________________ जुग 1571 - अभिधानराजेन्द्रः - भाग 4 उपरितनाः, तेऽपि त्रिंशता गुण्यन्ते, जातानि षट्शतानि त्रिंशद - 1 धिकानि / एतेषां सप्तषष्ट्या भागो ह्रियते, लब्धा नव मुहूर्ताः, शेषास्तिष्ठन्ति सप्तविंशतिः / मुहूर्ताश्च मुहूर्तराशौ प्रक्षिप्यन्ते, जातानि संख्यया मुहूर्तानामष्टौ शतान्येकोनविंशत्यधिकानि सप्तविंशतिश्च 816/27/ एकस्य च तस्य सप्तषष्टिभागाः / एतावन्नक्षत्रामासे मुहूर्तपरिमाणम् / ततो घटिकापरिमाणाऽऽनयनार्थमेतदेव द्वाभ्यां गुण्यते, जातानि षोडश शतान्यष्टात्रिशदधि- कानि, चतुष्पञ्चाशच सप्तषष्टिभागा घटिकायाः 1638154/67 / एतावद्धटिकापरिमाणम्। नक्षत्रमासे तौल्यत्वचिन्तायामकस्मिन्नहोरात्रो यो भागा इति सप्तविंशतिहोरात्रास्त्रिभिर्गुण्यन्ते, जातान्येकाशीतिः, एतस्य रिमाणं नक्षत्रामासे एकाशीलिभारास्त्रिषष्टिश्च सप्तषष्टिर्भागा भारस्य तथा एकविंशतिरपि त्रिभिर्गुण्यते, जाता त्रिषष्टिः, ततो जातं तौल्यत्वपरिमाणं नक्षत्रमासे एकाशीति रास्त्रिषष्टिश्च सप्तषष्टिांगा भारस्य / तथाएकैकस्मिनमुहूर्ते चत्वार आढका इति मुहूर्तपरिमाणमनन्तरोक्तं सर्वमपि चतुर्भिर्गुण्यते, तत आगतानि नक्षत्रामासे मेयपरिमाणचिन्तायामाढकानं द्वात्रिंशच्छतानि सप्तसप्तत्यधिकान्येकचत्वारिंशच सप्तषष्टिभागा आढकस्य 3277 / 41/67 / अभिवर्द्धितमासे एकत्रिंशदहोरात्राः, एकविंशत्युत्तरं च शतं चतुर्विशत्युत्तरशतभागानामहोरात्रस्य, तत्रा मुहूत्ताऽऽनयनार्थमेकत्रिशदहोरात्रास्त्रिंशता गुण्यन्ते, जातानि नवशतानि त्रिंशदधिकानि 630 // तदपि चैकविंशत्युत्तरं शतं भागानां, तदपि त्रिशता गुण्यते, जातानि षट्त्रिंशच्छतानि त्रिंशदधिकानि 3630 / एतेषां च चतुर्विशत्युत्तरेण शतेन भागो हियते, लब्धा एकनशिन्मुहूर्ताः, शेषमुद्रति चतुर्विंशत्युत्तरशतभागानां चतुस्त्रिंशचचतुर्विशत्युत्तरशतभागा मुहूर्त्ता मुहूर्तराशौ प्रक्षिप्यन्ते, ततो जातमभिवद्धिते मासे सर्वसंकलनया मुहूर्तपरिमाणं नवशतान्येकोनषध्यधिकानि चतुरित्रंशच चतुर्विशत्युत्तरशतभागाः 656 / 34/124 ! मुहूर्ते च घटिकाद्वयमित्येतदेव मुहूर्तपरिमाणं घटिकाऽऽनयनाय द्वाभ्यां गुण्यते, जातान्येकोनविंशतिशतान्यष्टादशाधिकानि घटिकानामष्टषष्टिश्चतुर्विंशत्युत्तरं शतं भागानाम् 1918 / 68/124 एकैकस्यां च घटिकायां द्वौ द्वावाढकाविति घटिकापरिमाणमिदम् / मेयरूपतया चिन्तायामाढकाऽऽनयनाय द्वाभ्यां गुण्यते, जातान्याढकानामष्टात्रिशच्छतानि सप्तत्रिशदधिकानि, द्वादश च चतुर्विशत्युत्तरशतभागानामाढकस्य 3837 / 12/124 / तथाहि-एकैकस्मिन्नहोरा भास्वयमित्ये कत्रिंशदहोरात्रास्त्रिभिर्गुण्यन्ते, जाता स्त्रिनवतिर्भाराः। यदपि चैकविंशत्युत्तरं शतमपि गिभिर्गुण्यते, जातानि त्रीणि शतानि त्रिषष्ट्याधिकानि 363 / तेषां च चतुर्विशत्युत्तरेण शतेन भागो हियते, लब्धौ द्वौ भारा, तौ च पूर्वराशौ प्रक्षिप्येते, शेष पञ्चदशोत्तरं शतम्, तत आगतं तत्तौल्यत्वचिन्तायामभिवर्द्धितमासे परिमाणं पञ्चनवतिर्भाराः शतभेके पञ्चदशोत्तरं चतुर्विशत्युत्तरशतभागानाम् / / 5 / 115/524 / यदा तु मासस्य शित्तमो भागो दिवस इति दिवसलक्षणमनु सूर्यमासाऽऽदिदिवसपरिमाणं चिन्त्यते, तदा यदेव तस्य मासस्य दिवसापेक्षया परिमाणं, तदेव तस्य दिवसस्य मुहूर्तापेक्षया, परिमाणमयसेयम्। यथा सूर्यदिवसस्य