________________ जिणकप्प 1466 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प त्त नियतावश्यंभाविनी सूत्रार्थयोः पौरूषी, कदाचिदस्माकं धर्मकथादिव्यग्रतया सूत्रार्थयोाघातोऽपि भवन्तं भवेदित्यर्थः। तदेतत्सर्वमपियद्यङ्गीकर्तुमुत्साहः ततः प्रतिपद्यध्वमुपसंपदमिति। अत्तणियपरे चेव, तुलणा उभयथिरकारणे वुत्ता। आत्मविषया परविषया च तुलना उभयोरपि स्थिरताकारणं करणार्थमेवमुक्ता। गतं स्थिरत्वद्वारम्। (c) तत्र तृतीयं प्रतीच्छनाद्वार तच्च सोपनयेन स्नुषादृष्टातेन सहोपवर्णितम्पडिवज्जते चेव, करिति सुण्हाए दिहत। “पडिवजते' इत्युत्तरार्द्ध सर्वमनन्तरोक्तमथें यदि प्रतीच्छाः प्रतिपद्यन्ते। तदा स्नुषया बध्वा दृष्टान्तमाचार्याः कुर्वन्तिा तमेवाहआसरहाई ओलो-यणाइभीयाऽऽउले अपेहंती। सकुलघरपरिचएणं, वारिजइ सुसुरमाईहिं॥ खिंसिज्जइ हम्मइ वा, नाणिज्जइ वा घरा अठायंति। नीया पुण से दोसे, छायंतिन निच्छुभंते य / / यथा--काचिद्वधूः स्वकुलगृहस्य स्वकीयपितृगृहस्य संबन्धी यः परिचयो रमणीयवस्तुदर्शनहेवाकस्तेनाश्वरथान्। आदिग्रहणेन हस्त्यादीन, अवलोकनं गवाक्षस्तेन आदिशब्दाद परेण वा जालकादिना भीतानाकुलाँश्च जनान् प्रेक्षमाणा सती वार्यते। पुत्रि! मा अवलोकिष्ठा, इति प्रतिषिध्यते। स्वपुरादिभिः मा भूदरयाः प्रसङ्गतः परपुरुषविषयोऽप्यलोकनहेवाक इति। यदि वारिता सती नोपरमते ततः (खिसिज्जइ त्ति) निन्द्यते-आ: कुलपां सुखे! किमेवं करोषीत्यादि। तथापि यदि न निवर्तते ततो हुन्यते। केशादिभिस्ताडयते एवमपि यदिन, ततोऽतिष्ठन्ती गृहात निष्काश्यते। मा भृदपरासामपि गृहमहेलानामस्याः प्रसङ्ग जनित एवंविध एव कुहेवाक इति कृत्वा ये तु तस्या निजकाः पितृगृहसंबद्धाः स्वजनाः (से) तस्याः दोषान् छादयन्ति कथं-चिदुपालभ्यप्रदानादिना / छादयन्ति। अपि न गृहान्निष्काशयन्ति। गौरवार्हत्वात्तत्र तस्याः। एष स्नुषादृष्टान्तः। अथाथापनयमाहमरिसिञ्जइ अप्पो वा, सगणे दंभो न या विनिच्छभणं ।अम्हे पुण न सहामो, सुसुरकुलं चेव सुण्हाए / / ते आचार्याः भणन्ति--आर्याः पितृगृहस्थानीषो युष्माकं स्वगच्छ: स्वसुरस्थानीया वयम्, अश्वरथाद्यवलोकनस्थानीय प्रमादासेवन, गवाक्षादिस्थानीयान्ययुष्टालम्बनानि, ततो युष्माकं स्वगणे प्रमादासेवन कृतमपि मृश्यते क्षम्यते। अल्पोवा दण्डः प्रायश्चित्तलक्षणः प्रमादप्रत्ययो भवतां ता दीयते, न च महत्यपि अपराधे गच्छात् निष्काशनं, गौरवाईतया भवतां भवति। वयं पुनः स्वल्पमप्यपराधं भवतां न सहामः। श्वसुरकुलमिव स्नुषाया बध्वाः संबन्धिनमपराधामित्युक्तेः। यदि ते प्रतीच्छका भणेयुः। एवमेतद्यदादिशन्ति भगवन्तः, ततस्ते प्रतीष्ठन्ता एते च द्विधा, पार्श्वस्थादयो वा भवेयुः, संविग्ना वा। तत्र ये पार्श्वस्थादयस्ते पार्श्वस्थादिमुण्डिता वाऽपि समनोज्ञा वा अमनोज्ञा वा। सर्वेषानप्येषां विधिमाहपामत्थाइमुंडिए, आलोयण होइ दिक्खपभिईओ। संविग्गपुराणे पुण, जप्पमिइं चेव ओसन्नो // समणुन्नमसमणुन्ने, जप्पभिई चेव निग्गओ गच्छा। सोहिं पडिच्छिऊणं, सामायारि पयंतीय॥ यः पार्श्वस्थादिभिरेव मुण्डितस्तस्त दीक्षाप्रभृति दीक्षादि नादारण्य अलोचना भवति। यस्तुसंविनमुण्डितत्वात्पूर्व संविग्नः पश्चादवसन्नीभूतः स पुराणसंविग्न उच्यतो गाथायां प्राकृतत्वात् व्यत्यासेन पूर्वरनिपातः स यत्प्रभृति यदिनादारभ्यावसन्नः संजातस्तत्प्रभृत्येवालोचना दाप्यते। यस्तु संविनः य द्विधासमनोज्ञः साम्भोगिकोऽसमनोज्ञः सांभोगिकः। म द्विविधोऽपि वत्प्रभृति स्वगच्छन्निर्गतस्तत एव दिनादारभ्य अलोचना दापयितव्यः। ततः शोधिर्मालोचनां प्रतीच्छनीयो यक्ष परछेदं मूलं वा प्रायश्चितमापन्नस्तस्य तदत्वा स्वकीयां सामाचारीमाचार्याः दर्शयन्ति। किं कारणमिति चेदित्याहअवि गीयसुयहराणं, वाइजंताण मा हु अचियत्तं। मेरासु य पत्तेयं-मा संखडं पुव्वकरणेणं / ये गीतार्थाः श्रुतधरा बहुश्रुता गणिवाचकादिशब्दाभिधेवा इत्यर्थः। तेषामपि किं पुनरितरेषामित्यपिशब्दार्थः। वितथसामाचारीकरणेनोद्यच्छमानानां मैवं सामाचारीमन्यथा कारं कार्वीरित्यादिवचनैर्मा भूत (अचियत्त) अप्रीतिकं यतोऽ न्योऽन्यं गच्छानां काश्चिदनीदृश्यः सामाचार्यस्ततः प्रत्येकं पृथग पृथक् मर्यादासु सामाचारीषु वर्तमानासु प्रवाहतः पूर्वन्य स्ताया एव सामाचार्याः करणेन प्रतिनोदितानां मा (असंखड) कलहो भवेदित्यस्मात्सा चक्रवालसामाचारी कथयितव्या आह कथं पुनरभिधीयमानेऽप्रीतिकं भवेदुच्यतेगच्छइ वियारभूमा-इ वायओ देह कप्पियारं से। तम्हा उ चक्कवालं, कहिंति अणहिंडिय निसिं वा / / अयं वाचको विचारभूम्याम्। आदिशब्दात् भक्तपानग्रहणादौ गच्छति, अतो ददत, कल्पितारं कमपि कल्पकंसाधु (से) तस्य वाचकस्य येन सामाचारी दर्शयति। एवमभिधीयमाने तस्य वाचकस्य महदप्रीतिक भवति। यथाऽहो स्वगणं विमुच्य परमणमुपसंपन्ना वयमप्येवं परिभूयामहे इति, यत एवं तस्माचक्रवालसामाचारी प्रतिदिन क्रियाकलापरूपां तेषा पुरत आचार्याः कथयन्तिा यथा ते कल्पिका भवन्तिा यावच सा तेषा प्ररूप्यते। ताचत् (अणहिंडिय त्ति) तेभिक्षार्थ न हिण्डाप्यन्ते, मा भूतेषां सामाचारीशिक्षणव्याघातः। अथ न संस्तरन्ति, ततो निशि रात्रौ ते सामाचारी ग्राहयितव्या इति। गतं प्रतीच्छनाद्वारम्। (6) तत्रा चतुर्थं वाचनाद्वार तचोपदेशस्मारणा प्रतिस्मारप्पामिः त्रिविधम्। घट्टना दिदृष्टान्तत्रयेण, निष्काशना दिविधिना स्थिरीकरणस्य राजदृष्टान्तेन सह दर्शितम् * गृहीतसामाचारीकाणां सूाार्थवाचनादातव्या, वाच्यमानानां च तेषां सामाचारीकरणे प्रमाद्यतां यो बिधिस्तमभिधित्सुर श्लोष्कामाह उवएसो सारणे चेव, तइया पडिसारणा। छंद अवट्टमाण जं, अप्पच्छंदेण वजेजा।