे, कल्प०१क्षण। पुव्वतरं सामइयं, जस्स कयं जो वतेसुवट्टविओ। एस कितिकम्मजेट्ठो, ण जातिसुतओ दुपक्खे उ॥ यस्य सामायिकं पूर्वतरं प्रथमतरं कृतमारोपितम्, यो वा व्रतेषु प्रथममुपस्थापितः, स एप कृतिकर्मज्येष्ठो भण्यते, न पुनर्द्विपक्षेऽपि संयतपक्षे संयतीपक्षे च जातितो बुहत्तरं जन्म पर्यायमङ्गीकृत्य, श्रुततः प्रभूतं श्रुतमाश्रित्य ज्येष्ठ इहाधिक्रियते, इह च मध्यमसाधूनां यस्य सामायिक पूर्वतरं स्थापितं स ज्येष्ठः, पूर्वपश्चिमानां तु यस्य प्रथममुपस्थापना कृत्तास ज्येष्ठ इति।बृ०६उ०व्या पं०भा०। पं० चू०। ज्येष्ठस्वरुपं गाथाठायेणाऽऽह -- उवठावणाएँ जेट्ठो, विण्णेओ पुरिमपच्छिमजिणाणं। पव्वज्जाए उतहा, मज्झिमगाणं णिरतियारो // 26 // उपस्थापनया महाव्रताऽऽरोपणेन, ज्येष्ठो रत्नाधिको विज्ञेयः, पूर्वपश्चिमजिनानामित्यत्रा साधूनामिति शेषः / प्रव्रज्यया तु प्रव्राजनेन पुनस्तयेति ज्येष्ठो ज्ञेय इत्येतत्सम्बन्धनार्थः / मध्यमकानां द्वाविंशतिजिनसाधूनां, निरतिचारोऽतिचाररहितः / सातिचारस्तु नोपस्थापनया प्रव्रज्यया वा ज्येष्ठः, प्राक्तन्योस्तयोरप्रमाणत्वात, पुनरुपस्थापनायाः सामायिकाऽऽरोपणस्यैव च प्रमाणत्वादिति // 26 / / उपस्थापनया ज्येष्ठ इत्युक्तम्, अथ तद्विधिमुपदर्शयन्नाहपढिएँ य कहिएँ अहिगए, परिहर उवट्ठावणाएँ कप्पो त्ति। छक्कं तीहि विसुद्धं, सम्म णवएण भेएण ||30|| पठितेऽधीते सूत्रतः शस्त्रपरिज्ञाऽध्ययने। च शब्दो भिन्नक्रमः। कथिते व्याख्यातेऽर्थतः / अधिगतेच ज्ञाते, एतस्मिन्नेव सति। (1) एकारस्यतु हस्वपाठः प्राकृतत्वात्। परिहरन्वर्जयन् सन् परिहार्यम् उपस्थापनाया महाव्रताऽऽरोपणस्य कल्पो योग इत्येवंभूतः प्राणी। किं परिहरन्नित्याहषट्कं जीवनिकायषट्कम्, अव्रतषट्कं वा, त्रिभिर्मनोवाकायैः, विशुद्ध निर्दोष यथा भवति तथा, सम्यग्भावतः, नवकेन नवपरिमाणेन, भेदेन विकल्पेन, नवभिर्भेदैरित्यर्थः / मनसा कृतकारितानुमतिभिः, एवं वाचा कायेन चेति॥३०॥ अथ द्वयोर्युगपदुपस्थाप्यमानयोः को ज्येष्ठः ? इत्यत्राऽऽहपितिपुत्तमाइयाणं,समग पत्ताण जेट्ट पितिपमिई। थोवंतरं विलंबो, पन्नवणाए उवट्ठवणा ||31|| पितापुत्राऽऽदीनां जनकसुतप्रभृतीनाम्, आदिशब्दाद्राजामा -- त्यमातादुहितरायमात्याऽऽदिग्रहः / समकं युगपत्, प्राप्तानां विवक्षिताध्ययनाधिगमनोपस्थापनायोग्यतामवाप्तानां योगपद्ये -- नैवोपस्थाप्यमानानां, ज्येष्ठा रत्नाधिकाः पितृप्रभृतयः पित्रादयः स्युः, आदिशब्दाद्राजामात्यराजयादिग्रहः। अथ पुत्राऽऽदिः प्राप्तो न पित्रादिः तदा को विधिः? इत्याह-स्तोकेऽल्पेऽन्तरे विशेष दिनद्वयाऽऽदितः पित्रादिरपि प्राप्स्यतीत्येवंरुपे, विलम्बः प्रतीक्षणं कार्यः / पित्रादौ प्राप्ते सति युगपदेव पित्रा पुत्राऽऽदिरुपस्थापनीयो माभूत्पुत्राऽऽद्यपेक्षया लघुताकरणेन पित्राऽऽदेरसमाध्यु-निष्क्रमणाऽऽदिरिति। अथ बहन्तरं, तदा को विधिः ? इत्याह-प्रज्ञापनया पित्रादेः सम्बोधनया-"तव पुत्रो यदि विवक्षितां महाव्रतश्रियं प्राप्नोत्यन्येषां च ज्येष्ठतरो भवति तवैवाभ्युदयः, ततो न त्वयाऽस्य विघ्नो विधेयः" इत्यादि लक्षणया, उपस्थापना व्रताऽऽरोपणा कार्या / अथ प्रज्ञप्यमानोऽपि यदि न प्रतिपद्यते, तदा प्रतीक्षणीयं यावदसौ प्राप्तः द्वये राजाऽऽदयो युगपद्यदा तूपस्थाप्यन्ते तदा यथाऽऽसन्नं ज्येष्ठतेति। तदेवं प्रकारद्वयेनापि ज्येष्ठत्वे सर्वेऽप्यवस्थिता इति गाथात्रयार्थः॥३१।। पञ्चा० 17 विव०। जेट्ठज्ज पुं० (ज्येष्ठार्य) प्रथमे आयें, नि० चू०१ उ०। जेट्ठभूइ पुं० (ज्येष्ठभूति) जिट्टभूइ' शब्दार्थे ति०। जेट्टमहाजण पुं० (ज्येष्ठमहाजन) ज्येष्ठार्यसाधुसमुदाये, बृ० 1 उ०। जेट्ठयर त्रि०(ज्येष्ठतर) जिट्टयर' शब्दार्थे, प्रा०२पाद। जेट्ठा स्त्री० (ज्येष्ठा) ज्येष्ठभगिन्याम, वयोज्येष्ठायाम, ज्येष्ठस्य पन्त्याम्, गङ्गायाम्, अलक्ष्याम्, अश्वन्यवधिकेऽष्टादशे इन्द्रदेवताके नक्षत्रो, वाच०। चं० प्र० / ज्यो० / स्था० / अनु० / आव० / "जेट्ठाणक्खत्ते तितारे पण्णत्ते' / स०१ सम० / स्था० / भगवतो महावीरस्य स्वनामख्यातायां दुहितारि, तस्याश्च ज्येष्ठेति वा सुदर्शनेति वाऽनवद्याङ्गीति वा नामेति। विशे०। वैशालीनगरनृपतेश्चेटकस्य (1) ''एदोतौ पदान्ते प्राकृते ह्रस्वौ वा' इति हैने छन्दोऽनुशासने।