त्रिशन्मुहूर्तपरिमाणं, कर्मदिवसस्य त्रिशन्मुहूर्ता एकविंशतिश्च सप्तषष्टिभागा मुहूर्तस्य, अभिवर्द्धितदिव सस्यैकत्रिंशन्मुहूर्त्ता एकविंशत्युत्तरं च शतं चतुर्विशत्युत्तरशतभागानां मुहूर्तस्यातथा-सूर्यदिवसस्य एकषष्टिघटिका परिमाणम्, कर्मदिवसस्य षष्टिघंटिकाः, चन्द्रदिवसस्य एकोनषष्टिघटिका द्वौ च द्वात्रिशद्भागी घटिकायाः, नक्षत्रदिवसस्य चतुष्पञ्चाशद्धटिका द्विचत्वारिंशत्सप्तषष्टिभागा घटिकायाः, अभिवर्द्धितादिवसस्य षष्टिर्घटिका अष्टादशोत्तरं शतं चतुर्विशत्युत्तरशतभागानां घटिकायाः। 118/124 / एकैकस्यां च घटिकायां द्वौ द्वावाढकाविति दिवसस्य मेयत्वचिन्तायां सूर्यदिवसस्य द्वाविंशतं चत्वारश्च द्वाषष्टिभागा आढकस्य 224/61 नक्षत्रदिवसस्य दशोत्तरं शतमाढकानां, पञ्चनवतिराढकाः, सप्तविंशतिः सप्तषष्टिभागा आढकस्य 110 // 65 // 27/67 / अभिवर्द्धितदिवसस्य सप्तविंशत्युत्तरमाढकशतं द्वादशोत्तरं शतं च चतुर्विंशत्युत्तरशतभागानामाढकस्य 127 / 112/124 / एकै कस्यां नवनालिकायाः पलशतमिति तौल्यत्वचिन्तायामिदं दिवसस्य परिमाणम्। सूर्यदिवसस्यैकषष्टिपलशतानि परिमाणम् 6100 / कर्मदिवसस्य चतुःपञ्चाशत्पलशतानि 5400 / चन्द्रदिवसस्यैकोनषष्टिपलशतानि, द्वौ च द्वाषष्टिभागी पलशतस्य 560012/62 / नक्षत्रदिवसस्य चतुष्पञ्चाशत्पलशतानि वाचत्वारिंशच सप्तषष्टिभागा: पलशतस्य 5400 / 42/62 / अभिवर्द्धितदिवसस्य त्रिषष्टिः पलशतान्यष्टादशोत्तरं च चतुर्विशत्युत्तरं पलशतस्य 6300 / 18/124 / तदेवमुक्तं सप्रपञ्चं पञ्चानामपि संवत्सराणां स्वरूपं, युगप्रमाणं च / ज्यो०२ पाहु०। सू० प्र०। पंचसंवच्छरियस्स णं जुगस्स नक्खत्तमासेणं मिजमाणस्स सत्तसट्टि नक्खत्तमासा पण्णत्ता। "पंच संवच्छर" इत्यादि। नक्षत्रमासोयेन कालेनचन्द्रो नक्षत्रामण्डलं भुक्ते, स च सप्तविंशतिरहोरात्राणि, एकविंशतिश्चाहोरात्रास्य सप्तषष्टिभागाः 27 / 21/67 / युगप्रमाणं चाष्टादशशतानि त्रिशदधिकानीति प्राग्दर्शितम् 1830 / तदेवं नक्षत्रागासस्योक्तप्रमाणराशिना दिनसप्तषष्टिभागतया व्यवस्थापितेन त्रिशदुत्तराष्टाशशतप्रमाणेन युगदिनप्रमाणराशिः सप्तषष्टिभागतया व्यवस्थापितः, एकं लक्षं, द्वाविंशतिः सहस्राणि, षट् शतानि, दश चेत्येवंरूपो 122610 / विभज्यमानः सप्तषष्टिनक्षत्रामासप्रमाणो भवतीति / स०६७ सम०। पंचसंवच्छरियस्सणं जुगस्स रिउमासेणं मिज्जमाणस्स इगसर्व्हि उउमासा पण्णत्ता। "पंच" इत्यादि / पञ्चभिः संवत्सरैर्निर्वृत्तमिति पञ्चसांवत्सरिक, तस्य, णमित्यलङ्कारे, युगस्य कालमानविशेषस्य ऋतुमासेन चन्द्राऽऽदिमासेन मीयमानस्य एकषष्टिः-ऋतुमासाः प्रज्ञप्ताः / इह चायं भावार्थ:- युगं हि पञ्च संवत्सरा निष्पादयन्ति / तद्यथा - चन्द्रश्चन्द्रोऽभिवर्द्धितश्चन्द्रोऽभिवर्द्धितश्चेति / तत्र एकोनत्रिशदहोरात्राणि द्वात्रिंशच द्विषष्टिभागा अहोरात्रस्येत्येवं प्रमणिन 26 / 32/ 62 / कृष्णप्रतिपदामारभ्य पौर्णमासीनिष्ठितेन चन्द्रमासेन द्वादशमासपरिमाणश्चन्द्रसंवत्सरः। तस्य च प्रमाणमिदमत्रीणि शतान्यहा चतुष्पञ्चाशदुत्तराणि, द्वादश च द्विपष्टिभागा दिवसस्य 354 1 22/ 62 / तथा एकत्रिशदहामेकविशत्युत्तरं च शतं चतुर्विशत्युत्तरशतभागानां दिवसस्येत्येवंप्रमाणोऽभिवर्द्धितमास इति 31/121/124 / एतेन च मासेन द्वादशमासप्रमाणेऽभिवर्द्धितसंवत्सरो भवति। स च प्रमाणे