________________ जुग 1573 - अभिधानराजेन्द्रः - भाग 4 जुगप्पहाण शिर्गुण्यते, स च तावानेव जातः, तत आद्येन चतुर्विशत्यधिकेन शतरूपेण राशिना भागहरणं, छेद्यच्छेदकराश्योश्चतुर्भिरपवर्तना, लब्धानि चतुदर्श मण्डलान्यष्टौ च एकत्रिशद् भागाः / एतस्मादयनक्षेत्रां शोध्यते, तत्रा चतुर्दशस्य त्रयोदश मण्डलानि शुद्धानि, एकमवशिष्टम् / संप्रत्यष्टाभ्य एकत्रिंशद्भागेभ्यस्त्रयोदश सप्तषष्टिभागाः शोध्याः; तत्रा सप्तषष्टिरष्टभिर्गुणिताः,जातानि पञ्चशतानि षट्त्रिंशदधिकानि५३६ / एकत्रिशता योदश गुणिताः, जातानि चत्वारि शतानि व्युत्तराणि 403 / एतानि पञ्चभ्यः षट्त्रिंशदधिकेभ्यः शोध्यन्ते, स्थितं शेष त्रयस्त्रिंशदधिकंशतम् 133 / तत एतत्सप्तषष्टिभागाऽऽनयनाथ सप्तषष्ट्या गुण्यते, जातानि नवाशीतिशतान्येकादशाधिकानि 8611 / छेदराशिौल एकत्रिशत्, स च सप्तषष्ट्या गुण्यते, जाते द्वे सहस्रे सप्तसप्तत्यधिके 2077 / ताभ्यां भागो ह्रियते, लब्धाश्चत्वारः सप्तषष्टिभागाः, शेषास्तिष्ठन्ति षट्शतानि व्युत्तराणि 603 / ततश्छेद्यच्छेदकराश्योः सप्तषष्ट्याऽपर्वतना, जाता उपरि नवाधस्तादेकत्रिंशत्, लब्धा एकस्य सप्तषष्टिभागस्य नवैकत्रिंशच्छेदकृता भागा इति।ज्यो०१६ पाहु०।०। चं० प्र०। (युगे किमादिकाः संवत्सरा इत्यनुपदमेव 'जुगाइ' शब्दे 1575 पृष्ट वक्ष्यन्ते) युगेऽमावास्याः पूर्णिमाश्च यथापंवसंवच्छरिएणं जुगे वावट्टि पुन्निमाओ, वावढि अमावासाओ पण्णत्ताओ। "पंच'' इत्यादि / तत्र जुगे त्रयश्चन्द्रसंवत्सरा भवन्ति, तेषु षट्त्रिंशत्पौर्णमास्यो भवन्ति, द्वौ चाभिवर्द्धितसंवत्सरौ भवतः, तत्र चा भिवर्द्धितसंवत्सरः त्रयोदशभिश्चन्द्रसैर्भवतीति तयोः षड्वंशतिः पौर्णमास्य इत्येवं द्विषष्टिस्ता भवन्तीति, एवममावास्या अपीति / स० 62 सम०। जुगंतकडभूमि स्त्री० युगान्तकृद् (कर) भूमि) युगानि कालमा नविशेषाः, तानि च क्रमवर्तीनि, तत्साधाद्ये क्रमवर्त्तिनो गुरुशिष्यप्रशिष्याऽऽदिरूपाः पुरूषास्तेऽपि युगानि, तैः प्रमितान्तकरभूमिथुगान्तकरभूमिः / ज्ञा०१ श्रु०८ अ०। कल्प०। पुरुषलक्षणयुगापेक्षयाऽन्तकराणां भवक्षयकारिणां भूमिः कालो युगान्तकरभूमिः / स्था०८ ठा० / अन्तकर (कृद्) भूमिभेदे, (सा च कस्यान्तकृतः कियतीति तत्तच्छब्दे निरूपिता) पुरुषौ युगामिव पुरुषयुगं, तदपेक्षयाऽन्तकराणां भवान्तकराणां, निर्वाणगामिनामित्यर्थः। भूमिः कालो युगान्तकरभूमिः / इदमुक्तं भवति-भगवतो वर्द्धमानस्वामिनस्तीर्थे तस्मादेवावधेः तृतीयं पुरुष जम्बूस्वामिनं यावन्निर्वाणमभूत्, तत उत्तरं तद्व्यवच्छेद इति। स्था०३ ठा०४ उ०॥ जुगंतकरभूमि स्त्री० युगान्तकृद् (कर) भूमि। "जुगंतकडभूमि'' शब्दार्थे ज्ञा०१श्रु०८ अ०। जुगंतरपलोयणा स्त्री०(युगान्तरप्रलोकना) युगं यूपः, तत्प्रमाणमन्तरं व्यवधानं प्रलोकयति या सा तथा / (भ०) युगं यूपः, तत्प्रमाणो भूभागोऽपि युगः, तस्यान्तरे मध्ये प्रलोकनं यस्याः सा तथा / युगप्रमाणभूभागव्यवधानेन प्रलोकयन्त्याम् भ०। "जुगमंतरपलोयणाए दिट्टीए'' (जुगंतरपलोयणाएत्ति) युगं यूपः, तत्प्रमाणमन्तरं स्वदेहदेशस्य दृष्टिपातदेशस्य च व्यवधानं, प्रलोकयति या सा युगान्तरप्रलोकना, तया,दृष्ट्येति / भ०२ श० 1 उ०। जुगंधर पुं० (युगन्धर) युगं रथस्य युगकाष्ठं धरति धृ-खच् / रथस्य युगकाष्ठसञ्जने कूवराख्ये काष्ठभेदे, जं० 1 वक्ष० / पर्वतभेदे, वाच० / अम्बरतिलकपर्वतस्थे स्वनामख्याते आचार्य , आ० म०। "जुगंधरा नाम आयरिया विविहनियमधर चउद्दसपुस्विचउण्णाणोवगया / " आ०म० 1 अ० 1 खण्ड / अम्बरतिलकपर्वतमधिकृत्य"युगन्धरमुनिस्तत्र, तदा केवलमासदत्।" आ० क०।अपरविदेहस्थे महाबाहुवासुदेवस्य समकालिके तीर्थकरे, आ० चू०१ अ० आव०। जुगच्छिड न० (युगच्छिद्र) युगरन्ध्रे, आ० क०। "पुव्वंते होइ जुग, अवरते तस्स होइ समिलाओ। जुगछिड्डुम्मि पवेसो, इअ संसइओ मणुअलंभो॥१॥' पूर्वान्ते समुद्रस्य युगम्, अपरान्ते तु सम्या, ततो यथा युगस्य छिद्रे तस्याः प्रदेशः संशयित इत्येवं मनुष्यजन्मलाभः। तथा"जह समिला पन्भट्ठा, सागरसलिले अणोरपारम्मि। पथिसिज्ज जुगच्छिडु, कह विभमंती भमंतम्मि॥१॥" नवरम् -'अणोरपारम्मि देश्यत्वादपारे इत्यर्थः। "सा चंडवायवीई-पणुल्लिआ अ विलभिज जुगछिडु। न य माणुसाउ भट्ठो, जीवो पुण माणुसं लहइ / / 1 / / " आ० क०। उत्त०। जुगणद्ध पुं० (युगनद्ध) युगमिन नद्धो युगनद्धः / यथा युगं वृषभस्कन्धयोरारोपितं वर्तते तद्वद् योगोऽपि यः प्रतिभाति स युगनद्ध इत्युच्यते। एतदाकारं योगभेदे, सू० प्र०१२ पाहु०। जुगप्पहाण पुं० (युगप्रधान) युगश्रेष्ठे, नि० चू०१उ०। "तत्थ अज्जवइरा सुच्चंति जुगप्पहाणा।" आ० म०१ अ०२ खण्ड। जो दुप्पसहो सूरी, होहिंति जुगप्पहाण आयरिया। अञ्जसुहम्मप्पभिई, चउरहिया दुन्नि य सहस्सा / / 451 / / इहावसर्पिण्यां दुःषमावसानसमये द्विहस्तोच्छितश्चतुर्विश - तिवर्षायुष्कः पुष्कलतपःक्षपितकर्मतया समासन्नः सिद्धिसौधं शुद्धान्तरात्मा दशवैकालिकमासूत्रधरोऽपि चतुर्दशपूर्वधर इव शक्रपूज्यो दुष्प्रसहनामा सर्वान्तिमः सूरिभविष्यति, ततः तं दुष्प्रसहं यावत्, तमभिव्याप्यैवेत्यर्थः। आर्यसुधर्मप्रभृतयः, आरात् सर्वहयधर्मेभ्योऽर्वाक् जात आर्यः, स चासौ सुधर्मः, तत्प्रभृतयः, प्रभृतिग्रहणाच जम्बूस्वामिप्रभवशय्यंभवाऽऽद्या गणधरपम्परा गृह्यते, युगप्रधानास्तत्तकालप्रवरपारमेश्वरप्रवचनोपनिषद्वदित्वेन विशिष्टतरमूलगुणोत्तरगुणसंपन्नत्वेन च तत्कालापेक्षया भरतक्षेत्रमध्ये प्रधानाआचार्याः सूरयश्चतुरधिकसहस्रदयप्रमाणा भविष्यन्ति। अन्ये तु चतूरहितसहस्रद्वयप्रमाणा इत्याहुः / तत्त्वं तु सर्वविदो विदन्ति। यच महानिशथिग्रन्थे जग्रन्थ ग्रन्थकार :"इत्थं चायरिआणं, पणपन्ना, हंति कोडिलक्खाओ। कोडिसहस्से कोडी, सए य तह एत्त चेवत्ति "||1|| तत्सामान्यमुनिप्रत्यपेक्षया द्रष्टव्यम् / तथा च तीवोक्तम् - 'एएसिं मज्झाओ, एगे निवडइ गुणगणाइन्ने। सव्वुत्तमभंगेणं, तित्थयररसाणुसरिसगुरू // 1 // ' प्रव०२६४ द्वार। चतुरधिकद्विसहसमिता युगप्रधानाः सिद्धान्ते प्रोक्ताः, ते साम्प्रतं क सन्ति ? इति प्रश्ने, उत्तरम्-साम्प्रतं युगप्रधानाः सन्तीति