SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ जीव 1520 - अभिधानराजेन्द्रः - भाग 4 जीव जीवे, जीवे वि नियमा जीवे / जीवे णं भंते ! नेरइए नेरइए जीवे ? गोयमा ! नेरइए ताव नियमा जीवे, जीवे पुण सिय नेरइए, सिय अनेरइए। जीवे णं भंते ! असुरकुमारे असुरकुमारे जीवे ? गोयमा ! असुरकुमारे ताव नियमा जीवे, जीवे पुण सिय असुरकु मारे, सिय णो असुरकुमारे / एवं दण्डओ भाणियव्वो० जाव वेमाणियाणं / जीवइ भंते ! जीवे जीवे जीवइ ? गोयमा ! जीवइ ताव नियमा जीवे, जीवे पुण सिय जीवइ, सिय नो जीवइ। जीवइ भंते ! नेरइए नरेइए जीवइ ? गोयमा ! नेरइए ताव नियमा जीवइ, जीवइ पुण सिय नेरइए, सिय अनेरइए, एवं दंडओ नेयव्वो० जाव वेमाणियाणं / इह एकेन जीवशब्देन जीवो गृह्यते, द्वितीयेन च चैतन्य मित्यतः प्रश्नः / उत्तरं पुनर्जीवचैतन्ययोः परस्परेणाविनाभूत-त्वाद् जीवः चैतन्यमेव, चैतन्यमपि जीव एवेत्येवमर्थम- वगन्तव्यम् / नारकाऽऽदिषु पदेषु पुनर्जीवत्वमव्यभिचारि, जीवेषु च नारकादित्वं व्यभिचारीत्यत आह "जीवे णं भंते ! नेरइए' इत्यादि। जीवाधिकारादेवाह - (जीवई भंते! जीवे जीवेजीवइ त्ति) जीवति प्राणान् धारयति यः स जीवः, उत यो जीवः स जीवतीति प्रश्नः / उत्तरं तु यो जीवति स तावन्नियमाजीवः, अजीवस्य आयुः कर्माभावेनं जीवनाभावात् / जीवस्तु स्याजीवति, स्यान्न जीवति, सिद्धस्यजीवनाभावदिति। नारकादिस्तु नियमाजीवति, संसारिणः सर्वस्य प्राणधारणधर्म कत्वात् जीवतीति पुनः स्यान्नारकादिः स्यादनारकादिरिति / भ० 6 श० 10 उ० / "प्राणान् क्षेत्राज्ञरूपेण, धारयन् जीव उच्यते।" इत्युक्ते प्राणानि, वाच०। आतु०॥ध०। सूत्रा० / द्वी० / भ० / न० / जीवो जन्तुरसुमान् प्राणी सत्त्वो भूत इत्यादयो जीवपर्यायाः / विशे०1०। प्रश्न०। कर्म०! उत्ताअनु०। आव०। 60 / तथा च-- जम्हा आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तम्हा पाणे त्ति वत्तव्वं सिया। जम्हा भूए भवइ भविस्सइ तम्हा भए त्ति वत्तव्वं सिया। जम्हाजीवे जीवइ जीवत्तं आउयं च कम्म उवजीवइ, तम्हा जीवे त्ति वत्तव्वं सिया। जम्हा सत्ते सुहासुहेहिं कम्मे हिं, तम्हा सत्ते वि वत्तव्वं सिया। तत्र प्राण इति, एतत्तं प्रति वक्तव्यं स्यात्, यदोच्छ्वासाऽऽ-दिमन्वमात्रमाश्रित्य तस्य निर्देशः क्रियते, एवं भवनाऽऽदिधर्मविवक्षया भूताऽऽदिशब्दपञ्चकवाच्यता तस्य कालभेदेन व्याख्येया, यदा तृच्छ्वासाऽऽदिधर्मेर्युगपदसौ विवक्ष्यते, तदा प्राणो भूतो जीवः सत्त्वो विज्ञो वेदयिता इति, एत्तत्तं प्रति वाच्यं स्यात् / अथवानिगमनवाक्यमेवेदमतो न युगपत्पक्षव्याख्या कार्येति। "जम्हा जीवे' इत्यादि। यस्माजीव आत्माऽसौ, जीवति प्राणान् धारयति, तथा जीवत्वमुपयोगलक्षणम् आयुष्कं च कर्म उपजीवति अनुभवति, तस्माजीव इति वक्तव्यं स्यादिति। (जम्हा सत्ते सुहासुहेहि कम्मेहिं ति) सक्त आसक्तः शक्तो वा समर्थः सुन्दरासुन्दरासुचेष्टासु / अथवा-सक्तः संबद्धः शुभाशुभैः कर्मभिरिति। भ०२श०१ उ०। सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिंजीवाणं सव्येसिं सत्ताणं। सर्वेषां प्राणिनां, द्वित्रिचतुरिन्द्रियाणां, तथा सर्वेषां भूतानां प्रत्येकसाधारणसूक्ष्मबादरपर्याप्तकापर्याप्तकरूपाणामिति / तथा सर्वेषां जीवानां गर्भव्युत्क्रान्तिकसंमूर्छनजौपपातिकपञ्चेन्द्रिणाम्। तथा-सर्वेषां सत्त्वानां पृथिव्या-येकेन्द्रियाणामिति। इह च प्राणाऽऽदिशब्दानां यद्यपि परमार्थतो भेदस्तथाऽपि उक्तन्यायेन भेदो द्रष्टव्यः / उक्तं च - "प्राणा द्वित्रिचतुःप्रोक्ताः। भूतास्तुतरवः स्मृताः। जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वा उदीरिताः / / 1 / / '' इति। यदि वा शब्दव्युत्पत्तिद्वारेण समभिरूढनयमतेन भेदो द्रष्टव्यः / तथाहि-सततं प्राणधारणात्प्राणाः, कालत्रायभवनाद् भूताः, त्रिकालजीवानाद् जीवाः, सदाऽस्तित्वाद् सत्त्वा इति। आचा०१ श्रु०१ अ०६उ०। सर्वेषां प्राणिना (दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषाम) सामान्यतः संज्ञिपञ्चेन्द्रियाणाम् / तथा सर्वेषां भूतानां मुक्तिगमनयोग्येन भव्यत्वेन व्यवस्थिताना, तथा सर्वेषां जीवानां जिजीविषूणां च, तथा सर्वेषां सत्त्वानां तिर्यड्नरामराणां संभारे क्लिश्यमानतया करुणाऽऽस्पदानाम् / एकार्थिकानि चैतानि प्राणाऽऽदीनि वचनानि। आचा०१श्रु०६अ०५ उ०। स्था०। आव०। पा०। ज्ञा०। सूत्रा०। सव्वे पाणा सव्वे भूया सव्वे जीया सव्वे सत्ता। सर्वे प्राणाः सर्वएव पृथिव्यतेजीवायुवनस्पतयः द्वित्रिचतुः-पञ्चेन्द्रियाश्चोन्द्रयबलोच्छवासनिःश्वासाऽऽयुष्कलक्षणप्राणधारणात् प्राणाः / तथा-सर्वाणि भवन्ति भविष्यन्त्यभूवन्निति चतुर्दशभूतग्रामान्तपातीति / एवं सर्व एव जीवन्ति जीविष्यन्ति अजीविषुरिति जीवाः नारकतिर्यन्नरामरलक्षणाश्चतु गतिकाः / तथा-सर्व एवं स्वकृतसातासातोदयसुखदुःखभाजः सत्त्वाः एकार्थाश्चैतेशब्दाः। आचा०१श्रु०४ अ०२उ०। तथा चैवंभूतनयमाधिकृत्यएवं जीवं जीवो, संभारी पाणधारणाणुभयो। सिद्धो पुणरज्जीवो,जीवणपरिणामरहिओ ति॥२२५६|| जीवति ''पंचेन्द्रियाणि त्रिविधं बलं च, उच्छवासनिःश्वासमथान्यदायुः / प्राणा दशैते भगवद्भिरिष्टास्तेषां वियोगीकरणं च हिंसा / / 1 / / '' इत्यादिवचनप्रसिद्धान् दशविधप्राणान् धरतीति शब्दार्थवशाजीवन्नेव दशविधप्राणधारणं कुर्वन्नस्य नयस्य मतेन जीव उच्यते। स च सामर्थ्याद्दशविधप्राणधारणमनुभवतीति दशविधप्राणानुभवोनारकादिः संसार्येव भवति। सिद्धस्त्वेतन्नयमतेनजीवोऽसुमान् प्राणीत्यादिशब्दैन व्यपदिश्यते। जीवनाऽऽ दिपरिणामरहित इतिकृत्वा शब्दार्थाभाग्दात, किंतर्हि सत्तयोगात्सत्त्वः, अततितांस्तान् ज्ञानदर्शनसुखाऽऽदिपर्यायान गच्छती त्यात्मेत्यादिभिरेव शब्दैनिर्दिश्यत इति।।।२२५६|| विशे०। आ०म०॥ तथा च नयोपदेशेसिद्धो न तन्मते जीवः, प्रोक्तः सत्त्वाऽऽदिसंज्ञयपि। महाभाष्ये च तत्त्वार्थ-भाष्ये धात्वर्थबाधतः।।४।। (सिद्ध इति ) तन्मते एवंभूतनयमते सत्त्वाऽऽदिसंज्ञयपरि सत्ता योगात् सत्त्वः, अतति, स्वान् २पर्यायानात्मत्यादिसंज्ञाधार्यपि,
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy