________________ जिणकप्प 1481 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प गृहिस्वौचित्येनसर्वं करोति। अन्याः सामाचार्य इच्छाकायद्यान भवन्ति (से) तस्य शेषाः पञ्च प्रयोजनाभावादिति गाथार्थः। आदेशान्तरमाहआवस्मिअंनिसीहिअ, मोत्तुं उवसंपयं च गिहिएसु। सेसा सामायारी, ण होइ जिणकप्पिए सत्ता / / 424 / / आवश्यकी नैषेधिकी मुक्तवा उपसंपदं च, गृहिष्वारामादिष्वोघतः शेषाः सामाचार्यः पृच्छाया अपि न भवन्ति। जिनकल्पिके सप्ता प्रयोजनाभावादेवेति गाथार्थः। अहवा वि चकवाले, सामायारी उ जस्स जा जोग्गा। सा सव्वा वभव्वा, सुअमाईआइमा मेरा ||426 / / अथवाऽपि चक्रवाले नित्यकर्मणि, सामाचारी तु यस्य या योग्या जिनकल्पिकादेः। सा सर्वा वक्तव्या। अत्रान्तरे श्रुतादिका चेयं मर्यादा वक्ष्यमाणा। इति गाथार्थः। सुअ-संघयणु-वसग्गो, आयंको वेअणा कइजणाय। थंडिल्ल-वसहि केचिर-मोचारे चेव पासवणे // 426 / / श्रुतसंहननोपसर्गा इत्येतद्विषयोऽस्य विधिर्वक्तव्यः। तथा आतङ्कः, वेदना कियन्तो जनाश्चेति, द्वारत्रयमाश्रित्य, तथा स्थाणिडल्यवसति-कियचिरं, द्वाराण्याश्रित्य-तथा-उच्चारे चैव गक्षवणे चेत्येतद्विषये। इति गाथार्थः। ओआसे तणफलए, सारक्खणया य संठवण्या य। पाहुडिओऽग्गीदीवे, ओहाण वसे कइ जणा उ॥४२७|| तथा अवकाशे तृणफलक एतद्विषय इत्यर्थः। तथा संरक्षणता च संस्थापना चेति द्वारद्वयमाश्रित्य-तथा- प्राभृतिकानि दीपेष्वेतद्विषयन्तयावधानं वत्स्यन्ति कति जनाश्चेत्येतद् द्वारद्धयमाश्रित्येति च गाथासमुदायार्थः। भिक्खायरिआ-पाणय-लेवालेवे अ तह अलेवे अ। आयंबिल-पडिमाअ, जिणकप्पे मासकप्पे य॥४२०|| भिक्षाचार्य-पानक इत्येताद्विषयो, लेपालेपे वस्तुनि, तथाअलपेचैतद्विषयश्चेत्यर्थः। तथा-चाम्ल-प्रतिमे, समाश्रित्य-जिनकल्पे, मासकल्पे चैतद् द्वारमधिकृत्य-विधिर्वक्तव्यः। इति गाथासमुदायार्थः। / एतास्तिस्त्रोऽपि द्वारगाथाः। आसामवयवार्थः प्रतिद्वारे स्पष्ट उच्यते। तत्रा श्रुत-द्वारमधिकृत्याहआयारवत्यु तइयं, जहण्णय होइ नवमपुव्वस्स। तहियं कालण्णाणं, दस उक्कोसेण भिण्णाइं॥४२६।। आचारवस्तु तृतीयं, संख्यया जघन्यकं भवति। नवमपूर्वस्य संबन्धिश्रुतपर्यायस्ता कालज्ञानं भवतीति कृत्वा-दशपूर्वाण्युत्कृष्टतस्तु भिन्नानि श्रुतपर्यायतः। इति गाथार्थः। संहनन द्वारमाश्रित्याहपढमिल्लुगसंघयणा, धिइए पुण वजकुड्डसामाणा! पडिवजंति इमं खलु, कप्पं सेसाण तु कयाइ 1430 // प्रथमिल्लुकसंहननात् वज्रऋषभनाराचसंहनना इत्यर्थः। धृ (वृ) त्या पुनर्वजकुभयसमानाः प्रधानवृत्तय इति भावः। प्रतिपद्यन्ते एनं खलु कल्पमधिकृतं जिनकल्प। शेषाणां तु कदाचित्तदन्यसंहनिनः। इति / गाथार्थः। उपसर्ग-द्वारविधिमाहदिव्वाई उवसग्गा, भइआ एअस्स जइ पुण हवंति। तो अव्वहिओ विसहइ, णिचलचित्तो महासत्तो।।४३१।। दिव्यादय उपसर्गा भाज्याः। अस्य जिनकल्पिकस्य भवन्ति, वा नवा? यदि पुनर्भवन्ति कथञ्चित्, ततोऽव्यथितः सन्विसहने तानुपसर्गान्। निश्चलचित्तो महासत्वः स्वल्पस्वभावेन-इति गाथार्थे / आतङ्क-द्वारविधिमाह -- आतंको जरमाई, से विहु भईओ इमस्स जइ होइ। णिप्पडिकम्मसरीरो, अहियासइ तं पि एमेव।।४३२।। आतड़ो ज्वरादिः, सद्योघाती रोगोऽसावपि भाज्योऽस्य भवति। वा यदि भवति कथांचत्ततः निष्प्रतिकर्मशरीरः सन्नधिसहते, तमप्यातङ्कमेवमेव। निश्चलचित्तयेति गाथार्थः। वेदना-द्वारविधिमाहअब्भुवगमिआ उवक्क-माय तस्स वेअणा भवे दुविहा। धुवलोआई पढमा, जराविवागाइआ विइआ||४३३|| आभ्युपगमिकी, औपक्रमिकीचा तस्य जिनकल्पिकस्य वेदना भवति द्विविधाः ध्रुवलोचाद्या प्रथमा वेदना। ज्वरविपाकादिका द्वितीया वेदनेति गाथार्थः। कियन्तो जना इति द्वारविधिमाह - एगो अ एस भयवं, णिविक्खाअ सव्वहेव सव्वत्थ / भावेण होइ निअमा, वसहिम्मिदव्वओ भइओ।।४३४।। एक एवैष भगवान जिनकल्पिकः, निरपेक्षया सर्वथैव सर्वत्र वस्तुनि, भावेनानभिष्वङ्गन भवति नियमात्। वसत्यादौ द्रव्यतो भाज्यः। एकान्तोऽनेको वेति गाथार्थः। स्थाडिडल्य-द्वारमाहउच्चारे पासवणे, उस्सग्गं कुणइ थंडिले पढमे। तत्थेव य पडिजिण्णे, कयकिच्चो उज्जए वत्थे॥४३४॥ उचारे प्रश्रवण एतद्विषयमित्यर्थः। व्युत्सर्ग करोति। स्थण्डिले प्रथमेऽनवपातादिगुणवति। तत्रौव च परिजीर्णानि सन्ति। कृतकृत्यः स तूज्झति, वस्त्राणीति गाथार्थः। वसति-द्वारविधिमाहअममत्ताऽपरिकम्मा, दारविलभग्गजोगपरिहीणा। जिणवसहीथेराण वि, मोत्तूण पमज्जणमकज्जे / / 436 / / अममत्वाऽममे यमित्यभिष्वङ्ग रहिता। अपरिकर्मा-साधुनिभित्तमालेपनादिपरिकर्मवर्जिता। द्वारविल-भग्नयोग-परिक्षीणा, द्वारविलयोगः, स्थगनं पूरणरूप। भगयोगः, पुनः संस्करणमेत-च्छून्या जिनवसति। अस्यानपवादनुष्ठानपरत्वात्। स्थविराणा-मप्येवंभृतैव वसति। मुक्तवा प्रमार्जनं वसतेरेवाकार्य मिति पुष्टमालम्बनं विहायैवंभूतेति गाथार्थः। कियचिर-द्वारविधिमाह - केचिरकालं वसहिहि, एवं पुच्छंति जायणा समए। जत्थ गिही सा वसही, ण होइ एअस्स णिअमेण / / 437 / /