________________ जिणकप्प 1485 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प प्रवाजनमुण्डनेत्यत्र स्थितिर्वाच्या, मनसाऽऽपन्नेऽपि दोषे (से) तस्य, अनुद घाताश्चतुर्गुरवः प्रायश्चित्तम् / तथा कारणनिष्प्रतिकर्मस्थितिर्वाच्या, तथा भक्तं, पन्थाश्च तृतीयायां पौसष्यमस्येति गाथासमासार्थः। व्यासार्थ तु गाथाद्वयस्याऽपि ग्रन्थकार एव प्रतिपादयति। तत्राऽऽद्यक्षेत्र द्वारमधिकृत्याऽहखित्ते दुहेहे मग्गण, जम्मणओ चेव संतिभावे अ। जम्मणओ जहि जाओ, संतीभावे अजहि कप्पो।। 455 / / क्षेत्रे द्विविधा मार्गणा जिनकल्पिकस्थिती-जन्मतश्चैव, सद्भावतश्च / तत्र जन्मतो-यात्रजातः क्षेत्रे, एवं जन्मऽश्रित्य / सद्भावतश्च यत्र कल्पः क्षेत्रे, एवं सद्भावमाश्रित्य, मार्गणेति गाथार्थः। जम्मणसंतीभावे-सु होज सव्वासु कम्मभूमीसु। साहरणे पुण भइओ, कम्मे व अकम्मभूमे वा / / 486 // / जन्मसद्भावयोरयं भवूत् सूर्वासु कर्मभूमिषु भरताद्यासु / संहरणे पुनर्भाज्योऽयं, कर्मभूमिको वा सद्भावमाश्रित्य , अकर्मभूमिको वाऽसद्भावमाश्रित्येति गाथार्थः।। __ काल-द्वारमधिकृत्याऽऽहओसप्पिणिए दोसुं, जम्मणओ तिसु असंतिभावेणं। उस्सप्पिणिविवरीओ,जम्मणओ संतिभावेणं / / 487 / / अवसर्पिण्यां काले, द्वयोः सुषमदुष्षम-दुष्षमसुषमयोर्जन्मतो जन्माऽऽश्रित्यास्य स्थितिः। तिसृषु सुषमदुष्षम-दुष्षमसुषम-दुष्षमासु सद्भावेनेति स्वरूपतयाऽस्य स्थितिः / उत्सपिण्यां विपरीताऽस्य कल्पः-जन्मतः, सद्भावतश्च / एतदुक्तं भवति-दुष्षम-दुष्षम सुषमसुषमदुष्षमासु तिसृषु जन्मतः, दुष्षमसुषम-सुषमदुष्षमयोः शुद्धयोः सद्भावतएवेति गाथार्थः। णोस्सप्पिणि उस्सप्पिणि, होइ उ पलिभागओ चउत्थम्मि। काले पलिभागेसु अ, साहरणे होइ सव्वेसिं / / 488 / / नावसर्पिण्युत्सर्पिणीत्युभयशून्ये स्थिते काले भवति त्वयं जन्मतः, सद्भावतश्च, प्रतिभागे चतुर्थ एव / काले दुष्षमसुषमरूपे-विदेहेषु प्रतिभागेषु च के वलेषु, संहरणे सति, सद्भावमाश्रित्य भवति सर्वेषूत्तरकुर्वादिगतेष्विति गाथार्थः / ___ चारित्र-द्वारमधिकृत्याऽऽहपढमे वा वीए वा, पडिवज्जइ संजमम्मि जिणकप्पं / पुव्वपडिवन्नओ पुण, अण्णअरे संजमे हुजा / / 486 / / प्रथमे वा सामायिक एव, द्वितीये वा छेदोपस्थाप्ये, प्रतिपद्यते, संयमे चारित्रे सति जिनकल्पं, नान्यस्मिन्। पूर्वप्रतिपन्नः पुनरसावन्यतरस्मिन् संयमस्थाने सूक्ष्मसंपरायादौ भवेदुपसमश्रेणिमधिकृत्येति गाथार्थः। मज्झिमतित्थअराणं, पुढमे पुरिमंतिमाण वीअम्मि। पच्छा विसुद्धयोगा, अण्णअरं पावइ तयं तु // 460 / / मध्यमतीर्थकराणां तीर्थ, प्रथमे भवेत्, द्वितीयस्य तेषामभावात् / पुरिमवरमयोस्तु तीर्थकरयोः तीर्थे द्वितीये भवेत्, छेदोपस्थाप्य एव। | पश्चाद्विशुद्धयोगात् कारणादन्यतरं प्राप्नोति तं संयमं सक्ष्मसंपरायादि तूपशमापेक्षयेति गाथार्थः। तीर्थ-द्वारमधिकृत्याऽहतित्थे त्ति नियमओ चिय, होइ स तित्थम्मि न पुण तदभावे / विगएऽणुप्पण्णेवा, जाईसरणाइएहिं तु // 461 // तीर्थ इति नियमत एव भवति स जिनकल्पिकः तीर्थे सडे सति, न पुनस्तदभावे विगतेऽनुत्पन्ने वा तीर्थे, जातिस्मरणादिभिरेव कारणैरिति गाथार्थः। अहिगयरं गुणठाणं, होइ अतित्थम्मि एस किं ण भवे / एसा एअस्स ठिई, पण्णत्ता वीअरागेहिं / / 462 / / अधिकतरं तद्गुणस्थानं श्रेण्यादि भवत्यतीर्थ, मरुदेव्यादीनां तथाश्रवणादिति, एष किं न भवति जिनकल्पिकः ? इत्याशङ्कयाऽहएषा एतस्य स्थितिर्जिनकल्पिकस्य प्रज्ञप्ता, वीतरागैः, न पुनरत्र काचिद्युक्तिरिति गाथार्थः। पर्याय-द्वारमधिकृत्याऽऽहपरिआओ अदुभेओ, गिहि-जइ-भेएहि होइ णायव्यो। एकेको उ दुभेओ, जहण्ण उक्कोसओ चेव / / 463 // पर्यायश्च द्विभेदोऽत्र गृहियतिभेदाभ्यां भवति ज्ञातव्यः / एकैकश्च द्विभेदोऽसौ जघन्य उत्कृष्टश्चैवेति गाथार्थः। एअस्स एसणाओ, गिहिपरिआओ जहण्ण गुणतीसा। जअपरिआए वीसा, दोसु विउकोस देसूणं / / 464 / / एतस्यैष ज्ञेयो गृहिपर्यायो जन्मत आरभ्य जघन्य एकोणत्रिंशद्धर्षाणि / यतिपर्यायो विंशतिवर्षाणि जघन्यः, एवंद्वयोरपि गृहियतिभेदेयोरुत्कृष्टपर्यायो देशोना पूर्वाकोटीति गाथार्थः। आगम-द्वारमधिकृत्याऽऽहअप्पुव्वं णाहिजइ, आगममेसो अइच्च तं जम्म। जमुचिअपगिट्ठजोगा-ऽऽराहणओ चेव कयकिच्चो / / 465 / / अपूर्व नाधीत आगममेषः / कुतः? इत्याह-अतीत्य तज्जन्म वर्तमानं, यद् यस्मादुचितप्रकृष्टवोगाराधनादेव कारणात्, कृतकृत्यो वर्तते। इति गाथार्थः। पुव्वाहीयं तु तयं, पायं अणुसरह निच्चमेवेस। एगग्गमणो सम्म, विस्सोअसिगाइखयहे।। 466 // पूर्वाधीतं तु तच्छुतं प्रावोऽनुस्मरति नित्यमेवैष जिनकल्पिक एकाग्रमनाः सम्यग् यथोक्तं, विश्रोतसिकायाः क्षयहेतुं श्रुतं स्मरतीति गाथार्थः। वेद-द्वारमधिकृत्याऽऽहवेअप्पवित्तिकाले, इत्थीवज्जो उ होइ एगयरो। पुव्वपडिवन्नओ पुण, होज्ज सवेओ अवेओ वा / / 467 // वेदप्रवृत्तिकाले तस्य स्त्रीवर्ज एव भवत्येकतरः पुंवेदो नपुंसकवेदो वा शुद्धः / पूर्वप्रतिपन्नः पुनरध्यवसायभेदोद्भवात्सवेदोऽवेदो वैष भवेत् इति गाथार्थः। उवसमसेढीए खलु, वेए उवसामिअम्मि उ अवेओ। न उ खविए तज्जम्मे, केवलपडिसेहभावाओ / / 498 //